सनत्कुमार उवाच |

अथ ता देवता देवी कौशिकी देहसम्भवाः |
न्यवेशयन्महाभागा देशेषु नगरेषु च || १ ||
बहुपुत्रां प्रलम्बां च लङ्कायां संन्यवेशयत् |
लम्बौष्ठीं वृषदंशां च किंनरीं चैव सिंहले || २ ||
गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम् |
आभीरेषु शिवां चैव शान्तिं च वरणातटे || ३ ||
वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि |
उपकां पारसीकेषु वायसीं यवनेषु च || ४ ||
प्रचण्डां च तुखारेषु कौसलेषु च लम्बिकाम् |
जयां च विजयां चैव स्वपुरे संन्यवेशयत् || ५ ||
प्रभावती कलिङ्गेषु जयन्ती नागसाह्वये |
काश्मीरेषु स्थिता षष्ठी सरमा मलयेषु च || ६ ||
पूतनां च सुवीरेषु मृत्युं पिष्टपुरे तथा |
कोटीवर्षे बहुमांसां पौण्ड्रेषु कटपूतनाम् || ७ ||
अस्पृष्टां मध्यदेशे तु किंनरीं बर्बरेषु च |
वाराणस्यां निरायासां चित्रघण्टां च कौशिकी |
महाकालीं महाकाले वानरीं शबरेषु च || ८ ||
शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च |
कर्वटेषु महीध्रेषु कौशिकी संन्यवेशयत् || ९ ||
कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः |
यत्र विष्णुर्वरांल् लेभे देवमाराध्य शंकरम् |
चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम् || १० ||
ऋषिरास्ते महाभागः शरद्वान्नाम गौतमः |
तस्य यज्ञं जगामाथ देवी तेन निमन्त्रिता || ११ ||
तस्यास्तत्रागमं ज्ञात्वा सूनुः सुम्भस्य वीर्यवान् |
आजगामाशु तं देशं महिषो नाम दानवः || १२ ||
सुसंहतः पृथूरस्को महाग्रीवः सुवालधिः |
वक्रशृङ्गः पृथुखुरो विशालोच्छ्रितमस्तकः || १३ ||
बद्धवैराशयः क्रूरो महासत्त्वो ऽतिदुर्जयः |
वज्रनिष्पेषपरुषं नर्दमानो महास्वनः || १४ ||
अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः |
देव्याः पन्थानमावृत्य दानवेन्द्रसुतः स्थितः || १५ ||
विज्ञाय तस्यागमनं योगेशा विन्ध्यवासिनी |
जगाम त्वरिता तत्र यत्रासौ दानवाधमः || १६ ||
अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः |
अभ्याजगाम वेगेन यत्नमास्थाय दानवः || १७ ||
उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः |
अभ्यापतद्गुग्गुलुताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः || १८ ||
तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम् |
चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री || १९ ||
अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम् |
अभ्याहनद्वक्षसि लोलहारे शृङ्गेण शक्रायुधकर्कशेन || २० ||
विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण |
उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद्भूमितले श्वसन्तम् || २१ ||
उद्गृह्य सा वालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य |
त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम् || २२ ||
कुलिशकठिनशृङ्गं नीलजीमूतकल्पं
महिषमथ निहत्य प्रौढदर्पं तदानीम् |
विविधकुसुमवृष्ट्या सर्वतः कीर्यमाणा
धरणिधरमगच्छत्कौशिकी स्वं निवासम् || २३ ||
इति स्कन्दपुराणे ऽष्टषष्टो ऽध्यायः ||