सनत्कुमार उवाच |

प्रविष्टे भवनं देवे सूपविष्टे वरासने |
स बहिर्मन्मथः क्रूरो देवं वेद्धुमनाभवत् || १ ||
तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् |
लोकान्सर्वांस्तापयानं सर्वेष्वकरुणात्मकम् || २ ||
ऋषीणां विघ्नकर्तारं नियमानां व्रतैः सह |
चक्राह्वयस्य रूपेण रत्या सह तमागतम् || ३ ||
अथाततायिनं व्यास वेद्धुकामं सुरेश्वरम् |
नयनेन तृतीयेन सावज्ञं तमवैक्षत || ४ ||
ततो ऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् |
संवृत्य रतिभर्तारमदहत्सपरिच्छदम् || ५ ||
स दह्यमानः करुणमार्तो ऽक्रोशत विस्वरम् |
प्रसादयंश्च तं देवं पपात स महीतले || ६ ||
आशु सो ऽग्निपरीताङ्गो मन्मथो लोकतापनः |
पपात भस्मसाच्चैव क्षणेन समपद्यत || ७ ||
पत्नी तु करुणं तस्य विललाप सुदुःखिता |
देवं देवीं च दुःखार्ता अयाचत्करुणायती || ८ ||
तस्याश्च करुणां श्रुत्वा देवौ तौ करुणात्मकौ |
ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् || ९ ||
दग्ध एष ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते |
अशरीरो ऽपि ते काले कार्यं सर्वं करिष्यति || १० ||
यदा तु विष्णुर्भविता वसुदेवसुतः शुभे |
तदा तस्य सुतो ऽयं स्यात्पतिस्ते स भविष्यति || ११ ||

सनत्कुमार उवाच |

ततः सा तं वरं लब्ध्वा कामपत्नी शुभानना |
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा || १२ ||

सनत्कुमार उवाच |

एवं दग्ध्वा स कामं तु शंकरो मूढचेतसम् |
प्रोवाच हिमवत्पुत्रीं भक्त्या मुनिवरस्य ह || १३ ||
वसिष्ठो नाम विप्रेन्द्रो मां कृत्वा हृदि तप्यते |
तस्याहं वरदानाय प्रयास्यामि महाव्रते || १४ ||
एवमुक्त्वा स देवीं तु भक्तिप्रीत्या तदा विभुः |
जगाम तप्यतो ऽभ्याशं वसिष्ठस्य मुनेर्विभुः || १५ ||
ततो मुनिवरश्रेष्ठं वरिष्ठं तपतां वरम् |
वसिष्ठमृषिशार्दूलं तप्यमानं परं तपः || १६ ||
पूर्णे वर्षसहस्रे तु ज्वलमानमिवानलम् |
उवाच भगवान्गत्वा ब्रूहि किं ते ददानि ते |
ददामि दिव्यं चक्षुस्ते पश्य मां सगणं द्विज || १७ ||
दृष्ट्वा स तु तमीशानं प्रणम्य शिरसा प्रभुम् |
शिरस्यञ्जलिमाधाय तुष्टाव हृषिताननः || १८ ||

वसिष्ठ उवाच |

नमः कनकलिङ्गाय वेदलिङ्गाय वै नमः |
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः || १९ ||
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः |
नमः पवनलिङ्गाय ब्रह्मलिङ्गाय वै नमः || २० ||
नमस्त्रैलोक्यलिङ्गाय दाहलिङ्गाय वै नमः |
नमः पर्वतलिङ्गाय स्थितिलिङ्गाय वै नमः || २१ ||
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने |
नमः सर्वार्थलिङ्गाय सर्वलोकाङ्गलिङ्गिने || २२ ||
नमो ऽस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः |
नमो ऽहंकारलिङ्गाय भूतलिङ्गाय वै नमः || २३ ||
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने |
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः || २४ ||
नमः सर्वार्थलिङ्गाय तमोलिङ्गाय वै नमः |
नमो रजोर्ध्वलिङ्गाय सत्त्वलिङ्गाय वै नमः || २५ ||
नमो गगनलिङ्गाय तेजोलिङ्गाय वै नमः |
नमो वायूर्ध्वलिङ्गाय शब्दलिङ्गाय वै नमः || २६ ||
नमो ऋक्स्तुतलिङ्गाय यजुर्लिङ्गाय वै नमः |
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय वै नमः || २७ ||
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः |
नमस्ते ऽनन्तलिङ्गाय देवानुगतलिङ्गिने || २८ ||
दिश नः परमं योगमपत्यं मत्समं तथा |
ब्रह्म चैवाक्षयं देव शमं चैव परं विभो |
अक्षयत्वं च वंशस्य धर्मे च मतिमक्षयाम् || २९ ||

सनत्कुमार उवाच |

एवं स भगवान्व्यास वसिष्ठेनामितात्मना |
स्तूयमानस्तुतोषाथ तुष्टश्चेदं तमब्रवीत् || ३० ||

भगवानुवाच |

तुष्टस्ते ऽहं ददान्येतत्तव सर्वं मनोगतम् |
योगं च परमं सूक्ष्ममक्षयं सर्वकामिकम् || ३१ ||
पौत्रं च त्वत्समं दिव्यं तपोयोगबलान्वितम् |
ददानि ते ऋषिश्रेष्ठ प्रतिभास्यन्ति चैव ते || ३२ ||
दमः शमस्तथा कीर्तिस्तुष्टिरक्रोध एव च |
नित्यं तव भविष्यन्ति अमरत्वं च सर्वशः || ३३ ||
अवध्यत्वमसह्यत्वमक्षयत्वं च सर्वदा |
वंशस्य चाक्षतिर्विप्र धर्मे च रतिरव्यया |
ब्रूहि चान्यानपि वरान्ददामि ऋषिसत्तम || ३४ ||

वसिष्ठ उवाच |

भगवन्विदितं सर्वं भविष्यं देवसत्तम |
न स्याद्धि तत्तथा देव यथा वा मन्यसे प्रभो || ३५ ||

देव उवाच |

भविष्यं नान्यथा कुर्यादिति मे निश्चिता मतिः |
अहं कर्ता भविष्यस्य कथं कुर्यात्तदन्यथा || ३६ ||
तथा तन्नात्र संदेहो विहितं यद्यथा मया |
तस्मात्ते ऽनुग्रहं कर्ता भूयः पुत्रस्तवाव्ययः || ३७ ||

सनत्कुमार उवाच |

एवमुक्त्वा ततो देवः कपर्दी नीललोहितः |
पश्यतस्तस्य विप्रर्षेः क्षणादन्तरधीयत || ३८ ||
इति स्कन्दपुराणे पञ्चदशमो ऽध्यायः ||