सनत्कुमार उवाच |

ततस्ते पितरस्तस्य प्रतिष्ठां स्वसुतं प्रति |
सुशर्माणमिति ख्यातं कथयामासुरव्ययाः || १ ||

पितर ऊचुः |

अयं ते जनकः पुत्र सुशर्मा लोकविश्रुतः |
कथयिष्यति तत्त्वेन यत्त्वया समुदाहृतम् || २ ||

सनत्कुमार उवाच |

ततः सुशर्मा विप्रर्षे तमामन्त्र्य महामनाः |
उवाचेदं महासत्त्वं सुकेशं गणसत्तमम् || ३ ||

सुशर्मोवाच |

गणेश्वरेश शृणुया नरका ये प्रकीर्तिताः |
दुरासदा महादुर्गाः सर्वप्राणिभयंकराः || ४ ||
प्रथमो नरकस्तत्र विश्रुतो यमलाचलः |
द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः || ५ ||
कुम्भीपाकश्चतुर्थश्च असिपत्रवनो ऽपरः |
तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः || ६ ||
अष्टमः पद्म इत्येव महापद्मस्तथापरः |
रौरवो दशमश्चैव महारौरव एव च || ७ ||
द्वादशश्च तमो नाम तमस्तमतरस्तथा |
एते महान्तो नरका उच्छ्रयाश्च तथापरे || ८ ||
एकैकस्योच्छ्रया ह्यष्टौ नरकास्ते ऽपि कीर्तिताः |
उच्छ्रयेषु सविश्रामा यातना भवतीश्वर |
इतरेषु त्वविश्रामा विशेषो ह्येष कीर्तितः || ९ ||
तेषां सततदुःखं तु नॄणां पापेन कर्मणा |
भेदः क्षयाच्च पापस्य क्रमस्तेषां प्रवक्ष्यते || १० ||
प्रमाणं तु गणेशेश न शक्यं वक्तुमेकशः |
विभुत्वात्कर्मणस्तस्य क्षयादन्तं प्रपश्यति || ११ ||
नरको ऽतिततः सर्वो नान्तं तस्य प्रपश्यति |
क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मे ऽव्यय || १२ ||
पतितो नरके घोरे दुष्कृती स्वेन कर्मणा |
यात्यमानो ऽतिकरुणं दिशमेकां प्रपद्यते || १३ ||
स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम् |
बहूनब्दाननासाद्य तस्यान्तं विनिवर्तते || १४ ||
विनिवृत्य ततो भूयो यात्यमानो विचेतनः |
अन्यां दिशं पुनर्गत्वा तथैव विनिवर्तते || १५ ||
एवं सर्वा दिशो गत्वा ह्यन्तमप्राप्य दुःखिताः |
यात्यन्ते करुणं तत्र पापस्यान्ते ततः पुनः || १६ ||
प्रपश्यन्ते परिमितं परिच्छिन्नं च सर्वशः |
द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते || १७ ||
एवं हि नरकाः सर्वे ह्यनन्ताश्चाक्षयाव्ययाः |
न तेषां परिसंख्यानं योजनैः संविधीयते || १८ ||
येन कालेन तु पुनर्जन्तुः पतति दुःखितः |
यथा चैतच्छृणु विभो कथ्यमानं मयानघ || १९ ||
कृत्वा पापानि कर्माणि क्षयान्ते दुष्टचेतनः |
व्याध्याधियुक्तः क्लेशेन त्यजति स्वां तनुं ततः || २० ||
यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः |
विषमेण पथा देव नीयते विकृताकृतिः || २१ ||
अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः |
केशामेध्यास्थिपङ्कैश्च दह्यमानः समन्ततः || २२ ||
विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः |
क्वचिच्चोपलवर्षेण महता संनिकीर्यते || २३ ||
तत्र भिन्नशिरोजानुपादबाहूरुबन्धनः|
कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः |
पाट्यते भिद्यते चैव वल्लीभिश्चावबध्यते || २४ ||
एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो |
नीयमानो ऽवशः क्लेशात्प्राप्नोति यमसादनम् || २५ ||
स ततो यममप्राप्य दूरादेव यमाज्ञया |
चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम् || २६ ||
सोमो ऽग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम् |
साक्षिणः सर्वजन्तूनां ब्रुवते कर्म यत्कृतम् || २७ ||
उक्तो विभावितश्चैव चित्रगुप्तेन चोदितः |
नरके निपतत्यार्त्त ऊर्ध्वपादो ह्यधःशिराः || २८ ||
तोमरैश्चातितीक्ष्णाग्रैः शरैश्चाथ परश्वधैः |
भिन्दिपालैर्मुद्गरैश्च असिभिर्दीर्घवेधनैः || २९ ||
परिघैः करपत्रैश्च वज्रैष्टङ्कैर्हुलोपलैः |
कीलैश्च मुसलैश्चैव क्षारपिष्टेन चैव हि || ३० ||
प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत |
हन्यमानो दिवारात्रं विनदन्करुणं बहु |
वर्षाणां तु सहस्रेण नरकं प्राप्नुते ऽशुभम् || ३१ ||
स तत्र पतितो भूयो यात्यमानः सुदुःखितः |
वर्षकोटीमविश्राम्य निरयान्तं प्रपद्यते || ३२ ||
महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः |
शीतेन वायुना स्पृष्टः सुखं तत्र स विन्दति || ३३ ||
स तं विश्राममासाद्य विस्मृतो यातनां तदा |
मुहूर्तमाहृते स्वप्ने राक्षसेनापकृष्यते || ३४ ||
स तेन कृष्यमाणश्च भूयो दुःखेन चार्दितः|
करुणं बहुधातीव प्रविलप्यावतिष्ठते || ३५ ||
ततो भूयः समाकृष्य यातनायां स राक्षसः |
यातयत्येव तं जन्तुं सविश्रामं सचेतनम् || ३६ ||
तत्र वर्षसहस्रं वै यातितः पुनरेव सः |
अन्यस्मिन्नुच्छ्रये घोरे यात्यते तावदेव हि || ३७ ||
एवं स उच्छ्रयान्प्राप्य अष्टौ पापेन कर्मणा |
संसारं कृमिकीटादि जन्तुः संप्रतिपद्यते || ३८ ||
ये तु गच्छन्ति तं घोरं नरकं पुरुषाधमाः |
तानहं संप्रवक्ष्यामि तव पुत्र समासतः || ३९ ||
प्रथमो यो मया प्रोक्तो नरको यमलाचलः |
यात्यन्ते तत्र पुरुषा महानिरयगामिनः || ४० ||
पर्वतौ द्वौ महासत्त्व सिंहव्याघ्रसमाकुलौ |
शरभेभसमाकीर्णौ बहुसर्पसमाकुलौ || ४१ ||
पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः |
वृक्षैरपर्णैः संयुक्तौ सूचिभिर्वज्रकण्टकैः || ४२ ||
तयोरन्तरमेकं वै समं सूचिभिरावृतम् |
ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च |
अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतम् || ४३ ||
प्राकारेण च लोहेन समन्तात्परिवारितौ |
आकाशे चापि लोहेन तौ जालेन समावृतौ || ४४ ||
यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम् |
आक्रमन्ति पराक्यां वै कन्यादूषक एव च || ४५ ||
न्यासापहारकश्चैव तथा मांसापहारकः |
रसापहारकश्चैव यश्चापि परदूषकः || ४६ ||
इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च |
मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये || ४७ ||
वृथामांसाशिनो ये च विषं ये च प्रकुर्वते |
एते नराधमाः पुत्र गच्छन्ति यमलाचलम् || ४८ ||
यमलेषु च जातेषु यो न कुर्यान्नराधमः |
प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते || ४९ ||
स प्रपन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः |
आयुधैश्छिद्यमानश्च पर्वतं तं प्रपद्यते || ५० ||
तत्र व्याघ्रैश्च सिंहैश्च शरभैः स तरक्षुभिः |
सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते || ५१ ||
तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहते |
तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते पक्षिभिश्च ह || ५२ ||
अथ चेत्कन्दरांस्तस्य गुहां वा यातुमिच्छति |
तत्रापि ह्यग्निना दग्धो दुःखार्तो विनिवर्तते || ५३ ||
अथ चेदन्तरं घोरं तयोः संप्रतिपद्यते |
तत्र सूचीभिरुग्राभिः पादयोर्भिद्यते नरः || ५४ ||
भिन्नं च तं समालक्ष्य अशक्तमपसर्पणे |
समागम्याचलौ क्षिप्रं पीडयेतामतीव हि || ५५ ||
पीड्यमानो ऽचलाभ्यां च यन्त्रेणेक्षुवदातुरः |
करुणं क्रन्दमानस्तु यातनां तां समश्नुते || ५६ ||
भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः |
दग्धस्य च नवं भूयः शरीरमभिजायते || ५७ ||
एवं स यात्यमानो वै बहूनब्दान्सुदुःखितः |
द्वारं लब्ध्वा विनिःसृत्य उच्छ्रयेषु निपात्यते || ५८ ||
यमलाचलमेतमुग्रवेगं बहुपापसमेतकर्मयोगम् |
शृणुयाद्य अभीक्ष्णशो ऽतिवेगं स न याति तमुग्रपापयोगम् || ५९ ||
स्कन्दपुराणे सप्तत्रिंशो ऽध्यायः ||