83

अथ षष्ठः परिच्छेदः ।

अथ दिनचर्याधिकारः ।

मंगलाचरण व प्रतिज्ञा ।

नत्वा देवं देववृंदार्चितांघ्रिं ।
वीरं धीरं साधु सुज्ञानवार्धिम् ॥
स्वस्थं स्वस्थाचारमार्गो यथाव--।
च्छास्त्रोद्दिष्टः स्पष्टमुद्योततेऽतः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

दंत धावन ।

प्रातः प्रातर्भक्षयेद्दंतकाष्टं ।
निर्दोषं यद्दोषवर्गानुरूपम् ॥
अन्ने कांक्षा वाक्प्रवृत्तिं सुगंधिं ।
कुर्यादेतन्नाशयेदास्यरोगान् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

दांतून करनेके अयोग्य मनुष्य ।

शोषोन्मादाजीर्णमूर्च्छार्दिता ये ।
कासश्वासच्छर्दिहिक्काभिभूताः ॥
पानाहाराः क्लिन्नगात्राः क्षतार्ताः ।
सर्वे वर्ज्याः दन्तकाष्ठप्रयोगे ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.