146

बस्तिकर्म के लिये अपात्र.

अजीर्णभयशोकपाण्डुमदमूर्च्छनारोचक--।
भ्रमश्वसनकासकुष्ठजठरार्तितृष्णान्वितान् ॥
गुदांकुरनिपीडितांस्तरुणगर्गिणीशोषिणः ।
प्रमेहकृशदुर्बलाग्निपरिबाधितोन्मादिनः ॥ ६२ ॥
उरःक्षतयुतान्नरानधिकवातरोगादृते ।
बलक्षयविशोषितान्प्रतिदिनं प्रलापान्वितान् ॥
अतिस्तिमितगात्रगाढतरनिद्रया व्याकुलान् ।
सदैव परिवर्जयेदुदितबस्तिसत्कर्मणा ॥ ६३ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिकर्म का फल ।

न चास्ति पवनामयप्रशमनक्रियान्या तथा ।
यथा निपुणबस्तिकर्म विदधाति सौख्यं नृणां ॥
शरीरपरिवृद्धिमायुरनलं बलं वृष्यतां ।
वयस्थितिमरोगताममलवर्णमप्यावहेत् ॥ ६४ ॥

भावार्थः--The Hindi commentary was not digitized.

बस्तिकर्म का फल ।

बलेन गजमश्वमाशुगमनेन बुध्या गुरुं ।
दिवाकरनिशाकरावपिच तेजसा कांतितः ॥