171

वातज्वरमें क्वाथ

वासामृतांबुदपटोलमहौषधानां ।
पाठाग्निमंथबृहतीद्वयनागराणाम् ॥
वा शृंगवेरपिचुमंदनृपांघ्रिपानाम् ।
क्वाथं पिबेदखिलवातकृतज्वरेषु ॥ ७१ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज्वर में क्वाथ ।

लाजाजलामलकबालकशेरुकाणां ।
मृद्वीकनागमधुकोत्पलशारिबानां ॥
कुस्तुंबुरोत्पलपयोदपयोरुहाणां ।
क्वाथं पिबेदखिलपित्तकृतज्वरेषु ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

कफज्वर में क्वाथ ।

एलाजमोदमरिचामलकाभयाना--।
मारग्वधांबुदमहौषधपिप्पलीनाम् ॥
भूनिंबनिंबबृहतीद्वयनागराणाम् ।
क्वाथं पिबेदिह कफप्रचुरज्वरेषु ॥ ७३ ॥

भावार्थः--The Hindi commentary was not digitized.

सन्निपातिक ज्वरमें क्वाथ ।

मुस्तानिशामलकचंदनसारिवानां ।
छिन्नोद्भवांबुदपटोलहरीतकीनां ॥
मूर्वामृतांबुदबिभीतकरोहिणीनां ।
क्वाथं पिबेद्रखिलदोषकृतज्वरेषु ॥ ७४ ॥