218
भावार्थः--The Hindi commentary was not digitized.
कफोदर लक्षण ।
गुरुस्थिरं स्निग्धतरं सुशीतं । महत्सितं शुक्लशिरावनद्धम् ॥
क्रमात्प्रवृद्धं जठरं सशोफम् । कफः करोति स्वयमेव दुष्टः ॥ १३० ॥
भावार्थः--The Hindi commentary was not digitized.
सन्निपातोदर निदान ।
समूत्रविट्शुक्ररजोयुतान्नै--। र्विषोदकैश्चापि विषप्रयोगैः ॥
सरक्तदोषाः कुपिताः प्रकुर्यु--। र्महोदरं दूषिविषांबुजातम् ॥ १३१ ॥
भावार्थः--The Hindi commentary was not digitized.
सन्निपातोदरलक्षण ।
तदेतदत्यंबुददुर्दिनेषु । विशेषतः कोपमुपैति नित्यम् ॥
तदानुगो मूर्च्छति तृष्णया च । विदाह्यते दाहपरीतदेहः ॥ १३२ ॥
भावार्थः--The Hindi commentary was not digitized.
यकृत्प्लिहोदर लक्षण ।
ज्वरातिदाहात्प्रचुरांबुपाना--द्विदाहिभिर्दूषितरक्तकोपात् ।
यकृत्प्लिहाभ्यामधिकं प्रवृद्धं । महोदरं दक्षिणवामपार्श्वे ॥ १३३ ॥