300

विदारिका लक्षण.

त्रिभिरभिहितदोषैर्वंक्षणे कक्षदेशे ।
स्थिरतरगुरुशोफास्कंदवद्वा विदार्याः ॥
भवति तदभिधानख्यातरोगस्त्रिलिंग--।
स्तमपि कथितमार्गैः सर्वदोषक्रमेण ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

शर्करार्बुदलक्षण.

कफपवनबृहन्मेदांसि मांसं सिरास्तत् ।
त्वचमपि सकलस्नायुप्रतानं प्रदूष्य ॥
कठिनतरमहाग्रंथिं प्रकुर्वंति पक्वं ।
स्रवति मधुवसासर्पिः प्रकाशं स एव ॥ ४९ ॥
तमधिकतरवायुर्विशोष्याशु मांसं ।
ग्रथितकठिनशुष्कं शर्कराद्यर्बुदं तं ॥
वितरति विषमं दुर्गंधमुक्लेदिरक्तम् ।
सततमिह सिराभिः सास्रवं दुष्टरूपम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

विचर्चिका, वैपादिक, पामा, कच्छु, कदर, दारी, रोग लक्षण.

विधिविहितविचर्चीभेदरूपान्विपादी ।
विरचितवरपामालक्षणान्कच्छुरोगान् ॥
बहुविधगुणदोषाद्रूक्षपादद्वयेऽस्मिन् ।
कदरमिति तले ब्रूयुर्दरीः तीव्ररूपाः ॥ ५१ ॥