530
द्रव, शुष्कं, एककाल, द्विकाल भोजन.
तीव्रतृषातिशोषणविशुष्कतनूनपि दुर्बलान्द्रवै--।
र्मेहिमहोदराक्षिनिजकुक्षिविकारयुतक्षताकुलो--॥
द्गारिनरान्नयेदिह विशुष्कतरैरनलाभिवृद्धये ।
मंदसमाग्निकाल्लघुभिरेकवरद्विकभोजनैः क्रमात् ॥ १४ ॥
भावार्थः--The Hindi commentary was not digitized.
औषधरोषिणामशनमौषधसाधितमेव दापये--।
दग्निविहीनरोगिषु च हीनतरं षडृतुप्रचोदितं ॥
दोषशमनार्थमुक्तमतिपुष्टिकरं बलवृष्यकारणं ।
स्वस्थजनोचितं भवति वृत्तिकरं प्रतिपादितं जिनैः ॥ १५ ॥
भावार्थः--The Hindi commentary was not digitized.
भैषजकर्मादिवर्णनप्रतिज्ञा.
द्वादशभोजनक्रमविधिर्विहितो दशपंच चैवस--।
द्भंषजकर्मनिर्मितगुणान्दशभेषजकालसंख्यया ॥
सर्वमिहाज्यतैलपरिपाकविकल्परसत्रिषष्टिभे--।
दानपि रिष्टमर्मसहितानुपसंहरणैर्ब्रवीम्यहम् ॥ १६ ॥
भावार्थः--The Hindi commentary was not digitized.