अन्यरिष्ट.

यश्च दिवानिशं स्वपिति यश्च न च स्वपिति ।
स्पृष्टललाटकूटघटितोछ्रितभूरिशिरः ॥
यश्च मलं बृहत्सृजति भुक्तिविहीनतनु--।
र्यःप्रलपनात्पतत्यपि सचेतन एव नरः ॥ ४२ ॥
542
यश्च समस्तलोकमपि धूमहिमांबुवृतं ।
यश्च धरातलं लिखति तद्विवराकुलितं ॥
यश्च रजोविकीर्णरवि पश्यति चात्मवपुः ।
यश्च रुजं न षेत्ति दहनादिकृतां मनुजः ॥ ४३ ॥
यश्च न पश्यति प्रविदितप्रतिबिंवमरं ।
यश्च निषेठयते कनकमाक्षिकपद्धतिभिः ॥
यश्च दिवाकरं निशिशशिद्युतिवन्ह्यनिलं ।
यश्च शरीरिणं समुपलक्षयति प्रकटम् ॥ ४४ ॥
यस्य ललाटपट्टमुपयंति च यूकगणा ।
यस्य शिरस्यकारणविकीर्णरजोनिचयः ॥
यस्य निमग्नमेव हनुविलंबबृहद्वृषणं ॥
यस्य विनष्टहीनविकृतस्वरता च भवेत् ॥ ४५ ॥
यस्य सितं तदप्यसितवच्छुषिरं घनव--।
द्यस्य दिवा निशेव बृहदप्यतिसूक्ष्मतरं ॥
यस्य मृदुस्तथा कठिनवद्धिममप्यहिमं ।
यस्य समस्तवस्तु विपरीतगुणं तु भवेत् ॥ ४६ ॥
तान्परिहृत्य दुष्टबहुरिष्टगणान् मनुजान् ।
साधु विचार्य चेष्टितनिजस्वभावगुणैः ॥
व्याधिविशेषविद्भिषगशेषभिषक्प्रवरः ।
साध्यतमामयान्सततमेव स साधयतु ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

543