659
स्थाने चंक्रमणासने च शयने दुःखप्रदो वृश्चिका--।
विद्धस्येव भवेत्तृषात्यरुचिकृच्छ्राभो विदग्धः स्मृतः ॥ ८१ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्वशोथ लक्षण.

यश्च स्यादुषशांतरुङ्मृदुतरो निर्लोहितोऽल्पस्स्वयं ।
कण्डूत्वक्परिपोटतोदवलिनिम्नाद्यैः सतां लक्षितः ॥
अंगुल्याः परिपीडिते च लुलितं भूयो धृतौ वारिव--।
द्यः शीतो निरुपद्रवो रुचिकरः पक्कः स शोफः रमृतः ॥ ८२ ॥

भावार्थः--The Hindi commentary was not digitized.

कफजन्यशोथ के विशिष्टपक्वलक्षण.

गंभीरानुगते बलासजनिते रोगे सुपक्वे क्वचि--।
न्मुह्येत्पक्वसमस्तलक्षणमदृष्त्वाऽपक्व एवेत्यलम् ॥
वैद्यो यत्र पुनश्च शीतलतरस्त्वक्साम्यवर्णान्वितः ।
शोफस्तत्र विनीय मोहमखिलं हित्वाशु संशौधयेत् ॥ ८३ ॥

भावार्थः--The Hindi commentary was not digitized.