गर्भिणी चर्या.

गर्भान्वितां मधुरशीतलभेषजाढ्यम् मासद्वयं प्रतिदिनं नवनीतयुक्तम् ।
शाल्योदनं सततमभ्यवहारयेत्तां गव्येन साधुपयसाथ तृतीयमासे ॥ २२ ॥
दध्नैव सम्यगसकृच्च चतुर्थमासे पूज्येन गव्यपयसा खलु पंचमेऽस्मिन् ।
षष्ठे चतुर्थ इव मास्यथ सप्तमासे केशोद्भबश्च परिभोजय तां पयोन्नम् ॥ २३ ॥
यष्ट्यंबुजांबुवरनिंबकदंबजंबूरंभाकषायदधिदुग्धविपक्वसर्पिः ।
मात्रां पिबेत्प्रतिदिनं तनुतापशांत्यै मासेऽष्टमे प्रतिविधानमिहोच्यतेऽतः ॥ २४ ॥

भावार्थः--The Hindi commentary was not digitized.

आस्थापयेदथ बलाविहितेन तैलेनाज्यान्वितेन दधिदुग्धविमिश्रितेन ।
तैलेन चाष्टमधुरौषधसाधितेनपक्वंदत्तं हितं भवति चाप्यनुबासनं तु ॥ २५ ॥
643
तेनैव बस्तिमथ चोत्तरबस्तिमुद्यत्तैलेन संप्रति कुरु प्रमदाहिताय ।
निश्शेषदोषशमनं नवमेऽपि मासेऽप्येवं कृते विधिवदत्र सुखं प्रसूते ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.