1 1सदाचारं प्रमाणयता अविघ्नेन प्रकरणसमाप्त्यर्थमिष्टाया देवतायाः प्रकृताभिमतयोश्च देवतयोर्नमस्कारः क्रियते कृतिना श्लोकद्वयेन—
यस्य कण्ठः पुष्करायते मृदङ्गवदाचरति । मदाभोगेन3 घनध्वानो निबिडध्वनिः । नीलकण्ठस्य शिवस्य ताण्डव उद्धते नृत्ते । तस्मै गणेशाय नमः । अत्र खण्डश्लेषाक्षिप्यमाणोपमाच्छायालंकारः । नीलकण्ठस्य मयूरस्य 4ताण्डवे यथा मेघध्वनिः पुष्करायत इति प्रतीतेः । 5दशरूपानुकारेणेति । एकत्र मत्स्यकूर्मादिप्रतिमारूपेण अन्यत्र अनुकृतिरूपेण नाटकादिना यस्य भावका ध्यातारो रसिकाश्च माद्यन्ति हृष्यन्ति 6तस्मै अभिमताय विष्णवे प्रकृताय भरताय च नम इति ।
भट्टनृसिंहकृता दशरूपकावलोकलघुटीका
प्रथमः परिच्छेदः
-
The following verse is found in the beginning of the Avaloka only in the Adyar Telugu Manuscript:
↩vācakaḥ praṇavo yasya krīḍāvastv akhilaṃ jagat |śrutir ājñā, vapur jñānaṃ, taṃ vande devakīsutam ||praṇipatya śivaṃ sāmbam ācāryaṃ bharataṃ tathā |kriyate daśarūpasya vyākhyānaṃ dhanikena vai || -
A.T.A. reads bhāvukāḥ.
↩ -
A.T.A. madābhogaghanadhvānaḥ.
↩ -
A.T.A. tāṇḍave meghadhvanir yathā puṣkarāyate, etc.
↩ -
N.S.P. edition of the DR, 1941, reads without daśarūpānukāreṇeti, and as -pratimānām uddeśena … anukṛtirūpanāṭakādinā, etc.
↩ -
N.S.P. tasmai viṣṇave ’bhimatāya, etc.
↩