८ ॥ कार्यकारणभावसिद्धिः ॥
प्रत्यक्षानुपलम्भसाधनः कार्यकारणभाव इति न्यायः । तत्र सामान्येन प्राक्प्र
वृत्तानुपलम्भसहायमुभयविषयं क्रमि प्रत्यक्षद्वयम् । यदि वा सामान्येनोभयग्राहि
प्रत्यक्षसहायं क्रमिकमनुपलम्भद्वयमिति त्रिविधमेव तत्साधनमित्येके । अन्ये तु तत्
त्रयमन्त्यद्वयसहायमेवेति पञ्चविधं नियतानुपूर्वीकमित्याहुः । आद्यत्रयसंभवेऽपि हि
प्रतिपत्तुर्नासन्दिग्धा बुद्धिरुपजायते, अन्त्यद्वये तु लब्धे सिध्यति । अन्वयव्यतिरेक
लक्षणो हि2488 हेतुफलभावः2489, तत्र 2490त्रयेणान्वयः प्रतीयते, 2491द्वयेन व्यतिरेक इति
पञ्चकेन साध्वी सिद्धिः । 2492तयोरेकैकानिश्चये तु सन्देहो दुर्निवार इति भावः ।
अत्र चिन्त्यते,
अनुपलम्भद्वयेन व्यतिरेकसाधनार्थमेव ह्यनुपलम्भः प्रार्थ्यते । स चानेन
हेत्वभिमताभावे 2494कार्याभिमतस्य भावं बाधमानेन साधनीयः । स च 2495भावस्त्रिधा
संभाव्यते । तत्रैव देशे स्थितिः, अन्यत आगमनम्, तद्विविक्तकलापादेवोत्पत्तिरिति ।
एवंविधबाधावैधुर्ये2496 किमत्र कारणमयमपेक्षते2497 ? न व्यतिरेकेऽस्योपयोगः ।
किं त्वन्वयग्राहिणि प्रत्यक्षे साहायकमावहतीत्युपदर्शितमेवेति चेत् ?
-
इतः पूर्वं नमो मञ्जुश्रीकुमारभूतायेति भोटग्रन्थेऽधिकम्,
↩ -
०लक्षणादि० भोटपाठानुसारेण ।
↩ -
०भावसिद्धिरिति भोटपाठः ।
↩ -
प्रत्यक्षेणेति भोटपाठः । पूर्वानुपलम्भसहकृतप्रत्यक्षद्वयेनेति
↩
भोटपाठार्थः । -
द्वयेनेति अनुपलम्भद्वयेनेत्यर्थः ।
↩ -
अन्वयव्यतिरेकयोः ।
↩ -
फलेनेति बोध्यम् ।
↩ -
कार्यद्वया० भोटपाठः ।
↩ -
कार्यस्येत्यध्याहार्यम् ।
↩ -
बाधस्याभाव इत्यर्थः ।
↩ -
अपेक्ष्यत
↩
मातृका । अयमिति भावस्य परामर्शः ।