अध्यायः 047
बलिनिपीडितैरिन्द्रादिभिः प्रार्धितेन हरिणा अदित्यां वामनत्वेनावतीर्य बलि म्प्रति याचनम् ॥ 1 ॥ त्रिविक्रमरूपिणो हरेः पादाङ्गुष्ठनखनिर्भिण्णोर्ध्वाण्डाद्गङ्गायाः प्रादु र्भावो बलिनिग्रहश्च ॥ 2 ॥
भीष्म उवाच ॥
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत् ।
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली ॥
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः ।
विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः ॥
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः ।
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा ॥
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम् ।
स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा ॥
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते ।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत् ।
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान् ॥
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे ।
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर ॥
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः ।
मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी ॥
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः ।
प्रविश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम् ॥
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह ।
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम् ॥
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा ।
तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम् ॥
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते ।
त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः ॥
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा ।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः ॥
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः ।
नानावक्रा महाकाया नानावेषधरा नृप ॥
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः ।
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा ॥
क्रममाणं हरि तत्र उपावर्तन्त भारत ।
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान् ॥
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम् ।
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः ॥
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा ।
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् ।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ ।
परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ ॥
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः ।
अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः ॥
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा ।
ससार सागरं सा तु पावनी सागरंगमा ॥
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान् ।
आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन ॥
सपुत्रदारानसुरान्पाताले संन्यवेशयत् ।
नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः ॥
महाभूतानि भूतात्मा सविशेषानि वै हरिः ।
कालं च सकलं राजन्गात्रभूतान्यदर्शयत् ॥
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति ।
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना ॥
तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः ।
दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः ॥
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना ।
विरोचनकुलं सर्वं पाताले विनिवेशितम् ॥
एवंविधानि कर्माणि कृत्वा गरुडावाहनः ।
न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा ॥
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः ।
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः ॥
एष ते वामनो नाम प्रादुर्भावो महात्मनः ।
वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः ।
मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु ॥ ॥
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि सप्तचत्वारिंशोऽध्यायः ॥ 47 ॥