अध्यायः 219
धर्मव्याधेन नानाधर्मान्बोधितेन कौशिकेन गृहमेत्य स्वपित्रोः शुश्रूषणम् ॥ 1 ॥ मार्कण्डेयेन युधिष्ठिरम्प्रति पतिव्रतामाहात्म्यादिकथनोपसंहारः ॥ 2 ॥
व्याध उवाच ।
एवं शप्तोऽहमृषिणा तदा द्विजबरोत्तम ।
अहं प्रासादयमृषिं गिरा वाक्यविशारदम् ॥
अजानता मयाऽकार्यमिदमद्य कृतं मुने ।
क्षन्तुमर्हसि तत्सर्वं प्रसीद भगवन्निति ॥
ऋषिरुवाच ।
नान्यथा भविता शाप एवमेतदसंशयम् ।
आनृशंस्यात्त्वंहकिंचित्कर्ताऽनुग्रहमद्य ते ॥
शूद्रयोन्यां वर्तमानो धर्मज्ञो हि भविष्यसि ।
मातापित्रोश् शुश्रूषां करिष्यसि न संशयः ॥
तयोः शुश्रूषया सिद्धिं महतीं समवाप्स्यसि ।
जातिस्मरश् भविता स्वर्गं चैव गमिष्यसि ॥
`भूत्वाच धार्मिको व्याधः पित्रोः शुश्रूषणे रतः ।
शापक्षये तु निर्वृत्ते भविताऽसि पुनर्द्विजः ॥
एवं शप्तः पुरा तेन ऋषिणाऽस्म्युग्रतेजसा ।
प्रसादश्च कृतस्तेन ममैव द्विपदांवर ॥
शरं चोद्धृतवानस्मि तस्य वै द्विजसत्तम ।
आश्रमं च मया नीतो न च प्राणैर्व्ययुज्यत ॥
एतत्ते सर्वमाख्यातं यथा मम पुराऽभवत् ।
अभितश्चापि गन्तव्यो मया स्वर्गो द्विजोत्तम ॥
ब्राह्मण उवाच ।
एवमेतानि पुरुषा दुःखानि च सुखानि च ।
आप्नुवन्ति महाबुद्धे नोत्कण्ठां कर्तुमर्हसि ॥
दुष्करं हि कृतंकर्म जानता जातिमात्मनः ।
[लोकवृत्तान्ततत्त्वज्ञ नित्यं धर्मपरायण ॥]
कर्मदोषाच्च वै विद्वन्नात्मजातिकृतेन वै ।
कंचित्कालं मृष्यतां वै ततोसि भविता द्विजः ॥
सांप्रतं च मतो मेऽसि ब्राह्मणो नात्र संशयः ॥
ब्राह्मणः पतनीयेषु वर्तमानो विकर्मसु ।
दाम्भिक्वो दुष्कृतप्रायः शूद्रेण सदृशो भवेत् ॥
यस्तु शूद्रो दमे सत्ये धर्मे च सततोत्थितः ।
तं ब्राह्मणमहं मन्ये वृत्तेन हि भवेद्द्विजः ॥
कर्मदोषेण विषमां गतिमाप्तोसि दारुणाम् ।
क्षीणदोषमहं मन्ये चाभितस्त्वां नरोत्तम ॥
कर्तुमर्हसि नोत्कण्ठां त्वद्विधा ह्यविषादिनः ।
लोकवृत्तान्ततत्वज्ञा नित्यं धर्मपरायणाः ॥
व्याध उवाच ।
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालै समतामियात् ॥
अनिष्टसंप्रयोगाच्च विप्रयोगात्प्रयिस्य च ।
मनुष्या मानसैर्दुःखैर्युज्यन्ते चाल्पबुद्धयः ॥
गुणैर्भूतानि युज्यन्ते वियुज्यन्ते तथैव च ।
सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥
अनिष्टनान्वितं पश्यंस्तथा क्षिप्रं विरज्यते ।
ततश्च प्रतिकुर्वन्ति यदि पश्यन्त्युपक्रमम् ॥
शोचतो न भवेत्किंचित्केवलं परितप्यते ।
परित्यजन्ति ये दुःखं सुखं वाऽप्युभयं नराः ॥
त एव सुखमेधन्ते ज्ञानतृप्ता मनीषिणः ।
असंतोषपरा मूढाः संतोषं यानति पण्डिताः ॥
असंतोषस्य नास्त्यन्तस्तुष्टिस्तु परमं सुखम् ।
न शोचन्ति गताध्वानः पश्यन्तः परमां गतिं ॥
न विषादे मनः कार्यं विषादो विषमुत्तमम् ।
मारयत्यकृतप्रज्ञं बालं क्रुद्ध इवोरगः ॥
यंविषादोऽभिभवति विषमे समुपस्थिते ।
तेजसा तस् हीनस्य पुरुषार्थो न विद्यते ॥
अवश्यं क्रियमाणस् कर्मणो दृश्यते फलम् ।
न हि निर्वेदमागम्य किंचित्प्राप्नोति शोभनम् ॥
अथाप्युपायं पश्येत दुःखस् परिमोक्षणे ।
अशोचन्नारभेतैव युक्तश्चाव्यसनी भवेत् ॥
भूतेष्वभावं संचिन्त्य ये तु बुद्धेः परं गताः ।
न शोचन्ति कृतप्रज्ञाः पश्यन्तः परमां गतिम् ॥
न शोचामि रमे विद्वन्कालाकाङ्क्षी स्थितोस्म्यहम् ।
एतैर्निदर्शनैर्ब्रह्मन्नावसीदामि सत्तम ॥
ब्राह्मण उवाच ।
कृतप्रज्ञोसि मेधावी बुद्धिश्च विपुला तव ।
पापान्निवृत्तोसि सदा ज्ञानवृद्धोसि धर्मवित् ॥
आपृच्छे त्वां स्वस्ति तेऽस्तु धर्मस्त्वां परिरक्षतु ।
अप्रमादस्तु कर्तव्यो धर्मे धर्मभृतांवर ॥
मार्कण्डेय उवाच ।
बाढमित्येव तं व्याधः कृताञ्जलिरुवाच ह ।
प्रदक्षिणमथो कृत्वा प्रस्थितो द्विजसत्तमः ॥
स तु गत्वाद्विजः सर्वां शुश्रूषां कृतवांस्तदा ।
मातापितृभ्यामन्धाभ्यां यथान्यायं सुसंशितः ॥
एतत्ते सर्वमाख्यातं निखिलेन युधिष्ठिर ।
पृष्टवानसि यं तात धर्मं धर्मभृतांवर ॥
पतिव्रताया माहात्म्यं ब्राह्मणस्य च सत्तम ।
मातापित्रोश्च शुश्रूषा धर्मव्याधेन कीर्तिता ॥
युधिष्ठिर उवाच ।
अत्यद्भुतमिदं ब्रह्मन्धर्माख्यानमनुत्तमम् ।
सर्वधर्मविदांश्रेष्ठ कथितं मुनिसत्तम ॥
सुखश्राव्यतया विद्वन्मुहूर्त इव मे गतः ।
न हि तृप्तोस्मि भगवञ्शृण्वानो धर्ममुत्तमम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि एकोनिविंशत्यधिकद्विशततमोऽध्यायः ॥ 219 ॥
3-219-20 गुणैः गुणकार्यैः सुखदुःखमोहैः ॥ 3-219-24 गताध्वानः प्राप्तज्ञानमार्गाः ॥ 3-219-29 बुद्धेस्तत्त्वज्ञानात् । परं ब्रह्म गताः प्राप्ताः ॥