अध्यायः 069
विराटेन युधिष्ठिरादिभिः सह सुशर्मादिजयानन्तरं पुसंप्रत्यागमनम् ॥ 1 ॥ तथा उत्तरस्य कुरुविजयाय सहबृहन्नलया गमनश्रवणेन तद्रक्षणाय सेनाचोदना ॥ 2 ॥ अत्रान्तरे विराटाय दूतैरुत्तरजनिवेदनम् ॥ 3 ॥
वैशंपायन उवाच ।
स विजित्य धनं चापि विराटो वाहिनीपतिः ।
प्राविशन्नगरं हृष्टश्चतुर्भिः सह पाण्डवैः ॥
जित्वा त्रिगर्तान्संग्रामे गाश्चैवानाय्य केवलाः ।
अशोभत महाराजः सह पार्थैः श्रिया वृतः ॥
तमासनगत वीरं सुहृदां प्रीतिवर्धनम् ।
तपतस्थुः प्रकृतयः समन्ताद्ब्राह्मणैः सह ॥
सभाजितः सभासद्भिः प्रतिनन्द्य स मत्स्यराट् ।
विसर्जयामास तदा द्विजांश्च प्रकृतीस्तथा ॥
ततः स राजा मात्स्यानां विराटो वाहिनीपतिः ।
प्रविश्यान्तःपुरं रम्यं स्त्रीशतैरुपशोभितम् ।
उत्तरं तत्र नापश्यत्क्व यात इति चाब्रवीत् ॥
आचख्युस्तत्र संहृष्टाः स्त्रियः कन्याश्च वेश्मनि ।
अन्तःपुरचराश्चैव कुरुभिर्गोधनं हृतम् ॥
ताञ्जेतुमभिसंरब्ध एक एवातिसाहसात् ।
बृहन्नलासहायश्च निर्यातः पृथिवींजयः ॥
उपयातानतिरथान्द्रोणं शान्तनवं कृपम् ।
कर्णं दुर्योधनं चैव द्रोणपुत्रं च षड्रथान् ॥
ततो विराटः परमाभितप्तः
पुत्रं निशम्यैकरथेन यातम् ।
बृहन्नलासारथिमाजिमर्दनं
प्रोवाच सर्वानथ मन्त्रिमुख्यान् ॥
गवां शतसहस्राणि उभिभूय ममात्मजम् ।
कुस्वः कालयन्ति स्म सर्वे युद्धविशारदाः ॥
तस्माद्गच्छतु मे योधा बलेन महता वृताः ।
उत्तरस्य परीप्सार्थं ये त्रिगर्तैरविक्षताः ॥
वैशंपायन उवाच ।
हयांश्च नागांश्च रथांश्च शीघ्रं
वादित्रसङ्घांश्च ततः प्रभूतान् ।
प्रस्थापयामास सुतस्य हेतो-
र्विचित्रचित्राभरणोपपन्नान् ॥
एवं स राजा मात्स्यानां महानक्षोहिणीपतिः ।
व्यादिदेशाथ स क्षिप्रं वाहिनीं चतुरङ्गिणीम् ॥
कुमारमाशु जानीत यदि जीवति वा नवा ।
यस्य यन्ता गतः षण्डो मन्येऽहं स न जीवति ॥
तमब्रवीद्धर्मसुतो विराट-
मार्तं विदित्वा कुरुभिः प्रतप्तम् ।
बृहन्नला सारथिश्चेन्नरेन्द्र
परे न नेष्यन्ति तवाद्य गाश्च ॥
सर्वान्महीपान्सहितान्कुरूंश्च
तथैव देवासुरनागयक्षान् ।
अलं विजेतुं समरे सुतस्ते
अनुष्ठितः सारथिना हि तेन ॥
सर्वथा कुरवश्चापि ये चान्ये वसुधाधिपाः ।
त्रिगर्तान्निर्जिताञ्श्रुत्वा न स्थास्यन्ति कथंचन ॥
वैशंपायन उवाच ।
अथोत्तरेण प्रहिता दूतास्ते शीघ्रगामिनः ।
विराटनगरं प्राप्य जयं प्रावेदयंस्तदा ॥
राजानं वृतमाचख्युर्मन्त्रिभिर्जयमुत्तमम् ।
पराजयं कुरूणां च उपायान्तं तथोत्तरम् ॥
सर्वा विनिर्जिता गावः कुरवश्च पराजिताः ।
उत्तरः सह सूतेन कुशली च परंतपः ॥
कङ्क उवाच ।
दिष्ट्या ते निर्जिता गावः कुरवश्च पराजिताः ।
दिष्ट्या ते विजयी पुत्रः श्रूयते पार्थिवर्षभः ॥
नाद्भुतं त्विह मन्येऽहं यत्ते पुत्रोऽजयत्कुरून् ।
ध्रुव एव जयस्तस्य यस्य यन्ता बृहन्नला ॥
देवेन्द्रसारथिश्चैव मातलिः ख्यातविक्रमः ।
कृष्णस्य सारथिश्चैव न बृहन्नलया समौ ॥
वैशंपायन उवाच ।
ततो विराटो नृपतिः संप्रहृष्टतनूरुह ।
श्रुत्वा तु विजयं तस्य कुमारस्यामितौजसः ।
संतोषयित्वा दूतांस्तान्धनरत्नैश्च सर्वशः ॥
गते त्वनुजने तस्मिन्दूतवाक्यं निशम्य च ।
उत्तरस्य जयात्प्रीतो विराटः प्रत्यभाषत ॥
राजमार्गाः क्रियन्तां वै पताकाभिरलंकृताः ।
पुष्पोपहारैरर्च्यतां देवताश्चापि सर्वशः ॥
कुमारा योधमुख्याश्च गणिकाश्च स्वलंकृताः ।
वादित्राणि च सर्वाणि प्रत्युद्यान्तु सुतं मम ॥
भवन्तु ते लब्धजये सुते मे
पौराश्च मर्त्याश्च परे च नार्यः ।
ते शुक्लवस्त्राः प्रभवन्तु मार्गे
सुगन्धमाल्याभरणाश्च नार्यः ॥
भजन्तु सर्वा गणिकाः सुतं मे
नार्यश्च कन्याः सहसैनिकाश्च ।
स्वलंकृतास्ताः सुभगाः सुवेषाः
पुत्रस्य पन्थानमनुव्रजन्तु ॥
घण्टापणवकाः शीघ्रं मत्तमारुह्य कुञ्जरम् ।
शृङ्गाटकेषु सर्वेषु समाख्यान्तु जयं मम् ॥
उत्तरा च कुमारीभिर्बह्वाभरणभूषिता ।
सखीं विजितसंग्रामां प्रत्युद्यातु बृहन्नलाम् ॥
श्रुत्वा तु वचनं तस्य पार्थिवस्य महात्मन ।
तथैव चक्रुः संहृष्टाः पौराः स्वस्तिकपाणयः ॥
मूताश्च सर्वे सहमागधाश्च
हृष्टा विराटस्य पुरे जनौघाः ।
भेर्यश्च तूर्याणि च वारिजाश्च
वेपैः परार्ध्यैः प्रमदाजनाश्च ॥
वन्दिप्रवादाः पणवादिकाश्च
तथैव वाद्यानि च वंशशब्दाः ।
कांस्यं सतालं मधुरं च गीत-
मादाय नार्यो नगरान्निरीयुः ॥
प्रत्युद्ययुः पुत्रमनन्तवीर्यं
ते ब्राह्मणाः शान्तिपराः प्रधानाः ।
स्वाध्यायवेदाध्ययनक्रमज्ञाः
स्वस्तिक्रियागीतजपप्रधानाः ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि एकोनसप्ततितमोऽध्यायः ॥