अध्यायः 085

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
तमायान्तं महावेगैरश्वैः कपिवरध्वजम् ।
युद्धायाभ्यद्रवन्दीराः कुरूणां नवतीं रथाः ॥
कृत्वा संशप्तका घोरं शपथं पारलौकिकम् ।
परिवव्रुर्नरव्याघ्रा नरव्याघ्रं रणेऽर्जुनम् ॥
कृष्णः श्वेतान्महावेगानश्वान्काञ्चनभूषणान् ।
मुक्ताजालप्रतिच्छन्नान्प्रैषीत्कर्णरथं प्रति ॥
प्रेक्ष्य कर्णरथं यान्तमरिघ्नं तं धनञ्जयम् ।
बाणवर्षैरभिघ्नन्तः संशप्तकगणा ययुः ॥
त्वरमाणांस्तु तान्सर्वान्ससूतेष्वसनध्वजान् ।
जघान नवतिं वीरानर्जुनो निशितैः शरैः ॥
तेऽपतन्त हता बाणैर्नानारूपैः किरीटिना ।
विमानेभ्यः सुकृतिनः स्वर्गात्पुण्यक्षये यथा ॥
ततः सरथनागाश्वाः कुरवः कुरुसत्तमम् ।
निर्भया भरतश्रेष्ठमभ्यवर्तन्त फल्गुनम् ॥
तदायस्तमनुष्याश्वमुदीर्णवरवारणम् ।
पुत्राणां ते महासैन्यं समरौत्सीद्धनञ्जयम् ॥
शक्त्यृष्टितोमरप्रासैर्गदानिस्त्रिंशसायकैः ।
प्राच्छादयन्महेष्वासाः कुरवः कुरुनन्दनम् ॥
तामन्तरिक्षे विततां शस्त्रवृष्टिं समन्ततः ।
व्यधमत्पाण्डवो बाणैस्तमः सूर्य इवांशुभिः ॥
ततो म्लेच्छाः स्थिता मत्तैस्त्रयोदशशतैर्गजैः ।
पार्श्वतो व्यहनन्पार्थं तव पुत्रस्य शासनात् ॥
कर्णिनालीकनाराचैस्तोमरप्रासशक्तिभिः ।
कर्पणैर्भिण्डिपालैश्च रथस्थं पार्थमार्दयन् ॥
तां शस्त्रवृष्टिमतुलां द्विपस्थैः प्रेषितां प्रभुः ।
चिच्छेद निशितैर्भल्लैरर्धचन्द्रैश्च फल्गुनः ॥
अथ तान्द्विरदान्सर्वान्नानालिङ्गैः शरोत्तमैः ।
सपताकध्वजारोहान्गिरीन्वज्रैरिवाभिनत् ॥
ते हेमपुङ्खैरिषुभिरर्दिता हेममालिनः ।
हताः पेतुर्महानागाः साग्रिज्वाला इवाद्रयः ॥
ततो गाण्डीवनिर्घोषो महानासीद्विशाम्पते ।
स्तनतां कूजतां चैव मनुष्यगजवाजिनाम् ॥
कुञ्चराश्च हता राजन्दद्रुवुस्ते समन्ततः ।
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश ॥
रथा हीना नहाराज रथिभिर्वाजिभिस्तथा ।
गन्धर्वनगराकारा दृश्यन्ते स्म सहस्रशः ॥
अश्वारोहा महाराज धावमाना इतस्ततः ।
तत्रतत्रैव दृश्यन्ते निहताः पार्थसायकैः ॥
तस्मिन्क्षणे पाण्डवस्य बाह्वोर्बलमदृश्यत ।
यत्सादिनो वारणांश्च रथांश्चैकोऽजयद्युधि ॥
असंयुक्ताश्च ते राजन्परिवृत्ता रणं प्रति ।
नरा नागा रथाश्चैव नदन्तोऽर्जुनमभ्ययुः ॥
ततस्त्र्येङ्गेण महता बलेन भरतर्षभ ।
दृष्ट्वा परिवृतं राजन्भीमसेनः किरीटिनम् ॥
हतावशेषानुत्सृज्य त्वदीयान्कतिचिद्रथान् ।
जवेनाभ्यद्रवद्भीमो धनञ्जयरथं प्रति ॥
ततस्तत्प्राद्रवत्सैन्यं हतभूयिष्ठमातुरम् ।
दृष्ट्वाऽर्जुनं तदा भीममागतं भ्रातरं प्रति ॥
हतावशिष्टांस्तुरगानर्जुनेन महाबलः ।
भीमो व्यधमदश्रान्तो गदापाणिर्महाहवे ॥
`गदापाणिं तदा दृष्ट्वा भीमं भारत भारताः ।
मेनिरे तमनुप्राप्तं दण्डपाणिमिवान्तकम्' ॥
कालरात्रिमिवात्युग्रां नरनागाश्वभोजनाम् ।
प्राकाराट्टपुरद्वारदारणीमतिदारुणाम् ॥
गदां तुरगनाशाय त्वरन्भीमो व्यवासृजत् ।
सा जघान बहूनश्वानश्वारोहांश्च मारिष ॥
कांस्यायसतनुत्रांश्च नरानश्वांश्च पाण्डवः ।
पोथयामास गदया सशब्दं तेऽपतन्हताः ॥
दन्तैर्दशन्तो वसुधां शेरते क्षतजोक्षिताः ।
भग्नमूर्धास्थिचरणाः क्रव्यादगणभोजनाः ॥
असृङ्मांसवसाभिश्च तृप्तिमभ्यागता गदा ।
अस्थीन्यप्यश्नती तस्थौ कालरात्रीव दुर्दृशा ॥
सहस्राणि दशाश्वानां हत्वा पत्तींश्च भूयसः ।
भीमोऽभ्यधावत्सङ्क्रुद्धो गदापाणिरितस्ततः ॥
गदापाणिं ततो भीमं दृष्ट्वा भारत तावकाः ।
मेनिरे समनुप्राप्तं कालदण़्डोद्यतं यमम् ॥
स मत्त इव मातङ्गः सङ्क्रुद्धः पाण्डुनन्दनः ।
प्रविवेश गजानीकं मकरः सागरं यथा ॥
विगाह्य च गजानीकं प्रगृह्य महतीं गदाम् ।
क्षणेन भीमः सङ्क्रुद्धस्तन्निन्ये यमसादनम् ॥
गजान्सकङ्कटान्मत्तान्सारोहान्सपताकिनः ।
पततः समपश्याम सपक्षान्पर्वतानिव ॥
हत्वा तु तद्गजानीकं भीमसेनो महाबलः ।
पुनः स्वरथमास्थाय पृष्ठतोऽर्जुनमभ्ययात् ॥
ततः पराङ्मुखीभूतं निरुत्साहं बलं तव ।
तदानीं तु महाराज प्रायशः शस्त्रवेष्टितम् ॥
विलम्बमानं तत्सैन्यभप्रगल्भमवस्थितम् ।
दृष्ट्वा प्राच्छादयद्बाणैरर्जुनः शस्त्रवृष्टिभिः ॥
नराश्वरथमातङ्गा युधि गाण्डीवधन्वना ।
शरव्रातैश्चिता रेजुः कदम्बा इव केसरैः ॥
ततः कुरुणामभवदार्तनादो महान्नृप ।
नराश्वनागासुहनान्दृष्ट्वा बाणान्किरीटिनः ॥
हाहाकृतं भृशं त्रस्तं लीयमानं परस्परम् ।
अलातचक्रवत्सैन्यं तदा बभ्राम तावकम् ॥
ततोऽर्जुनशरध्वस्तं कुरूणां सुमहद्बलम् ।
न ह्यत्रासीदनिर्भिन्नो रथः सादी हयो गजः ॥
आदीप्तमिव तत्सैन्यं शरैश्छिन्नतनुच्छदम् ।
आसीत्स्वशोणितक्लिन्नं रौद्रं नष्टं विशाम्पते ॥
तत्सैन्यं हतभूयिष्ठमाहतं निशितैः शरैः ।
न जहौ समरं प्राप्य फल्गुनं शत्रुतापनम् ॥
तत्राद्भुतमपश्याम कौरवाणां पराक्रमम् ।
वध्यमानोऽपि यत्पार्थं न जहौ भरतर्षभ ॥
तं दृष्ट्वा विक्रमं तस्य कुरवः सव्यसाचिनः ।
निराशाः समपद्यन्त सर्वे कर्णस्य जीविते ॥
अविषह्यं तु पार्थस्य शरसंस्पर्शमाहवे ।
मत्वा न्यवर्तन्कुरवो जिता गाण्डीवधन्वना ॥
ते हित्वा समरे पार्थं वध्यमानाश्च सायकैः ।
प्रदुद्रुवुर्दिशो भीताश्चुक्रुशुश्चापि सूतजम् ॥
तान्विद्रावयते पार्थः किरञ्शरशतान्बहून् ।
हर्षयन्पाण्डवीं सेनां राजानं च युधिष्ठिरम् ॥
पुत्रास्तव महाराज जग्मुः कर्णरथं प्रति ।
अगाधे मज्जतां तेषां द्वीपः कर्णोऽभवत्तदा ॥
कुरवो हि महाराज निर्विषाः पन्नगा इव ।
कर्णमेवोपलीयन्त भयाद्गाण्डीवघन्वनः ॥
यथा सर्वाणि भूतानि मृत्योर्भीतानि मारिष ।
उपलीयन्ति सन्त्रासाद्धर्मं लोकपरायणम् ॥
तथा कर्णं महेष्वासं पुत्रास्तव नराधिप ।
उपालीयन्त सन्त्रासात्पाण्डवस्य महात्मनः ॥
ताञ्शोणितपरिक्लिन्नान्विषमस्थाञ्शरातुरान् ।
मा भैष्टेत्यब्रवीत्कर्णो भीतानाविष्टचेतसः ॥
सम्भग्नं हि बलं दृष्ट्वा बलात्पार्थेन तावकम् ।
धनुर्विस्फारयन्कर्णस्तस्थौ शत्रुजिघांसया ॥
तान्प्रद्रुतान्कुरून्दृष्ट्वा कर्णः शस्त्रभृतां वरः ।
सञ्चिन्तयित्वा पार्थस्य वधे दध्रे मनः श्वसन् ॥
विस्फार्य सुमहच्चापं ततश्चाधिरथिर्वृषः ।
पाञ्चालान्पुनराधावत्पश्यतः सव्यसाचिनः ॥
ततः क्षणेन क्षितिपाः क्षतजप्रतिमेक्षणाः ।
शरौघैश्छादयामासुर्महामेघा इवाचलम् ॥
ततः शरसहस्राणि कर्णमुक्तानि मारिष ।
पाञ्चालानां हरत्प्राणांस्तमांसीव तमोनुदः ॥
महदासीत्तदा युद्धं पाञ्चालानां महामते ।
वध्यतां सूतपुत्रेण मित्रार्थे मित्रगृद्धिना ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चाशीतितमोऽध्यायः ॥ 85 ॥

8-85-12 मुसलैर्भिन्दिपालैश्च इति झ.पाठः ॥ 8-85-85 पञ्चाशीतितमोऽध्यायः ॥

श्रीः