अध्यायः 087
भीमेन राज्ञां समक्षं दुःशासनवक्षसो रक्तपानम् ॥ 1 ॥
सञ्जय उवाच ।
सर राजपुत्रेण समार्च्छदुग्र--
दुःशासनेन निकृतो निकृत्या ॥
तत्राकरोद्दुष्करं राजपुत्रो
दुःशासनः कुरुवीरो महात्मा ।
यद्भीमसेनं प्रतियोधयद्रणे
जम्भो यथा शक्रमुदारवीर्यम् ॥
धनुच्छित्त्वा भीमसेनस्य सङ्ख्ये
षड्भिः शरैः सारथिमभ्यविध्यत् ।
ततोऽविध्यत्त्रिंशता भीमसेनं
वरेषुभिर्वन्यमिव द्विपेन्द्रम् ॥
स कार्मुकं गृह्य तु भारसाधनं
भीमस्तदा राजपुत्रं ह्यविध्यत् ।
पञ्चाशतैर्बाणगणैः स्तनानन्तरे
तोत्रैर्यथा तीव्रवेगं द्विपेन्द्रम् ॥
ततस्तु राजन्विरथं महात्मा
दुःशासनो भीमसेनं चकार ।
निहत्य सङ्ख्ये चतुरोऽस्य बाहा--
ञ्छित्त्वा रथेषां पुनरेव चाक्षिपत् ॥
ततः क्षितिस्वो ह्यबरुह्य याना--
द्वृकोदरो मदया तस्य वाहान् ।
यमक्षयं प्रेषयित्वा महात्मा
रथं समाकर्पत राजसूनोः ॥
तस्मादवप्लुत्य रथात्ससर्ज
दुःशासनस्तोमरमुग्रवेगम् ।
स तेन विद्धो ह्युरसि ह्यप्रमेयो
गदां तस्मै विससर्जाप्रमेयाम् ॥
ततः क्रोधाद्भीमसेनः कृतानि
सर्वाणि दुःखान्यनुसंस्मरन्वै ।
संस्मृत्य संस्मृत्य तथा प्रतिज्ञा--
मुग्रामसौ राजपुत्रौ व्यषीदत् ॥
सञ्चिन्तितं रोषमतीव वेगा-
त्त्रयोदशाब्दं पुरुषप्रवीरः ।
प्रगृह्य वज्राशनितुल्यवेगां
गदां करेणाथ वृकोदरो रुषा ॥
निपातयित्वा पृथिवीतले भृशं
स ताजयामा वृकोदरो बली ।
अतीव सन्ताडितभिन्नगात्रो
दुःशासनो वै निपपात भूमौ ॥
आक्रम्य कण्ठे युधि राजपुत्रं
संरक्तनेत्रो ह्यब्रवीद्धार्तराष्ट्रम् ।
तद्ब्रूहि किं त्वं परिमार्गमाणो
ह्यस्मान्पराभूय इहागतः पुनः ॥
दिदीपयंस्तद्भृशदीपितं मे
चिरार्जितं रोषमतिप्रदीप्तम् ।
मधु प्रपास्ये तव कोष्टभाजना--
दित्यब्रवीद्भीमसेनस्तरस्वी ॥
दुःशासनं कण्ठदेशे प्रमृद्रं--
स्ततः क्रूरं भीमसेनश्चकार ।
कतं व्यंसयित्वा सहसा ससार
बलादसौ धार्तराष्ट्रस्तरस्वी ॥
भीमोऽभिदुद्राव सुतं त्वदीयं
सपत्रतां दर्शयन्धार्तराष्ट्रे ।
मृगं मुहुः सिंहशिशुर्यथा वने
तथाश्वभिद्रुत्य महाबलं बली ॥
निगृह्य चैनं परमेण कर्मणा
उत्क्षिप्य चोत्क्षिप्य च तूर्णमेनम् ।
भूमौ तदा निष्पिपेषाथ वीर
असिं विकोशं विमलं चकार ॥
तं पातयित्वा तु वृकोदरोऽथ
जगर्ज हर्षेण विनादयन्दिशः ।
नादेन तेनाखिलपार्श्ववर्तिनो
मूर्च्छाकुलाः पतितास्त्वाजमीढ ॥
दुःशासनं तत्र समीक्ष्य राज--
न्भीमो महाबाहुरचिन्त्यकर्मा ।
स्मृत्वा च केशग्रहणं च देव्या
वस्त्रापहारं च रजस्वलायाः ॥
अनागसो भर्तृपराङ्मुखाया
दुःखानि दत्तान्यपि विप्रचिन्त्या ।
जज्वाल कोपादथ भीमसेन
आज्यप्रसिक्तो हि यथा हुताशः ॥
तत्राह कर्णं च सुयोधनं च
कृपं द्रौणिं कृतवर्माणमेव ।
निहन्मि दुःशासनमद्य पापं
संरक्ष्यतामद्य समस्तयोधाः ॥
इत्येवमुक्त्वा सहसाभ्यधाव--
न्निहन्तुकामोऽतिबलस्तरस्वी ।
तथा तु विक्रम्य रमे वृकोदरो
महागजं केसरिको यथैव ।
निगृह्य दुःशासनमेकवीरः
सुयोधनस्याधिरथेः समक्षम् ॥
असिं समुद्यम्य सितं सुधारं
कण्ठे पदाक्रम्य च वेपमानम् ।
उवाच तद्गौरिति यद्ब्रुवाणो
हृष्टोऽवदः कर्णसुयोधनाभ्याम् ॥
ये राजसूयावभृथे पवित्रा
जाताः कछा याज्ञसेन्या दुरात्मन् ।
ते पाणिना कतरेणावकृष्टा--
स्तद्ब्रूहि त्वां पृच्छति भीमसेनः ॥
श्रुत्वा तु तद्भीमवचः सुघोरं
दुःशासनो भीमसेनं निरीक्ष्य ।
जज्वाल बीमं स तदा स्मयेन
संशृण्वतां कौरवसोमकानाम् ।
उक्तस्तदाजौ स तथा सरोषं
जगाद भीमं परिवृत्तनेत्रः ॥
अयं करिकराकारः पीनस्तनविमर्दनः ।
गोसहस्रप्रदाता च क्षत्रियान्तकरः करः ॥
अनेन याज्ञसेन्या मे भीम केशा विकर्षिताः ।
पश्यतां कुरुमुख्यानां युष्माकं च सभासदाम् ॥
एवं त्वसौ राजसुतं निशम्य
ब्रुवन्तमाजौ विनिपीड्य वक्षः ।
भीमो बलात्तं प्रतिगृह्य दोर्भ्या--
मुच्चैर्ननादाथ समस्तयोधान् ॥
उवाच यस्यास्ति बलं स रक्ष--
त्वसौ भवेदद्य निरस्तबाहुः ।
दुःशानं जीवितं प्रोत्सृजन्त--
माक्षिप्य योधांस्तरसा महाबलः ॥
एवं क्रुद्धो भीमसेनः करेण
उत्पाटयामास भुजं महात्मा ।
दुःशासनं तेन स वीरमध्ये
जघान वज्राशनिसन्निभेन ॥
कण्ठे समाक्रम्य च वेपमानं
कृत्वाऽनु रूपं परमं सुघोरम् ।
कालान्तकाभ्यां सदृशं तदानीं
विदार्य वक्षश्च महारथस्य ॥
दुःशासनस्य निपुशासनस्य
उद्धृत्य वक्षः पतितस्य भूमौ ।
ततोऽपिबच्छोणितमस्य कोष्ण--
मास्वाद्य चास्वाद्य च वीक्षमाणः ॥
क्रुद्धः प्रहृष्टो निजगाद वाक्यं
स्तन्यस्य मातुः पयसोऽमृतस्य ।
माध्वीकजस्येव रसस्य तस्य
मधोश्च पानाद्यवकस्य पानात् ॥
पयोदधिभ्यां मथिताच्च मुख्या--
त्तथेक्षुसारस्य मनोहरस्य ।
सर्वेभ्य एवाभ्यधिको रसोऽस्य
मतो ममाद्याहितलोहितस्य ॥
एवं ब्रुवाणं पुनरुत्थितं त--
मास्फोट्य वल्गन्तमतिप्रहृष्टम् ।
ये भीमसेनं ददृशुस्तदानीं
प्रायेण तेऽपि व्यथिता निपेतुः ॥
ये चापि नासन्पतिता मनुष्या--
स्तेषां करेभ्यः पतितं तु शस्त्रम् ।
भयाच्च सञ्चुक्रुशुरस्वरैस्तदा
निमीलिताक्षा मुमुहुश्च तत्र ॥
ये तत्र भीमं रुधिरं पिबन्तं
दुःशासनस्य ददृशुः प्रपन्नाः ।
नायं मनुष्यस्त्विति भाषमाणाः
सर्वेऽपलायन्त भयाभिपन्नाः ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे सप्तशीतितमोऽध्यायः ॥ 87 ॥
8-87-27 योधानाक्षिप्य उवाचेत्यन्वयः ॥ 8-87-32 अहितस्य शत्रोःदुःशासनस्य लोहितस्य रक्तस्य ॥ 8-87-87 सप्ताशीतितमोऽध्यायः ॥
श्रीः