अध्यायः 089

सङ्कुलयुद्धम् ॥ 1 ॥

सञ्जय उवाच ।
सुकल्पिता हैमवता महोत्कटा रणाभिकामैः कृतिभिः समास्थिताः ।
सुवर्णजालैर्वितता बभुर्गजा-- स्तथा यथा खे जलदाः सविद्युतः ॥
कुणिन्दपुत्रो दशभिर्महायसैः कृपं ससूताश्वमपीडयद्भृशम् ।
ततः शरद्वत्सुतसायकैर्हतः सहैव नागेन पपात भूतले ॥
कुणिन्दपुत्रावरजस्तु तोमरै-- र्दिवाकरांशुप्रतिमैरयस्मयैः ।
जघान भोजस्य हयानथापतन् क्षणाद्विशस्ताः कृतवर्मणे हयाः ॥
अथापरे द्रौणिहता महाद्विपा-- स्त्रयः ससर्वायुधयोधकेतनाः ।
निपेतुरुर्व्यां व्यसवो विचेतना-- स्तथा यथा वज्रहता महाचलाः ॥
कुणिन्दराजावरजादनन्तरः स्तनान्तरे पत्रिवरैरताडयत् ।
तवात्मजं तस्य तवात्मजः शरैः शितैः शरीरं व्यहनद्द्विपं च तम् ॥
स नागराजः सह राजसूनुना पपात रक्तं बहु सर्वतः क्षरन् ।
महेन्द्रवज्रप्रहतोऽम्बुदागमे यथा जलं गेरिकपर्वतस्तथा ॥
कुणिन्दपुत्रप्रहितोऽपरो द्विपः क्राथं ससूताश्वरथं व्यपोथयत् ।
ततोऽपतत्क्राथसराभिघातितः सहेश्वरो वज्रहतो यथा गिरिः ॥
रथी द्विपस्थेन हतोऽपतच्छरैः क्राथाधिपः पर्वतजेन दुर्जयः ।
सवाजिसूतेष्वसनध्वजस्तथा यथा महावातहतो महाद्रुमः ॥
वृको द्विपस्थं गिरिराजवासिनं भृशं शरैर्द्वादशभिः पराभिनत् ।
ततो वृकं साश्वरथं महाद्विपो द्रुतं चतुर्भिरणैर्व्यपोथयत् ॥
स पोथितो नागरवेण वीर्यवा-- न्पराभिनद्द्वादशभिः शिलीमुखैः ।
वृकेण बाणाभिहतोऽपतत्क्षितौ सवारणो बभ्रुसुतेन सार्धम् ॥
कुणिन्दराजस्य सुतोऽपरस्तदा स चापि शूरः सहसा समर्पितः ।
पपात बाणैः सुबलस्य सूनुना विषाणपुच्छापरगात्रपातिना ॥
गजेन वाहाञ्शकुनेः कुणिन्दजो निनाय वैवस्वतमन्दिरं रणे ।
रथं च संक्षुभ्य ननाद नर्दत-- स्ततोऽस्य गान्धारपतिः शिरोऽहरत् ॥
ततः कुणिन्देषु गतेषु तेषु प्रहृष्टरूपास्तव ते महारथाः ।
भृशं प्रदरध्मुर्लवणाम्बुसम्भवा-- न्वरांश्च बाणासनपाणयोऽभ्ययुः ॥
तथाऽभवद्युद्धमतीव दारुणं पुनः कुरूणां सह पाण्डुसृञ्जयैः ।
शरासिशक्त्यृष्टिगदापरश्वथै-- र्नराश्वनागासुहरं भृशाकुलम् ॥
रथाश्वमातङ्गपदातयस्ततः परस्परं विप्रहताः क्षितौ पतन् ।
यथा सविद्युत्तटितो जलप्रदाः समुत्थितैर्दिग्भ्य इवोग्रमारुतेः ॥
ततः शतानीकहता महागजा हया रथाः पत्तिगणाश्च तावकाः ।
सुपर्णवातप्रहता यथोरगा-- स्तथा गता गां विवशा विचूर्णिताः ॥
ततोऽभ्यविद्ध्यद्बहुभिः शितैः शरैः स विन्दपुत्रो नकुलात्मजं स्मयन् ।
ततोऽस्य कोपाद्विचकर्त नाकुलिः शिरः क्षुरेणाम्बुजसन्निभाननम् ॥
ततः शतानीकमविध्यदायसै-- स्त्रिभिः शरैः कर्णसुतोऽर्जुनं त्रिभिः ।
त्रिभिश्च भीमं नकुलं च सप्तभि-- र्जनार्दनं द्वादशभिश्च सायकैः ॥
तदस्य कर्मातिमनुष्यकर्मणः समीक्ष्य हृष्टाः कुरवोऽभ्यपूजयन् ।
पराक्रमज्ञास्तु धनञ्जयस्य ये हुतोऽयमग्नाविति ते तु मेनिरे ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोननवतितमोऽध्यायः ॥ 89 ॥

श्रीः