अध्यायः 253

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति दृष्टान्ततया विप्रकन्योपाख्यानकथनपूर्वकं विद्वत्संरक्षणस्य महाफलहेतुत्वकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

कृपया परया प्रोक्तः सर्वेषां पापकर्मणाम् ।
ज्ञानस्य च परस्येह तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
उपायोऽयं परप्राप्तौ परमः परिकीर्तितः ।
नारायणास्यानुध्यानमर्चनं यजनं स्तुतिः ॥
श्रवणं तत्कथानां च विद्वत्संरक्षणं तथा । विद्वच्छुश्रूषणप्रीतिरुपदेशानुपालनम् ।
स ध्यानेन जपेननाशु मुच्यते प्राकृतोपि वा ॥
जपश्चतुर्विधः प्रोक्तो वैदिकस्तान्त्रिकोपि च ।
पौराणिकोथ विद्वद्भिः कथितः स्मार्त एव च ॥
विद्वच्छुश्रूषया ज्ञानं विद्वत्संरक्षणेन च ।
नासाध्यं ज्ञानिनां किञ्चित्तस्माद्रक्ष्यास्त्वया द्विजाः ॥
सुव्रता बन्धुहीनैका वने पूर्वं यमेन तु ।
आसीदाश्वासिता विद्वत्संरक्षणफलात्किल ॥
विप्रस्य मरणे हेतुस्तत्पत्नी पितृशोकदा । वैश्या त्वमतिलाभोऽयं विप्रकन्येति साम्प्रतम् ।
इत्युक्ताऽऽश्वासिताऽपृच्छत्केनैवं पापसंयुता ।
जाता विप्रकुले सम्यक् श्रेयश्चापि ब्रवीहि मे ॥
यम उवाच ।
अन्यजन्मनि विद्वांसं प्रहारैरभिपीडितम् ।
चोरशङ्काविमोक्षेण मोक्षयित्वा सुजन्मिका ॥
इत्युक्ताऽष्टाक्षरध्यानजपादिश्रेयसंयुता ।
यमेनानुगृहीताऽभूत्पुण्यलोकनिवासिनी ॥
तन्नित्यं विदुषां रक्षा तत्परोऽभूर्महीपते ।
तेषां संरक्षणात्सद्यः सर्वपापैः प्रमुच्यते ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चशदधिकद्विशततमोऽध्यायः ॥ 253 ॥

श्रीः