अध्यायः 060
कृष्णेन वसुदेवादीन्प्रति कुरुपाण्डवयुद्धप्रकारकथनम् ॥ 1 ॥
वसुदेव उवाच ।
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् ।
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः ॥
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः ।
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ॥
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् ।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः ।
नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥
वैशम्पायन उवाच ।
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके ।
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ॥
वासुदेव उवाच ।
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् ।
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ॥
प्राधान्यतस्तु गदतः समासेनैव मे शृणु ।
कर्माणि पृथिवीशानां यथावदमरद्युते ॥
भीष्मः सेनापतिरभूदेकादशचमूपतिः ।
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः ॥
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः ।
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना ॥
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् ।
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् ।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥
अकरोत्स ततः कालं शरतल्पगतो मुनिः ।
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ॥
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः ।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः ।
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः ॥
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् ।
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा ॥
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः ।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे ।
नानादिगागता वीराः प्रायशो निधनं गताः ॥
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥
ततः सेनापतिरभूत्कर्णो दौर्योधने बले ।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः ।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥
ततः पार्थं समासाद्य पतङ्ग इव पावकम् ।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः ॥
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः ।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥
हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम् ।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः ।
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम् ॥
हते शल्ये तु शकुनिं सहदेवो महामनाः ।
आहर्तारं कलेस्तस्य जगानामितविक्रमः ॥
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः ।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ।
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥
इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम् ।
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः ।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥
ततः स निहतो राजा धार्तराष्ट्रो महारणे ।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि ।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥
हतपुत्रा हतबला हतमित्रा मया सह ।
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः ॥
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत ।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने ।
विदुरः संजयश्चैव धर्मराजमुपस्थितौ ॥
एवं तदभवद्युद्दमहान्यष्टादश प्रभो ।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥
वैशम्पायन उवाच ।
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् ।
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि षष्टितमोऽध्यायः ॥ 60 ॥
7-60-11 ततः शिखण्डी गाङ्गेयं युध्यमानं महाहवे । इति झ.पाठः ॥
श्रीः