अध्यायः 061

कृष्णेन सभायां वसुदेवंप्रति अभिमन्युनिधनाकथने सुभद्रया तंप्रति तत्कथनचोदनापूर्वकं शोकान्मोहावेशेन भुवि निपतनम् ॥ 1 ॥ ततः कृष्णेन वसुदेवपरिसान्त्वनम् ॥ 2 ॥

वैशम्पायन उवाच ।

कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥
अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः ।
अप्रियं वसुदेवस्य माभूदिति महामनाः ॥
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।
दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥
तषः स दौहित्रवदाद्दुःखशोकसमाहतः ।
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो । सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे ।
दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह ।
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥
किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति ।
मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम ॥
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः । बालभावेन विजयमात्मनोऽकथयत्प्रभुः ।
कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः ।
धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव ॥
स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम् ।
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥
एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत् ॥
न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि ।
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः ।
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥
एको ह्येकेन सततं युध्यमानो यदि प्रभो ।
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥
समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा ।
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ॥
ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः ।
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥
नूनं च स गतः स्वर्गं जहि शोकं महामते ।
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः ॥
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥
स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः ।
शस्त्रपूतां हि स गतिं गतः परपुरंजयः ॥
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह ॥
द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता ।
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥
उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः ।
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह ॥
ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा ।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥
अभिमन्योऽनुशयिनो मातुलास्ते महारथाः ।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम । कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे ।
एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम् ।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥
सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।
पित्रा च लालितो बालः स हतः कालधर्मणा ॥
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥
कुले महति जातासि क्षत्रियाणां महात्मनाम् ।
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे ॥
उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे ।
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह ।
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च ।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम् ॥
वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते ।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम् ॥
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥
एवं स निधनं प्राप्तो दौहित्रस्तव मानद ।
संतापं त्यज दुर्धर्ष मा च शोके मनः कृथाः ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

7-61-11 कच्चिद्दुःखेन गोविन्दि तत्राजौ विमुखीकृतः इति थ.पाठः ॥ 7-61-19 समाहृते च सङ्ग्रामादिति झ.पाठः । पर्यवार्यत सतुष्टैरिति थ.पाठः ॥

श्रीः