अध्यायः 067
दमयन्तीप्रेषितैर्विप्रैस्तत्रतत्रनलान्वेषणम् ॥ 1 ॥
दमयन्त्यवाच ।
मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमिते ।
नलस्य नरवीरस्य यतस्वानयने पुनः ॥
दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता ।
बाष्पेणापिहिता राज्ञी नोत्तरं किंचिदब्रवीत् ॥
तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा ।
हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥
ततो भीमं महाराजं भार्या वचनामब्रवीत् ।
दमयन्ती नृप भृशं भर्तारमनुशोचति ॥
अपकृष्य च लज्जां सा स्वयमुक्तवती विभो ।
प्रयतन्तु तवप्रेष्याः पुण्यश्लोकस्य दर्शने ॥
बृहदश्व उवाच ।
तयाप्रयोदितो राजा ब्राह्मणान्वशवर्तिनः ।
प्राश्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥
ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणास्तदा ।
दमयन्तीमथापृच्छ्य प्रस्थितास्ते तथाऽव्रुवन् ॥
अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः ।
ब्रूत वै जनसंसत्सु तत्रतत्र पुनः पुनः ॥
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम ।
उत्सृज्य वपिने सुप्तामनुरक्तां प्रियां प्रिय ॥
सा वै यथा त्वया दृष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी ।
दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥
तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव ।
प्रसादं कुरु वै देव प्रतिवाक्यं वदस्व च ॥
एवमन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि ।
वायुना धूयमानो हि वनं दहति पावकः ॥
भर्तव्या रक्षणीया त्व पत्नी पत्या हि नित्यदा ।
तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥
ख्यातः प्राज्ञः कुलीनश् सानुक्रोशो भवान्सदा ।
संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥
तत्कुरुष्व नरव्याघ्र दयां मयि नरर्पभ ।
आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतः ॥
एवंब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन ।
स नरः सर्वथा ज्ञेयः कश्चासौ क्वनु वर्तते ॥
यश्चैवं वचनं श्रुत्य्वा बूयात्प्रतिवचो नरः ।
तदादाय वचस्तस्य ममावेद्यं द्विजोत्तमाः ॥
यथा च वो न जानीयाच्चरतो भीमशासनात् ।
पुनरागमनं चेह तथा कार्यमतन्द्रितैः ॥
यदि वाऽसौ समृद्धः स्याद्यदि वाऽप्यधनो भवेत् ।
यदिऽवाप्यसमर्थः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥
एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतो दिशम् ।
नलं मृगयितुं राजंस्तदा व्यसनिनं तथा ॥
ते पुराणि सराष्ट्राणि ग्रामान्धोपांस्तथाऽऽश्रमान् ।
अन्वेषन्तो नलं राजन्नाधिजग्मुर्दविजातयः ॥
तच्च वाक्यं तथा सर्वेतत्रतत्र विशांपते ।
श्रावयांचक्रिरे विप्रा दमयन्त्या यथेरितम् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तषष्टितमोऽध्यायः ॥ 67 ॥
3-67-7 तथा अव्रुवन्नलान्वेषणाय प्रस्थिताःस्मेति ॥ 3-67-12 वायुनेति शोकाग्निः कालवायुना दिनेदिने वर्धमानो दमयन्तीशरीरवनं दहतीति रूपकेणोक्तम् ॥ 3-67-13 भर्तव्याऽन्नादिना । रक्षणीया दस्युप्रभृतिभ्यः । उभयं रक्षणभरणात्मकम् ॥ 3-67-14 सानुक्रोशः सदयः ॥