अध्यायः 008
तदा समागतेन व्यासेन धृतराष्ट्रंप्रति पाण्डवैः सह विरोधस्यानर्थहेतुत्वकथनपूर्वकं तैः सह शमविधानम् ॥ 1 ॥
व्यास उवाच ।
धतराष्ट्र महाप्राज्ञ निबोध वचनं मम ।
वक्ष्यामि त्वां कौरवाणां सर्वेषां हितमुत्तमम् ॥
न मे प्रियं महाबाहो यद्गताः पाण्डवा वनम् ।
निकृत्त्या निकृताश्चैव दुर्योधनपुरोगमैः ॥
ते स्मरन्तः परिक्लेशान्वर्षे पूर्णे त्रयोदशे ।
विमोक्ष्यन्ति विषं क्रुद्धाः कौरवेयेषु भारत ॥
तदयं किंनु पापात्मा तव पुत्रः सुमन्दधीः ।
पाण्डवान्नित्यसंक्रुद्धो राज्यहेतोर्जिघांसति ॥
वार्यतां साध्वयं मूढः शमं गच्छतु ते सुतः ।
वनस्थांस्तानयं हन्तुमिच्छन्प्राणान्विमोक्ष्यति ॥
यथाऽऽह विदुरः प्राज्ञो यथा भीष्मो यथा वयम् ।
यथा कृपश्च द्रोणश्च तथा साधु विधीयताम् ॥
विग्रहो हि महाप्राज्ञ स्वजनेन विगर्हितः ।
अधर्म्यमयशस्यं च मा राजन्प्रतिपद्यथाः ॥
समीक्षा यादृशी ह्मस्य पाण्डवान्प्रति भारत ।
उपेक्ष्यमाणा सा राजन्महान्तमनयं व्रजेत् ॥
अथवाऽयं सुमन्दात्मा वनं गच्छतु ते सुतः ।
पाण्डवैः सहितो राजन्नेक एवासहायवान् ॥
ततः संसर्गजः स्नेहः पुत्रस्य तव पाण्डवैः ।
यदि स्यात्कृतकृत्यस्त्वं भवेथाः पुरषर्षभ ॥
अथवा जायमानस्य यच्छीलमनुजायते ।
श्रूयते तन्महाराज नामृतस्यापसर्पति ॥
कथं वा मन्यते भीष्मो द्रोणोऽथ विदुरोपिवा ।
भवान्वाऽत्र परं कार्यं पुरा चार्थो निवर्तते ॥
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि अष्टमोऽध्यायः ॥ 8 ॥
3-8-2 निकृताः निर्जिताः ॥ 3-8-3 विषमिव विषं शस्त्रम् ॥ 3-8-8 समीक्षा विचारपूर्विका बुद्धिः ॥ 3-8-11 एतदपि दुर्घटमित्याह अथवेति ॥