अध्यायः 014
कृष्णेन युधिष्ठिरंप्रति साल्वेन युद्धस् स्वस्यानागमनहेतुत्वकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
असान्निध्यं कथं कृष्ण तवासीद्वृष्णिनन्दन ।
क्व चासीद्विप्रवासस्ते किंचाकार्षीः प्रवासतः ॥
कृष्ण उवाच ।
साल्वस्य नगरं सौभं गतोऽहं भरतर्षभ ।
निहन्तुं कौरवश्रेष्ठ तत्र मे शृणु कारणम् ॥
महातेजा महांवाहुर्यः स राजा महायशाः ।
दमघोषात्मजो वीरः शिशुपालो मया हतः ॥
यज्ञे ते भरतश्रेष्ठ राजसूयेऽर्हणां प्रति ।
स रोषवशमापन्नो नामृष्यत दुरात्मवान् ॥
श्रुत्वा तं निहतं साल्वस्तीव्ररोषसमन्वितः ।
उपायाद्द्वारकां शून्यामिहस्थे मयि भारत ॥
स तत्र युद्धमकरोद्बालकैर्वृष्णिपुङ्गवैः ।
निवृत्तः कामगं सौभमारुह्यैव नृशंसवत् ॥
`चिरजीवी नृपः सोऽपि प्रसादात्पद्मजन्मनः ।'
ततो वृष्णिप्रवीरांस्तान्बालान्हत्वा बहूंस्तदा ।
पुरोद्यानानि सर्वाणि भेदयामास दुर्भतिः ॥
उक्तवांश्च महाबाहो क्वासौ वृष्णिकुलाधमः ।
वासुदेवः स मन्दात्मा वसुदेवसुतो गतः ॥
तस्य युद्धार्थिनो दर्पं युद्धेनाशयिताऽस्म्यहम् ।
आनर्ताः सत्यमाख्यात तत्र गन्ताऽस्मि यत्र सः ॥
तं हत्वा विनिवर्तिष्ये कंसकेशिनिषूदनम् ।
अहत्वा न निवर्तिष्ये सत्येनायुधमालभे ।
क्वासौ क्वासाविति पुनस्तत्रतत्र प्रधावति ।
मया सह रणे योद्धुं काङ्क्षमाणः स सौभराट् ॥
अद्यतं पापकर्माणं क्षुद्रं विश्वासघातिनम् ।
शिशुपालवधामर्षाद्गमयिष्ये यमक्षयम् ॥
मम पापस्वभावेन भ्राता येन निपातितः ।
शिशुपालो महीपालस्तं वधिष्ये महीतले ॥
भ्राता बालश्च राजा च न च संग्रामकोविदः ।
प्रमत्तश्च हतो वीरस्तं हनिष्ये जनार्दनम् ।
एकमादि महाराज विलप्यदिवमास्थितः ।
कामगेन स सौभेन क्षिप्त्वा मां कुरुनन्दन ॥
तमश्रौषमहं गत्वा यथा वृत्तः स दुर्मतिः ।
मयि कौरव्य दुष्टात्मा मार्तिकावतको नृपः ॥
ततोऽहमपि कौरव्य रोषव्याकुललोचनः ।
निश्चित्य मनसा राजन्वधायास्य मनो दधे ॥
आनर्तेषु विमर्दं च क्षेपं चात्मनि कौरव ।
प्रवृद्धमवलेपं च तस्य दुष्कृतकर्मणः ॥
ततः सौभवधायाहं प्रतस्थे पृथिवीपते ।
स मया सागरावर्ते दृष्ट आसीत्परीप्सता ॥
ततः प्रध्माप्य जलजं पाञ्चजन्यमहे नृप ।
आहूय साल्वं समरे युद्धाय समवस्थितः ॥
तन्मुहूर्तमभूद्युद्धं तत्र मे दानवैः सह ।
शवीभूताश्च मे सर्वे भूतले च निपातिताः ॥
एतत्कार्यं महाबाहो येनाहं नागमं तदा ।
श्रुत्वैव हास्तिनपुरे द्यूतं चाविनयोत्थितम् ।
द्रुतमागतवान्युष्मान्द्रष्टुकामः सुदुःखितान् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्दशोऽष्यायः ॥ 14 ॥
3-14-6 सौभं सुष्ठु भान्ति ते सुभाः काञ्चनादयो धातवस्तज्जम ॥ 3-14-9 आख्यात कथयत ॥ 3-14-16 मार्तिकावतकः एतन्नामकदेशवासी ॥ 3-14-18 अवलेपं गर्वं ज्ञात्वेति शेषः ॥ 3-14-19 सागरस्य आसमन्ताद्वर्तो वर्तनं यस्मिन्सागरद्वीपे इत्यर्थः ॥ 3-14-20 जलजं शङ्खम् ॥