अध्यायः 312
युधिष्ठिरादिभिः काम्यकवनात्पुनर्द्वैतवनंप्रत्यागमनम् ॥ 1 ॥
तत्रकेनचिन्मृगेण तरुसङ्घर्पवशात्स्वविपाणलग्नेन ब्राह्मणस्यारणिना सह पलायनम् ॥ ब्राह्मणप्रार्थनया तदानयनाय पाण्डवैस्तदनुधावनम् ॥ ततस्तौः सुदूरं
स्वापकर्पणपूर्वकमन्तर्हिते तस्मिन््श्रान्त्या वटमूले समुपवेशनम् ॥
एवं हृतायां भार्यायां प्राप्य क्लेशमनुत्तमम् ।
प्रतिपद्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥
वैशंपायन उवाच ।
एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।
विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।
स्वादुमूलफलं रम्यं विचित्रबहुपादपम् ॥
अनुभुक्तफलाहाराः सर्व एव मिताशनाः ।
न्यवसन्पाण्डवास्तत्रकृष्णया सह भार्यया ॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।
भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।
क्लेशमार्च्छन्त विपुलं सुखोदर्कं परंतपाः ॥
तस्मिन्प्रतिवसन्तस्ते यत्प्रापुः कुरुसत्तमाः ।
वने क्लेशं सुखोदर्कं तत्प्रवक्ष्यामि ते शृणु ॥
अरणीसहितं भाण्डं ब्राह्मणस्य तपस्विनः ।
मृगस् घर्षणस्य विपाणे समसज्जत ॥
तदादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमान्तरितः शीघ्रं प्लवमानो महाजवः ॥
ह्रियमाणं तु तं दृष्ट्वा स विप्रः कुरुसत्तम ।
त्वरितोऽभ्यागमत्तत्रअग्निहोत्रपरीप्सया ।
`तेषां तु वसतां तत्र पाण्डवानां महारथम्' ॥
अजातशत्रुमासीनं भ्रातृभिः सहितं वने ।
आगम्य ब्राह्मणस्तूर्णं संतप्तश्चेदमब्रवीत् ॥
अरणीसहितं भाण्डं समासक्तं वनस्पतौ ।
मृगस्य घऱ्षमाणस्य विषाणे समसज्जत ॥
तमादाय गतो राजंस्त्वरमाणो महामृगः ।
आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥
तस्य गत्वा पदं राजन्नासाद्य च महामृगम् ।
अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥
ब्राह्मणस्य वचः श्रुत्वा सन्तप्तोऽथ युधिष्ठिरः ।
धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुङ्गवाः ।
ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।
नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।
अपश्यन्तोमृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥
शीतलच्छायमागमय् न्यग्रोधं गहने वने ।
क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।
अब्रवीद्भ्रातरं श्रेष्ठममर्षात्कुरुनन्दनम् ॥
नास्मिन्कुले जातु ममज्ज धर्मो
न चालस्यादर्थलोपो बभूव ।
अनुत्तराः सर्वभूतेषु भूप
संप्राप्ताः स्मः संशयं किंनु राजन् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि आरण्येयपर्वणि द्वादशाधिकत्रिशततमोऽध्यायः ॥ 312 ॥
3-312-8 अरणीसहितं मन्थं इति झय पाठः । अरणी
उत्तराधरेऽग्निमथनकाष्ठे रताभ्यां रसहितं मन्थं निर्मथनदण्डम् ॥ 3-312-9
आश्रमान्तरितः आश्रमदूरगतः ॥ 3-312-14 पदं मार्गे चिह्नं गत्या प्राप्थ । तेनैव
पथा तदानयत ॥ 3-312-21 धर्मो न ममज्ज धर्मलोपोऽर्थलोपश्च नाभूत् ।
आलस्यादित्युपचर्यते । त्वयि अनुत्तराः प्रतिवाक्यरहिताः सर्वभूतेषु कार्यार्थे
उपस्थिते ओमित्येव वदामो नतु वाक्यान्तरमित्यर्थः । संशयं ब्राह्मणस्य
कर्मलोपनिमित्तं दोषम् ॥