अध्यायः 070
उत्तरजयश्रवणहृष्टेन विराटेन युधिष्ठिरेण सह द्यूतदेवनम् ॥ 1 ॥
विराटेनोत्तरप्रशंसने कङ्केन बृहन्नलया कुरुपराजयकथनम् ॥ 2 ॥ ततो रुष्टेन
विराटेन कङ्कस्य कर्णमूलेऽक्षेणाभिहननम् ॥ 3 ॥ सैरन्ध्र्या क्षतात्प्रस्रवतो
रक्तस्य निजोत्तरीयेण ग्रहणम् ॥ 4 ॥ तथा विराटेन तद्ग्रहणकारणप्रश्ने
तत्कथनम् ॥ 5 ॥
प्रस्थाप्य सेनां कन्याश्च गणिकाश्च स्वलंकृताः ।
मत्स्यराजो महाराजः प्रहृष्ट इदमब्रवीत् ॥
व्रिगर्ताः कुरवः सर्वे संग्रामे निर्जिता मया ।
प्रविश्यान्तःपुरं हृष्टा द्यूतं दीव्याम ब्राह्मण ॥
अक्षानाहर सैरन्ध्रि आसनं चोपकल्पय ।
आदाय व्यजनं त्वं च पार्श्वतोऽनन्तरा भव ॥
तं तथावादिनं दृष्ट्वा पाण्डवः प्रत्यभापत ।
न देवितव्यं हृष्टेन कितवेनेति नः श्रुतम् ॥
न त्वामद्य मुदा युक्तमहं देवितुमुत्सहे ।
प्रियं तु ते चिकीर्पामि वर्ततां यदि रोचते ।
द्यूतं कर्तुं न वाञ्छामि नरेन्द्र जनसंसदि ॥
विराट उवाच ।
स्त्रियो गावो हिरण्यं च यच्चान्यद्वसु किंचन ।
न मे किंचित्त्वया कार्यमन्तरेणापि देवितम् ॥
कङ्क उवाच ।
किं ते द्यूतेन राजेन्द्र बहुदोषेण मानद ।
देवने बहवो दोषास्तस्मात्तत्परिवर्जयेत् ॥
श्रुतो वा यदि वा दृष्टो धर्मराजो युधिष्ठिरः ।
स राज्यं धनमक्षय्यं पणमेकममन्यत ॥
कृष्णां च भार्यां दयितां भ्रातॄंश्च त्रिदशोपमान् ।
निःसंशयं स कितवः पश्चात्तप्यति पाण्डवः ॥
विविधानां च रत्नानां धनानां च पराजये ।
अभीप्सितविनाशश्च वाक्पारुष्यमनन्तरम् ॥
अविश्वास्यं बुधैर्नित्यमेकाह्ना द्रव्यनाशनम् ।
द्यूते हारितवान्सर्वं तस्माद्द्यूतं न रोचये ॥
अथवा मन्यसे राजन्दीव्याव यदि रोचते ।
एवमाभाष्य वाक्यैस्तु क्रीडतस्तौ नरोत्तमौ ॥
प्रवर्तमाने द्यूते तु मात्स्यः पाण्डवमब्रवीत् ॥
पश्य पुत्रेण मे युद्धे तादृशाः कुरवो जिताः ।
कुरवोऽतिरथाः सर्वे देवैरपि सुदुर्जयाः ॥
ततोऽब्रवीद्धर्मराजो द्यूते मात्स्यं युधिष्ठिरः ।
दिष्ट्या ते विजिता गावः कुरवश्च पराजिताः ॥
अत्यद्भुततमं मन्ये उत्तरश्चेत्कूरूञ्जयेत् ।
यन्ता बृहन्नला यस्य स कथंचिद्विजेष्यते ॥
ततो विराटः क्षुभितो मन्युना च परिप्लुतः ।
उवाच वचनं क्रुद्धः परिव्राजमनन्तरम् ॥
तादृशेन तु योधेन महेष्वासेन धीमता ।
कुरवो निर्जिता युद्धे तत्र किं ब्राह्मणाद्भुतम् ॥
युधिष्ठिर उवाच ।
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥
विराट उवाच ।
समं षण्डेन मे पुत्रं ब्रह्मबन्धो प्रशंससि ।
वाच्यावाच्यं न जानीषे नूनं मामवमन्यसे ॥
पुमांसो बहवो दृष्टाः सूताश्च बहवो मया ।
विक्रम्य यन्ता योद्धा च न मे दृष्टः कदाचन ॥
विप्रियं न चरेद्राज्ञामनुकूलं प्रियं वदेत् ।
आचरन्विप्रियं राज्ञां न जातु सुखमेधते ॥
वयस्यत्वात्तु ते सर्वमपराधमिमं क्षमे ।
नेदृशीं प्रवदर्वाचं यदि जीवितुमिच्छसि ॥
वैशंपायन उवाच ।
ततोऽब्रवीत्पुनः कङ्कः प्रहस्य कुरुवर्धनः ।
बृहन्नलाया सजेन्द्र धुष्यतां नगरे जयः ॥
उत्तरेण तु सारथ्यं कृतं नूनं भविष्यति ।
निमित्तं किंचिदुत्पन्नं तर्कश्चापि दृढो मम ।
यतो जानामि राजेन्द्र नान्यथा तद्भविष्यति ॥
कुरवोऽपि महावीर्या देवैरपि सुदुर्जयाः ।
ससोमवरुणादित्यैः सयक्षेशहुताशनैः ॥
यत्र शान्तनवो भीष्मो द्रोणकर्णौ सुदुर्जयौ ।
अश्वत्थामा विकर्णश्च सोमदत्तो जयद्रथः ॥
भूरिश्रवाः शलो भूरिर्जलसन्धिश्च वीर्यवान् ।
दुर्योधनो दुष्प्रसहो दुःशासनविविंशती ॥
वृषसेनोऽश्ववेगश्च वायुवेगसुवर्चसौ ।
बाह्लीकः शूरसेनश्च युयुत्सुश्च परन्तपः ॥
सौबलः शकुनिश्चैव द्युमत्सेनश्च साल्वराट् ।
अन्ये च बहवः शूरा नानाजनपदेश्वराः ॥
कृपेणाचार्यमुख्येन सहिताः कुरवो नृपाः ।
सञ्जकार्मुकनिस्त्रिंशा रथिनो रथयूथपाः ।
अन्ये चैव महावीर्या राजपुत्रा महारथाः ॥
मरुद्गणैः परिवृतः साक्षादपि पुरंदरः ।
तद्बलं न जयेत्क्रुद्धो भीष्मद्रोणादिभिर्वृतम् ॥
कस्तद्बृहन्नलादन्यो मनुष्यः प्रतियोत्स्यति ।
यस्य बाहुबले तुल्यो न भविष्यति कश्चन ॥
अतीव समरं दृष्ट्वा हर्षो यस्याभिवर्धते ।
किमेवं पुरुषो लोको दिवि वा भुवि विद्यते ॥
वैशंपायन उवाच ।
तेन संक्षुभितो राजा दीर्यमाणेन चेतसा ।
अब्रवीद्वचनं क्रूरमजानन्वै युधिष्ठिरम् ॥
कङ्ख मा ब्रूहि मे वाक्यं प्रतिकूलं द्विजोत्तम ।
बहुशः प्रतिषिद्धस्त्वं न च वाचं नियच्छसि ॥
नियन्ता चेन्न विद्येत न कश्चिद्धर्ममाचरेत् ।
इति प्रक्षुभितो राजा सोऽक्षेणाभ्यहनद्भृशम् ॥
तस्य तक्षकभोगाभं बाहुमुत्क्षिप्य दक्षिणम् ।
विराटः प्राहनत्क्रुद्धः कर्णमाश्रित्य दक्षिणम् ॥
मुखे युधिष्ठिरं कोपान्मैवमित्यवभर्त्सयन् ।
बलवत्प्रतिविद्धस्य नस्तः शोणितमास्रवत् ॥
अक्षेणाभिहतो राजा विराटेन युधिष्ठिरः ।
तूष्णीमासीन्महाबाहुः कृष्णां पश्यन्सुदुःखिताम् ॥
तस्य रक्तोत्पलनिभं शिरसः शोणितं तदा ।
प्रावर्तत महाबाहोरभिघातान्महात्मनः ॥
तदप्राप्तं महीं पार्थः पाणिभ्यां समधारयत् ।
अवैक्षत च धर्मात्मा द्रौपदीं पार्श्वतः स्थिताम् ॥
सा वेदनामभिज्ञाय भर्तुश्चित्तवशानुगा ।
सा विषण्णा च भीता च क्रुद्धा च द्रुपदात्मजा ॥
बाष्पं नियम्य कृच्छ्रेण भर्तुर्निःश्रेयसैषिणी ।
उत्तरीयेण सूक्ष्मेण तूर्णं जग्राह शोणितम् ॥
निगृह्य रक्तं वस्त्रेण सैरन्ध्री दुःखमोहिता ।
सौवर्णं गृह्य भृङ्गारं शोणितं तदपामृजत् ।
युधिष्ठिरस्य राजेन्द्र द्रुपदेन्द्रसुता तदा ॥
विराट उवाच ।
सैरन्ध्रि किमिदं रक्तमुत्तरीयेण गृह्यते ।
कोत्र हेतुर्विशालाक्षि तन्मप्राचक्ष्व तत्वतः ॥
सैरन्ध्र्युवाच ।
रक्तबिन्दनि यावन्ति कङ्कस्य धरणीतले ।
तावद्वर्षाणि राष्ट्रे ते अनावृष्टिर्भविष्यति ॥
एतन्निमित्तं मात्स्येन्द्र कङ्कस्य रुधिरं मया ।
गृहीतमुत्तरीयेण विनाशो मा भवेत्तव ॥
यतीशं यो विहन्येत तस्यायुर्विनशिष्यति ।
यो यतीशं नियम्येत सहस्रं यातना यमे ॥
यतौ रक्तं दर्शयति यावत्पांसुरगृह्यत ।
तावन्तः पितृलोकस्थाः पितरः प्रपतन्त्यधः ॥
इति ज्ञात्वा विराटेन्द्र धृतं रक्तं च वाससा ।
मया तव हितार्थाय त्वयि प्रणयकारणात् ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि सप्ततितमोऽध्यायः ॥
4-70-10 धनानां च विना..... वाक्पारुष्यं चाभवदिति शेषपूरणेन
योजना ॥ 10 ॥ 4-70-19 किं किमपि ॥ 19 ॥ 4-70-47 धरणीतले पतेयुरिति शेषः ॥ 47 ॥ 4-70-48 नियम्येत नियमयेत् तस्येति शेषः ॥ 49 ॥ 4-70-50 अगृह्यत
गृह्येत रक्तेनेति ॥ 50 ॥ 4-70-51 इतीममर्थम् ॥ 51 ॥