अध्यायः 012
नकुलेन विराटमेत्य स्वस्याश्वशास्त्रे कौशलाभिधानम् ॥ 1 ॥ विराटेन नकुलस्याश्वपालने नियोजनम् ॥ 2 ॥
वैशंपायन उवाच ।
अथापरोऽदृश्यत पाण्डवः प्रभुर्विराटराजे तुरगान्समीक्षति ।
तमापतन्तं ददृशुः पृथग्जनाः प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ 1 ॥
स वै हयानैक्षत तानितस्ततः समीक्षमाणं च ददर्श मत्स्यराट् ।
दृष्ट्वा तथैनं स कुरूत्तमं तमः पप्रच्छ तान्सर्बसभासदस्तदा ॥ 2 ॥
को वा विजानाति पुराऽस्य दर्शनं योऽयं युवाऽभ्येति हि मासिकां सभाम् ।
प्रियो हि मे दर्शनतोपि संमतो ब्रवीतु कश्चिद्यदि दृष्टवानिमम् ॥ 3 ॥
अयं हयान्पश्यति मामकान्मुहुर्ध्रुवं हयज्ञो भविता विचक्षणः ।
प्रवेश्यतामेष समीपमाशु वै विभाति वीरो हि यथाऽमरस्तथा ॥ 4 ॥
वितर्कयत्येव हि मत्स्यराजनि त्वरन्कुरूणामृषभः सभामगात् ।
ततः प्रणम्योपनतः कुरूत्तमो विराटराजानमुवाच पार्थिवम् ॥ 5 ॥
तवागतोऽहं पुरमद्य भूपते जिजीविषुर्वेतनभोजनार्थिकः ।
तवाश्वबन्धः सुभृतो भवाम्यहं कुरुष्व मामश्वपतिं यदीच्छसि ॥ 6 ॥
विराट उवाच ।
ददानि यानानि धनानि वेतनं न चाश्वसूतो भवितुं त्वमर्हसि ।
कुतोसि कस्यामि कथं त्वमागतो ब्रवीहि शिल्पं तव विद्यते च यत् ॥ 7 ॥
नकुल उवाच ।
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः ।
तेनाहमश्वेषु पुरा प्रकृतः शत्रुकर्शन ॥ 8 ॥
अश्वानां प्रकृतिं वेद्मि विनयं चापि सर्वशः ।
दुष्टानां प्रतिपत्तिं च कृत्स्नं चैव चिकित्सितम् ॥ 9 ॥
न कातरं स्यान्मम वाजिवाहनं न मेऽस्ति दुष्टा बडवा कुतो हयः ।
जानंस्तु मामाह स चापि पाण्डवो युधिष्ठिरो ग्रन्थिकमेव नामतः ॥ 10 ॥
मातलिरिव देवपतेर्दशरथनृपतेः सुमत्र इव यन्ता ।
सुमह इव जामदग्रेस्तथैव तव शिक्षयाम्यश्वान् ॥ 11 ॥
युधिष्ठिरस्य राजेन्द्र नरराजस्य शासनात् ।
शतसाहस्रकोटीनामश्वानामस्मि रक्षिता ॥ 12 ॥
विराट उवाच ।
यदस्ति किंचिन्मम वाजिवाहनं तदस्तु सर्वं त्वदधीनमद्य वै ।
ये चापि केचिन्मम वाजियोधास्त्वदाश्रयाः सारथयश्च सन्तु मे ॥ 13 ॥
इदं तवेष्टं विहितं सुरोपम ...हि यत्ते प्रसमीक्षितं वरम् ।
...ऽनुरूपं हयकर्म दृश्यते विभाति राजेव न कर्म वाजिनाम् ॥ 14 ॥
युधिष्ठिरस्यैव हि दर्शनेन मे समं तवेदं प्रियदर्श दर्शनम् ।
कथं नु भृत्यैः स विनाकृतो वने चरत्यनिन्द्यो रमते च पाण्डवः ॥ 15 ॥
वैशंपायन उवाच ।
तथा स गन्धर्ववरोपमो युवा विराटराज्ञा मुदितेन पूजितः ।
न चैवमन्येऽपि विदुः कथंचन प्रियाभिरामं विचरन्तमन्तरा ॥ 16 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वादशोऽध्यायः ॥ 12 ॥