अध्यायः 014
द्रौपद्या सैरन्ध्रीवेषधारणेन सुदेष्णागृहे निवासः ॥ 1 ॥
वैशंपायन उवाच ।
ततः कृष्णा सुकेशी सा दर्शनीया शुचिस्मिता ।
वेणीकेशान्समुत्क्षिप्य पीनवृत्तकुचा शुभा ।
जुगूहे दक्षिणे पार्श्वे मृदूनसितलोचना ॥ 1 ॥
वासश्च परिधायैकं कृष्णा सुमलिनं महत् ।
कृत्वा वेषं च सैरन्ध्र्याः कृष्णा व्यचरदार्तवत् ॥ 2 ॥
प्रविष्टा नगरं भीरूः सैरन्ध्रीवेषसंयुता ।
तां नराः परिधावन्तः स्त्रियश्च समुपाद्रवन् ॥ 3 ॥
अपृच्छंस्ते च तां दृष्ट्वा का त्वं किं च चिकीर्षसि ।
सा तानुवाच राजेन्द्र सैरन्ध्र्यहमुपागता ।
कर्म चेच्छामि वै कर्तुं तस्य या मां भरिष्यति ॥ 4 ॥
वैशंपायन उवाच ।
तस्या रूपेण वेषेण श्लक्ष्णया च गिरा तथा ।
न श्रद्दधानास्तां देवीमन्नहेतोरुपस्थिताम् ॥ 5 ॥
विराटस्य तु कैकेयी भार्या परमसंमता ।
आलोकयन्ती ददृशे प्रासादाद्द्रुपदात्मजाम् ॥ 6 ॥
सा समीक्ष्य तथारूपामनाथामेकवाससम् ।
स्त्रीभिश्च पुरुषैश्चापि सर्वतः परिवारिताम् ॥ 7 ॥
विराटभार्या तां देवी कारुण्याज्जातसंभ्रमा ।
अप्रेषयत्समीपस्थाः स्त्रियो वृद्धाश्च तत्पराः ॥ 8 ॥
अपनीय ततः सर्वा आनयध्वमिहैव ताम् ।
यदा दृष्टा मया साध्वी कम्पते मे मनस्तदा ।
तस्माच्छीघ्रमिहानाय दर्शयध्वं यदीच्छथ ॥ 9 ॥
तास्तथोक्ता उपागम्य द्रौपदीं परिसंगताः ।
आनीय सर्वथा त्वेनामब्रुवन्मधुराक्षरम् ॥ 10 ॥
भद्रे त्वां द्रष्टुमिच्छन्ती सुदेष्णा हर्म्यभूतले ।
त्वदर्थं प्रैषयच्चास्मान्द्रष्टुं तां त्वं यदीच्छसि ।
आयाह्यस्माभिरेवाद्य रक्ष्यमाणा यथेष्टतः ॥ 11 ॥
तच्छ्रुत्वा द्रौपदी तासां वचनं वाक्यकोविदा ।
ईप्सितर्थातिलाभेन हृष्टाऽऽयाता गृहोत्तमम् ॥ 12 ॥
राजवेश्म ह्युपाक्रम्य यत्राग्र्यमहिषी स्थिता ।
सुदेष्णामगमत्कृष्णा राजभार्यां यशस्विनीम् ॥ 13 ॥
कृष्णान्केशान्मृदून्दीर्घान्समुद्ग्रथ्यासितेक्षणा ।
कुञ्चिताग्रांस्तु सूक्ष्माग्रान्दर्शनीयान्निबध्य च ।
जुगूहे दक्षिणे पार्श्वे मृदूनायतलोचना ॥ 14 ॥
सा प्रविश्य विराटस्य द्रौपद्यन्तःपुरं शुभा ।
ह्रीनिषेवान्विता बाला कम्पमाना लतेव सा ॥ 15 ॥
अभिगम्य च सुश्रोणी सर्वलक्षणसंयुता ।
ददर्शावस्थितां हैमे पीठे रत्नपरिच्छदे ॥ 16 ॥
रक्तसूक्ष्माम्बरधरां मेघे सौदामिनीमिव ।
नानावर्णविचित्रां च सर्वाभरणभूषिताम् ॥ 17 ॥
सुभ्रूं सुकेशीं सुश्रोणीं कुब्जवामनमध्यगाम् ।
बहुपुष्पोपकीर्णायां भूम्यां वेदिमिवाध्वरे ॥ 18 ॥
सुदेष्णां राजमहिषीं सर्वालंकारभूषिताम् ।
श्रीमतीं राजपुत्रीणां शतेन परिवारिताम् ॥ 19 ॥
ताः सर्वा द्रौपदीं दृष्ट्वा सन्तप्ताः परमाङ्गनाः ।
परितश्चोपतस्थुस्ताः सहसोत्थाय चासनात् ॥ 20 ॥
निरीक्षमाणाः सर्वास्ताः शचीं देवीमिवागताम् ।
गूढगुल्फां वरारोहां कृष्णां ताम्रायतेक्षणाम् ।
अतिसर्वानवद्याङ्गीं नतगात्रीं सुमध्यमाम् ॥ 21 ॥
न ह्रस्वां नातिमहतीं जातां बहुतृणे वने ।
ऋश्यरोहीमिवानिन्द्यां सुकेशीं मृगलोचनाम् ॥ 22 ॥
तां मृगीमिव वित्रस्तां यूथभ्रष्टामिव द्विपाम् ।
लक्ष्मीमिव विशालाक्षीं विद्यामिव यशस्विनीम् ॥ 23 ॥
रोहिणीमिव ताराणां दीप्तामग्निशिखामिव ।
पार्वतीमिव रुद्राणीं वेलामिव महोदधेः ॥ 24 ॥
सुलभामिव नागीनां मृगीणामिव किन्नरीम् ।
गङ्गामिव विशुद्धाङ्गीं शारदीमिव शर्वरीम् ॥ 25 ॥
तामचिन्त्यतमां लोके इलामिव यशस्विनीम् ।
सावित्रीमिव दुर्धषां ब्राह्म्या लक्ष्म्या समन्वितां ॥ 26 ॥
सीतामिव सतीं शुद्धामरुन्धतीमिव प्रियाम् ।
सुदेष्णा पर्यपृच्छत्तां विस्मयोत्फुल्ललोचना ॥ 27 ॥
का त्वं सर्वानवद्याङ्गि कुतोसि त्वमिहागता ।
कस्य वा त्वं विशालाक्षि किं वा ते करवाण्यहम् ॥ 28 ॥
गूढगुल्फा समानोरूस्त्रिगम्भीरा षडुन्नता ।
स्निग्धा पञ्चसु रक्तेषु हंसगद्गदभाषिणी ॥ 29 ॥
शुकेशी सुस्वरा श्यामा पीनश्रोणीपयोधरा ।
अरालपक्ष्मनयना बिम्बोष्ठी तनुमध्यमा ॥ 30 ॥
कम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना ।
दानवी किन्नरी वा त्वं गन्धर्वी वनदेवता ॥ 31 ॥
अप्सरा वाऽसि नागी वा तारा वा त्वं विलासिनी ।
अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ मालिनी ॥ 32 ॥
तेनतेनैव संपन्ना काश्मीरीव तुरंगमा ।
इन्द्राणी त्वथ रुद्राणी स्वधा वाऽप्यथवा रतिः ॥ 33 ॥
देवि देवेषु विख्याता ब्रूहि का त्वमिहागता ।
तव ह्यनुपमं रूपं भूषणैरपि वर्जितम् ॥ 34 ॥
त्वां सृष्ट्वोपरतं मन्ये लोककर्तारमीश्वरम् ।
न तृप्यन्ति स्त्रियो दृष्ट्वा का न पुंसां रतिर्भवेत् ॥ 35 ॥
प्रवालपुष्पस्तबकैराचिता वनदेवताः ।
त्वामेव हि निरीक्षन्ते विस्मिता रूपसंपदा ॥ 36 ॥
अन्तःपुरगता नार्यो मृगाः पक्षिगणा नराः ।
सर्वे त्वामेव कल्याणि निरीक्षन्ते सुविस्मिताः ॥ 37 ॥
न त्वादृशी काचन मे त्रिषु लोकेषु सुन्दरी ।
दृष्टपूर्वा श्रुता वाऽपि चक्षुपा विद्यते शुभा ॥ 38 ॥
द्रौपद्युवाच ।
नास्ति देवी न गन्धर्वी न यक्षी न च किन्नरी ।
सैरन्ध्री नाम मे जातिर्वन्यमूलफलाशना ॥ 39 ॥
पतीनां प्रेक्षमाणानां कस्मिंश्चित्कारणान्तरे ।
केशपाशे परामृष्टा साऽहं त्रस्ता वनं गता ॥ 40 ॥
तत्र द्वादशवर्षाणि वन्यमूलफलाशना ।
चराम्यनिलया सुभ्रूः सा तवान्तिकमागता ॥ 41 ॥
जानामि केशान्ग्रथितुं विचित्रान्ग्रथितुं मणीन् ।
मल्लिकोत्पलपद्मानां जानामि ग्रथितुं स्रजः ॥ 42 ॥
सिन्धुवारकजातीनां रचयाम्यवतंसकान् ।
पत्रं मृगाङ्गमगरुं पिषे च हरिचन्दनम् ।
ग्रथयिष्यामि चित्राश्च स्रजः परमशोभनाः ॥ 43 ॥
आराधनं सत्यभामां कृष्णस्य महिषीं प्रियाम् ।
कृष्णां च भार्यां पार्थानां नारीणामुत्तमां तथा ॥ 44 ॥
तथाऽस्मि सुभ्रुवा चाहमिष्टलाभेन तोषिता ।
मालिनी चेति मे नाम स्वयं देवी चकार ह ।
कृष्णा कमलपत्राक्षी सा मे प्राणसमा सखी ॥ 45 ॥
न चाहं चिरमिच्छामि क्वचिद्वस्तुं शुभानने ।
व्रतं किलैतदस्माकं कुलधर्मोऽयमीदृशः ॥ 46 ॥
योऽस्माकं तु हरेद्द्रव्यं देशं वसनमेव वा ।
न क्रोद्धव्यं किलास्माभिरस्मद्गुरुरमर्षणः ॥ 47 ॥
साऽहं वनानि दुर्गाणि तीर्थानि च सरांसि च ।
शैलांश्च विविधान्रम्यान्सरितश्च समुद्रगाः ॥ 48 ॥
भर्तृशोकपरीताङ्गी भर्तृसब्रह्मचारिणी ।
विचरामि महीं दुर्गां यत्र सायंनिवेशना ॥ 49 ॥
वीरपत्नी यदा देवी चरमाणेषु भर्तृषु ।
साऽहं विवत्सा विधिना गन्धमादनपर्वतात् ।
शृणोमि तव सौशील्यं भर्तुर्मधुरभाषिणि ॥ 50 ॥
माहात्म्यं च ततः श्रुत्वा ब्राह्मणानां समीपतः ।
त्वामुपस्थातुमिच्छामि ततश्चाहमिहागता ॥ 51 ॥
गुरवो मम धर्मश्च वायुः शक्रस्तथाऽश्विनौ ।
तेषां प्रसादाच्च न मां कश्चिद्धर्षयते पुमान् ॥ 52 ॥
वैशंपायन उवाच ।
एवमुक्त्वा सुदेष्णां तां कृताञ्जलिपुटा स्थिता ।
साऽब्रवीद्विस्मयाविष्टा द्रौपदीं योषितां वराम् ॥ 53 ॥
न भरेयमहं भद्रे संशयो मम विद्यते ।
राजा त्वयं हि त्वां दृष्ट्वा मतिं पापां करिष्यति ॥ 54 ॥
साऽहं त्वां न क्षमां मन्ये वसन्तीमिह वेश्मनि ।
एष दोषोस्ति सुश्रोणि कथं वाभीरु मन्यसे ॥ 55 ॥
स्थिता राजकुले नार्यो याश्चेमा मम वेश्मनि ।
त्वामेवैकां निरीक्षन्ते विस्मयाद्वरवर्णिनि ॥ 56 ॥
वृक्षांश्चोपस्थितान्पश्य य इमे मम वेश्मनि ।
विनमन्ते हि त्वां दृष्ट्वा पुमांसं कं न लोभयेः ॥ 57 ॥
बिभर्षि परमं रूपमतिमानुषमद्भुतम् ।
तिर्यग्योनिगताश्चापि निरीक्षन्ते सविस्मयाः ।
तव रूपमनिन्द्याङ्गि किं पुनर्मानवा भुवि ॥ 58 ॥
राजा विराटः सुश्रोणि दृष्ट्वा ते परमं वपुः ।
मां विहाय वरारोहे त्वां गच्छेत्सर्वचेतसा ॥ 59 ॥
यं हि त्वमनवद्याङ्गी नरमायतलोचने ।
सुप्रसन्ना हि वीक्षेथाः स कामवरागो भवेत् ॥ 60 ॥
सुस्नाताऽलंकृता हि त्वं यमीक्षेथा हि मानुषम् ।
ग्लानिर्न तस्य दुःखं वा न तन्द्रिर्न पराजयः ॥ 61 ॥
न शोको न च सन्तापो न क्रोधो नानृतं वदे ।
यं त्वं सर्वातवद्याङ्गि भजेथाः समलंकृता ॥ 62 ॥
न व्याधिर्न जरा तस्य न तृष्णा न क्षुधा भवेत् ।
यस्य त्वं वशगा सुभ्रु भवेरङ्कगता सती ॥ 63 ।
पञ्चत्वमपि संप्राप्तं यं च त्वं परिपस्वजेः ।
बाहुभ्यामनुरूपाभ्यां स जीवेदिति मे मतिः ॥ 64 ॥
यस्य हि त्वं भवेर्भार्या यं च हृष्टा परिष्वजेः ।
अतिजीवेस्य सर्वेषु देवेष्विव पुरन्दरः ॥ 65 ॥
अध्यारोहेद्यथा वृक्षं यथा वाऽऽरुह्य तक्षति ।
राजवेश्मनि वामोरु ननु स्यास्त्वं तथा मम ॥ 66 ॥
यथा कर्कटकी गर्भमाधत्ते मृत्युमात्मनः ।
तथाविधमहं मन्ये तव सुभ्रु समागमम् ॥ 67 ॥
अनुमानये त्वां सैरन्ध्रि नावमन्ये कथंचन ।
भर्तृशीलभयाद्भद्रे तव वासं न रोचये ॥ 68 ॥
सैरन्ध्र्युवाच ।
नाहं शक्या विराटेन यद्वा चान्येन केनचित् ।
देवगन्धर्वयक्षैर्वा द्रष्टुं दुष्टेन चेतसा ॥ 69 ॥
गन्धर्वाः पालयन्ते मां सुकुलाः पञ्च सुव्रताः ।
पुत्रा देवादिदेवानां सूर्यपावकवर्चसः ॥ 70 ॥
यश्च दुःशीलवान्मर्त्यो मां स्पृशेद्दुष्टचेतसा ।
स तामेव निशां शीघ्रं शयीत मुसलैर्हतः ॥ 71 ॥
यस्यापि हि शतं पूर्णं बान्धवानां भवेदपि ।
सहस्रं वा विशालाक्षि कोटिर्वापि सहस्रिका ।
दुष्टचित्तश्च मां ब्रूयान्न स जीवेत्तवाग्रतः ॥ 72 ॥
न तस्य त्रिदशा देवा नासुरा न च पन्नगाः ।
तेभ्यो गन्धर्वराजेभ्यस्त्राणं कुर्युरसंशयम् ॥ 73 ॥
सुदेष्णे विश्वस त्वं मां स्वजने बान्धवेऽपि वा ।
नाहं शक्या नरैर्द्रष्टुं न च मे वृत्तमीदृशम् ॥ 74 ॥
यो मे न दद्यादुच्छिष्टं न च पादौ प्रधावयेत् ।
प्रीयेरंस्तेन वासेन गन्धर्वाः पतयो मम ॥ 75 ॥
यो हि मां पुरुषो गृद्ध्येद्यथाऽन्याः प्राकृतस्त्रियः ।
तामेव स इमां रात्रिं प्रविशेदपरां तनुम् ॥ 76 ॥
न चाप्यहं चालयितुं शक्या केनचिदङ्गने ।
दुःखशीलाश्च गन्धर्वास्त इमे बलिनः प्रियाः ।
एवं निवसमानायां मयि मा ते भयं हि भूत् ॥ 77 ॥
वैशंपायन उवाच ।
एवमुक्ता तु सैरन्ध्र्या सुदेष्णा वाक्यमब्रवीत् ।
वसेह मयि कल्याणि यदि ते वृत्तमीदृशम् ॥ 78 ॥
कश्च ते दातुमुच्छिष्टं पुमानर्हति भामिनि ।
प्रसारयेच्च कः पादौ लक्ष्मीं दृष्ट्वैव बुद्धिमान् ॥ 79 ॥
एवमाचारसंपन्ना एवं देवपरायणा ।
रक्ष्या त्वमसि भूतानां सावित्रीवद्विजन्मनाम् ॥ 80 ॥
देवता इव कल्याणि पूजिता वरवर्णिनी ।
वस भद्रे मयि प्रीता प्रीतिर्हि मयि वर्तते ।
सर्वकामैः प्रमुदिता निरुद्विग्नमनाः सुखम् ॥ 81 ॥
वैशंपायन उवाच ।
सुदेष्णयैवमुक्ता सा संप्रीता चारुहासिनी ।
निर्विशङ्का विराटस्य विवेशान्तःपुरं सुखम् ॥ 82 ॥
याज्ञसेनी सुदेष्णां तु शुश्रूपन्ती विशांपते ।
अवसत्परिचारार्हा सुदुःखं जनमेजय ॥ 83 ॥
एवं विराटे न्यवसंस्तु पाण्डवाः कृष्णा तथाऽन्तःपुरमेत्य शोभना ।
अज्ञातचर्यां प्रतिरुद्धमानसा यथाऽग्रथो भस्मनि गूढतेजसः ॥ 84 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि चतुर्दशोऽध्यायः ॥ 14 ॥
4-14-1 समुत्क्षिप्य वल्गिताग्राननिन्दितानिति खo थo धo पाठः ॥ 1 ॥ चतुर्दशोऽध्यायः ॥ 14 ॥