अध्यायः 015
अथ समयपलनपर्व ॥ 2 ॥ पाण्डवैः स्वस्वव्यापारैर्विराटपरितोपणम् ॥ 1 ॥ भीमेन शङ्करोत्सवे महामल्लमारणम् ॥ 2 ॥
जनमेजय उवाच ।
एवं विराटनगरे वसन्तः सत्यविक्रमाः ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥ 1 ॥
वैशंपायन उवाच ।
एवं ते न्यवसंस्तत्र प्रच्छन्नाः कुरुनन्दनाः ।
आराधयन्तो राजानां यदकुर्वत तच्छृणु ॥ 2 ॥
युधिष्ठिरः सभास्तारः सभ्यानामभवत्प्रियः ।
तथैव च विराटस्य सपुत्रस्य विशांपते ॥ 3 ॥
स ह्यक्षहृदयज्ञस्तान्क्रीडयामास पाण्डवः ।
अक्षबद्धान्यथाकामं सूत्रबद्धानिव द्विजान् ॥ 4 ॥
अज्ञातं च विराटस्य विजित्य वसु धर्मराट् ।
भ्रातृभ्यः पुरुषव्याघ्रो यथेष्टं संप्रयच्छति ॥ 5 ॥
भीमसेनोपि मांसानि भक्ष्याणि विविधानि च ।
अतिसृष्टानि मत्स्येन विक्रीणन्निव भ्रातृषु ॥ 6 ॥
वासांसि परिजीर्णानि लब्धान्यन्तःपुरेऽर्जुनः ।
विक्रीणन्निव सर्वेभ्यः पाण्डवेभ्यः प्रयच्छति ॥ 7 ॥
नकुलोपि धनं लब्ध्वा कृते कर्मणि वाजिनाम् ।
तुष्टे तस्मिन्नरपतौ पाण्डवेभ्यः प्रयच्छति ॥ 8 ॥
सहदेवोपि गोपानां वेषमास्थाय पाण्डवः ।
दधि क्षीरं घृतं चैव पाण्डवेभ्यः प्रयच्छति ॥ 9 ॥
कृष्णा तु सर्वान्भ्रातॄंस्तान्निरीक्षन्ती तपस्विनी ।
यथा पुनरविज्ञाता तथा चरति भामिनी ॥ 10 ॥
एवं संभावयन्तस्ते तदाऽन्योन्यं महारथाः ।
विराटनगरे चेरुः पुनर्गर्भधृता इव ॥ 11 ॥
साशङ्का धार्तराष्ट्रस्य भयात्पाण्डुसुतास्तदा ।
प्रेक्षमाणास्तदा कृष्णामूपुश्छन्ना नराधिप ॥ 12 ॥
अथ मासे चतुर्थे तु शङ्करस्य महोत्सवः ।
आसीत्समृद्धो मत्स्येषु पुरुषाणां सुसंमतः ॥ 13 ॥
तत्र मल्लाः समापेतुर्दिग्भ्यो राजन्सहस्रशः ॥ 14 ॥
महाकाया महावीर्याः कालकेया इवासुराः ।
वीर्योन्मत्ता बलोदग्रा राज्ञा समभिपूजिताः ॥ 15 ॥
सिंहस्कन्धकटिग्रीवाः स्ववदाता मनस्विनः ।
असकृल्लब्धलक्षास्ते रङ्गे पार्थिवसन्निधौ ॥ 16 ॥
तेषामेको महानासीत्सर्वमल्लानथाह्वयत् ।
व्यावल्गमानो ददृशे गर्जितोद्गतिभिः स्थितः ॥ 17 ॥
वित्रस्तमनसः सर्वे मल्लास्ते हतचेतसः ।
अवाङ्भुखाश्च भीताश्च मल्लाश्चान्ये विचेतसः ॥ 18 ॥
व्यसुत्वमपरे चैव वाञ्छन्ति प्रतिविह्वलाः ।
गां प्रवेष्टुमथेच्छन्ति खं गन्तुमिव चोत्थिताः ॥ 19 ॥
त्रस्ताः शान्ता विषणाङ्गा निःशब्दं विह्वलेक्षणाः ।
विराटराजमल्लास्ते भग्नदर्पा हतप्रभाः ॥ 20 ॥
मल्लेन्द्रनिहताः सर्वे न किंचित्प्रवदन्ति ते ।
मल्ल उद्वीक्ष्य तान्मल्लांस्रस्तान्वाक्यमुवाचह ॥ 21 ॥
आगतं मल्लराजं मां कृत्स्ने पृथिविमण्डले ।
सिंहव्याघ्रगणैः सार्धं क्रीडन्तं विद्धि भूपते ॥ 22 ॥
मल्लेन्द्रस्य वचः श्रुत्वा बलदर्पसमन्वितम् ।
विराटो वीक्ष्य तान्मल्लांस्त्रस्तान्वाक्यमुवाच ह ॥ 23 ॥
अनेन सह मल्लेन को योद्धुं शक्तिमान्नरः ॥ 24 ॥
इत्युक्तास्ते विराटेन सर्वे मल्ला विशांपते ।
तूष्णीमासंस्ततो राजा क्रोधाविष्ट उवाच ह ॥ 25 ॥
ग्रामांश्च वेतनान्येपां मल्लानां हारयाम्यहम् ।
ततो युधिष्ठिरोऽवादीच्छ्रुत्वा मात्स्यपतेर्वचः ॥ 26 ॥
अस्ति मल्लो महाराज मया दृष्टो युधिष्ठिरे ।
अनेन सह मल्लेन योद्धुं शक्नोति भूपते ॥ 27 ॥
योसौ मल्लो मया दृष्टः पूर्वं यौधिष्ठिरे पुरे ।
सोयं मल्लो वसत्येप राजंस्तव महानसे ॥ 28 ॥
वैशंपायन उवाच ।
युधिष्ठिरवचः श्रुत्वा व्यक्तमाहेति पार्थिवः ।
सोप्यथाहूयतां क्षिप्रं योद्धुं मल्लेन संप्रति ॥ 29 ॥
भीमसेनो विराटेन आहूतश्चोदितस्तथा ।
योद्धुं ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ 30 ॥
नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् ।
अनेन सह मल्लेन योद्धुं राजेन्द्र शक्नुयाम् ॥ 31 ॥
युधिष्ठिरकृतं ज्ञात्वा श्रिया तव विशांपते ।
महादेवस्य भक्त्या च तं मल्लं पातयाम्यहम् ॥ 32 ॥
वैशंपायन उवाच ।
चोदितो भीमसेनस्तु मल्लमाहूय मण्डले ।
योद्धुं व्यवस्थितो वीरो रेणुं संमृज्य हस्तयोः ।
मत्तो गज इवान्यं तु योद्धुं समुपचक्रमे ॥ 33 ॥
अथ सूदेन तं मल्लं योधयामास मत्स्यराट्र ॥ 34 ॥
नोद्यमानस्तदा भीमो दुःखेनेवाकरोन्मतिम् ।
न हि शक्नोम्यशक्तोपि प्रत्याख्यातुं नराधिपं ॥ 35 ॥
ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन् ।
प्रविवेश महारङ्गं विराटमभिहर्षयन् ॥ 36 ॥
बवन्ध कक्षां कौन्तेयस्ततः संहर्षयञ्जनम् ।
ततस्तु वृत्रसङ्काशं भीमो मल्लं समाह्वयत् ॥ 37 ॥
जीमूतं नाम तं तत्र मल्लप्रख्यातविक्रमम् ।
कक्षे मल्लं गृहीत्वाऽथ ननाद बहु सिंहवत् ॥ 38 ॥
तावुभौ सुमहोत्साहावुभौ भीमपराक्रमौ ।
मत्ताविव महाकायौ वारणौ षष्ठिहायनौ ॥ 39 ॥
ततस्तौ नरशार्दूलौ बाहुयुद्धं समीयतु ।
वीरौ परमसंहृष्टावन्योन्यजयकाङ्क्षिणौ ॥ 40 ॥
उभौ परमसंहृष्टौ बलेनातिबलावुभौ ।
अन्योन्यस्यान्तरं प्रेप्सू परस्परजयैषिणौ ॥ 41 ॥
कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सुसङ्कटैः ।
सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥ 42 ॥
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्स्वनैः ।
तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ॥ 43 ॥
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।
जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः ॥ 44 ॥
तद्युद्धमभवद्धोरमशस्त्रं बाहुतेजसा ।
बलप्राणेन शूराणां समाजोत्सवसन्निधौ ॥ 45 ॥
अरज्यत जनः सर्वः सोत्क्रुष्टनिनदोत्थितः ।
बलिनोः संयुगे राजन्वृत्रवासवयोरिव ॥ 46 ॥
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः ।
आकर्षतुरथान्योन्यं जानुभिश्चापि जन्घतुः ॥ 47 ॥
ततः शब्देन महता भर्त्सयन्तौ परस्परम् ।
व्यूढोरस्कौ दीर्घभुजौ नियुद्धकुशलावुभौ ।
बाहुभिः समसज्जेतामायसैः परिघैरिव ॥ 48 ॥
उत्पपाताथ वेगेन मल्लं कक्षे गृहीतवान् ।
पार्श्वं निगृह्य हस्तेन पातयामास मल्लकम् ॥ 49 ॥
चकर्ष दोर्भ्यामुत्पात्य भीमो मल्लममित्रहा ।
निनदं तमभिक्रोशञ्शार्दूल इव वारणम् ॥ 50 ॥
समुद्यम्य महाबाहुर्भ्रामयामास वीर्यवान् ।
ततो मल्लाश्च मत्स्याश्च विस्मयं चक्रिरे परम् ॥ 51 ॥
भ्रामयित्वा शतगुणं गतसत्वमचेतनम् ।
प्रत्यपिंषन्महाबाहुर्मल्लं भुवि वृकोदरः ॥ 52 ॥
तस्मिन्विनिहते वीरे जीमूते लोकविश्रुते ।
विराटः परमं हर्षमगच्छद्वान्धवैः सह ॥ 53 ॥
प्रहर्षात्प्रददौ वित्तं बहु राज महामनाः ।
वललाय महारङ्गे यथा वैश्रवणस्तथा ॥ 54 ॥
एवं स सुबहून्मल्लान्पुरुषांश्च महाबलान् ।
विनिघ्नन्मत्स्यराजस्य प्रीतिमाहरदुत्तमाम् ॥ 55 ॥
यदाऽस्य तुल्यः पुरुषो न कश्चितत्र विद्यते ।
ततो व्याघ्रैश्च सिंहैश्च द्विरदैश्चाप्ययोधयत् ॥ 56 ॥
विराटेन प्रदत्तानि चित्राणि विविधानि च ।
स्थितेभ्यः पुरुषेभ्यश्च दत्त्वा द्रव्याणि जग्मिवान् ॥ 57 ॥
पुनरन्तःपुरगतः स्त्रीणां मध्ये वृकोदरः ।
योध्यते स विराटस्य गजैः सिंहैर्महाबलैः ॥ 58 ॥
बीभत्सुरपि गीतेन नृत्तेनापि च पाण्डवः ।
विराटं तोषयामास सर्वाश्चान्तःपुरस्त्रियः ॥ 59 ॥
अश्वैर्विनीतैर्जवनैस्तत्रतत्र समागतः ।
तोपयामास राजानं नकुलो नृपसत्तमम् ।
तस्मै प्रदेयं प्रायच्छत्प्रीतो राजा धनं बहु ॥ 60 ॥
विनीतान्वृपभान्दृष्ट्वा सहदेवस्य चाभितः ।
धनं ददौ बहुविधं विराटः पुरुषर्षभः ॥ 61 ॥
द्रौपदी प्रेक्ष्य तान्सर्वान्क्लिश्यमानान्महारथान् ।
नातिप्रीतमना राजन्निश्वासपरमाऽभवत् ॥ 62 ॥
एवं ते न्यवसंस्तत्र प्रच्छन्नाः पुरुषर्षभाः ।
कर्माणि तस्य कुर्वाणा विराटनृपतेस्तदा ॥ 63 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि समयपालनपर्वणि पञ्चदशोऽध्यायः ॥ 15 ॥ ॥ समाप्तं चेदं समयपालनपर्व ॥ 2 ॥ ------------
4-15-42 कृतप्रतिकृतादयो मल्लयुद्धविशेषाः ॥ 42 ॥