अध्यायः 029
पाण्डवान्वेषणाय क्रमेण विराटपुरमागतैश्चारैर्हास्तिनपुरमेत्य दुर्योधनंप्रति स्वेषां पाण्डवानवगतिनिवेदनपूर्वकं कीचकवधनिवेदनम् ॥ 1 ॥
वैशंपायन उवाच ।
कीचके तु हते राजा विराटः परवीरहा ।
शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ॥ 1 ॥
कीचकस्य वधं घोरं सानुजस्य विशांपते ।
अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ॥ 2 ॥
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः ।
वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ॥ 3 ॥
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे ।
आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः ।
स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ॥ 4 ॥
इत्यजल्पन्महाराज कीचकस्य विनाशनम् ।
देशेदेशे मनुष्याश्च विस्मितः कीचके हते ॥ 5 ॥
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः ।
मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ॥ 6 ॥
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः ।
कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ॥ 7 ॥
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम् ।
तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ॥ 8 ॥
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना ।
संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ॥ 9 ॥
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा ।
आसीनं सूर्यसंकाशे काञ्चने परमासने ॥ 10 ॥
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् ।
विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ॥ 11 ॥
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः ।
दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ॥ 12 ॥
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा ।
पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ॥ 13 ॥
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले ।
लताप्रतानगहने नानागुल्मसमावृते ॥ 14 ॥
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः ।
मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ॥ 15 ॥
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च ।
जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ॥ 16 ॥
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान् ।
अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ॥ 17 ॥
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु ।
नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च ॥ 18 ॥
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च ।
दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ॥
गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ॥ 19 ॥
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम ।
कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ॥ 20 ॥
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः ।
प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ॥ 21 ॥
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः ।
नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ॥ 22 ॥
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप ।
सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ॥ 23 ॥
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना ।
सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता ।
अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ॥ 24 ॥
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते ।
अन्वेषणे पाण्डवानां भूयः किं करवामहे ॥ 25 ॥
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ॥ 26 ॥
येन त्रिगर्ता निहता बलेन बहुशो नृप ।
सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा ।
स हतः पतितः शेते गन्धर्वैर्निशि भारत ॥ 27 ॥
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः ।
सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ॥ 28 ॥
उत्साहवान्महावीर्यो नीतिमान्बलवानपि ।
युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ॥ 29 ॥
प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान् ।
विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ॥ 30 ॥
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः ।
पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ॥ 31 ॥
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप ।
अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः ।
सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ॥ 32 ॥
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी ।
सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ॥ 33 ॥
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ॥ 34 ॥
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः ।
अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति ।
चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ॥ 35 ॥
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह ।
एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ॥ 36 ॥
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् ।
कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ॥ 37 ॥ ॥
इति श्रीमन्महाभारते विराटपर्वणि ग्रोग्रहणपर्वणि एकोऽनत्रिंशोऽध्यायः ॥ 29 ॥