अध्यायः 014
धृतराष्ट्रेण भीष्महननश्रवणात्परिशोचनपूर्वकं संजयंप्रति विस्तरेण
भीष्मादियुद्धवर्णनचोदना ॥ 1 ॥
कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।
कथं रथार्त्स न्यपतित्पिता मे वासवोपमः ॥
कथमाचक्ष्व मे योधा हीना भीष्मेण संजय ।
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥
तस्मिन्हते महाप्राज्ञे महेष्वासे महाबले ।
महासत्वे नरव्याघ्रे किमु आसीन्मनस्तव ॥
आर्तिं परामाविशति मनः शंससि मे हतम् ।
कुरूणामृषभं वीरमकम्पं पुरुषर्षभम् ॥
के तं यान्तमनुप्राप्ताः के वास्यसन्पुरोगमाः ।
केऽतिष्ठन्के न्यवर्तन्त केऽन्ववर्तन्त सञ्जय ॥
के शूरा रथशार्दूलमद्भुतं क्षत्रियर्षभम् ।
तथाऽनीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥
यस्तमोर्क इवापोहन्परसैन्यममित्रहा ।
सहस्ररश्मिप्रतिमः परेषां भयमादधत् ॥
अकरोद्दुष्करं कर्म रणे पाण्डुसुतेषु यः ।
ग्रसमानमनीकानि य एनं पर्यवारयन् ॥
कृतिनं तं दुराधर्षं सञ्जयास्य त्वमन्तिके ।
कथं शान्तनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥
निकृन्तन्तमनीकानि शरदंष्ट्रं मनस्विनम् ।
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥
अनर्हं पुरुषव्याघ्रं ह्रीमन्तमपराजितम् ।
पातयामास कौन्तेयः कथं तमजितं युधि ॥
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।
परेषामुत्तमाङ्गानि प्रचिन्वन्तमथेषुभिः ॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यतमाहवे ।
कालाग्निमिव दुर्धर्षं समचेष्टत नित्यशः ॥
परिकृष्य स सेनां तु दशरात्रमनीकहा ।
दगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥
यः स शक्र इवाक्षय्यं वर्षं शरमयं क्षिपन् ।
जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥
स शेते निहतो भूमौ वातभुग्न इव द्रुमः ।
मम दुर्मन्त्रितेनाजौ यथा नार्हति भारतः ॥
कथं शान्तनवं दृष्ट्वा पाण्डवानामनीकिनी ।
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥
कथं भीष्मेण संग्रामं प्राकुर्वन्पाण्डुनन्दनाः ।
कथं च नाजयद्भीष्मो द्रोणे जीवति सञ्जय ॥
कृपे सन्निहिते तत्र भरद्वाजात्मजे तथा ।
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।
भीष्मो विनिहतो युद्धे देवैरपि दुरासदः ॥
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥
तं हतं समरे भीष्मं महारथकुलोदितम् ।
सञ्जयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥
मामकाः के महेष्वासा नाजहुः सञ्जयाच्युतम् ।
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।
कच्चित्ते कुरवः सर्वे नाजहुः सञ्जयाच्युतम् ॥
अश्मसारमयं नूनं हृदयं मुदृढं मम ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥
यस्मिन्सत्यं च मेधा च नीतिश्च भरतर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥
मौर्वीघोषस्तनयुत्नुः पृषत्कपृषतो महान् ।
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥
योऽभ्यवर्षत कौन्तेयान्सपाञ्चालान्ससृञ्जयान् ।
निघ्नन्परथान्वीरो दानवानिव वज्रभृत् ॥
इष्वस्त्रसागरं घोरं बाणग्रहं दुरासदम् ।
कार्मुकोर्मिणमक्षय्यमद्वीपं चलमप्लवम् ॥
गदासिमकरावासं हयावर्त्तं गजाकुलम् ।
पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिःस्वनम् ॥
हयान्गजपदातींश्च रथांश्च तरसा बहून् ।
निमञ्जयन्तं समरे परवीरापहारिणम् ॥
विदह्यमानं कोपेन तेजसा च परंतपम् ।
वेलेव मकरावासं के वीराः पर्यवारयन् ॥
भीष्मो यदकरोत्कर्म समरे सञ्जयारिहा ।
दुर्योधनहितार्थाय के तस्यास्य पुरोऽभवन् ॥
के रक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।
पृष्ठतः के परान्वीरानपासेधन्यतव्रताः ॥
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके ।
के रक्षन्नुत्तरं चक्रं वीरा वीरकस्य युध्यतः ॥
वामे चक्रे वर्तमानाः केऽघ्नन्सञ्जय सृञ्जयान् ।
अग्नतोऽग्न्यमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥
पार्श्वतः केऽभ्यरक्षन्त गच्छन्तो दुर्गमां गतिम् ।
समूहे के परान्वीरान्प्रत्ययुध्यन्त सञ्जय ॥
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते ।
दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥
सर्वलोकेश्वरस्येव परमस्य प्रजापतेः ।
कथं प्रहर्तुमपि ते शेकुः सञ्जय पाण्डवाः ॥
यस्मिन्द्वीपे समाश्वस्य युध्यन्ते कुरवः परैः ।
तं निमग्नं नरव्याघ्रं भीष्मं शंससि सञ्जय ॥
यस्य वीर्यं समाश्रित्य मम पुत्रो बृहद्बलः ।
न पाण्डवानगणयत्कथं स निहतः परैः ॥
यः पुरा विबुधैः सर्वैः सहाये युद्धदुर्मदः ।
काङ्क्षितो दानवान्ध्नद्भिः पिता मम महाव्रतः ॥
यस्मिज्जाते महावीर्ये शान्तनुर्लोकविश्रुतः ।
शोकं दैन्यं च दुःस्वं च प्राजहात्स च तत्क्षणे ॥
प्रोक्तं परायणं प्राज्ञं स्वधर्मनिरतं शुचिम् ।
वेदवेदाङ्गतत्वज्ञं कथं शंससि मे हतम् ॥
सर्वास्त्रविनयोपेतं शान्तं दान्तं मनस्विनम् ।
हतं शान्तनवं श्रुत्वा मन्ये शेषं हतं बलम् ॥
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।
अम्बार्थमुद्यतः सङ्ख्ये भीष्मेण युधि निर्जितः ॥
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।
हतं शंससि मे भीष्मं किं नु दुःखमतः परम् ॥
असकृत्क्षत्रियव्राताः सङ्ख्ये येन विनिर्जिताः ।
जामदग्न्येन वीरेण परवीरनिघातिना ।
न हतो यो महाबुद्धिः स हतोऽद्य शिखण्डिना ॥
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् ।
तेजोवीर्यबलैर्यूयाञ्शिखण्डी द्रुपदात्मजः ॥
यः शूरं कृतिनं युद्धे सर्वशस्त्रविशारदम् ।
परमास्त्रविदं वीरं जघान भग्तर्षभम् ॥
के वीरास्तममित्रघ्नमन्वयुः शस्त्रसंसदि ।
शंस मे तद्यथा चासीद्युद्भं भीष्मस्य पाण्डवैः ॥
योषेव हतवीरा मे सेन्म पुत्रस्य सञ्जय ।
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥
पौरुषं सर्वलोकस्य परं यस्मिन्महाहवे ।
परासक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु सञ्जय ।
घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥
अद्रिसारमयं नूनं हृदयं मम सञ्जय ।
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥
यस्मिन्नस्त्राणि मेधा च नीतिश्च पुरुषर्षभे ।
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥
न चास्त्रेण न शौर्येण तपसा मेधया न च ।
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।
यत्र शान्तनवं भीष्मं हतं शंससि सञ्जय ॥
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।
आशंसेऽहं परं त्राणं भीष्माच्छान्तनुनन्दनात् ॥
यदादित्यमिवापश्यत्पतितं भ्रुवि सञ्जय ।
दुर्योधनः शान्तनवं किं तदा प्रत्यपद्मत ॥
नाहं स्वेषां परेषां वा बुद्ध्या सञ्जय चिन्तयन् ।
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।
यत्र शान्तनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥
वयं वा राज्यमिच्छामो घातयित्वा महाव्रतम् ।
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय ।
पराक्रमः पराशक्तिस्तत्तु तस्मिन्प्रतिष्ठितम् ॥
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।
कथं शान्तनवं तातं पाण्डुपुत्रा न्यवारयन् ॥
यथायुक्तान्यनीकानि कथं युद्धं महात्मभिः ।
कथं वा निहतो भीष्मः पिता सञ्जय मे परैः ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥
यच्छरीरैरुपास्तीर्णां नरवारणवाजिनाम् ।
शरशक्तिमहाखङ्गतोमराक्षां महाभयाम् ।
प्राविशन्कितवा मन्दाः सभां युद्धदुरासदाम् ॥
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ।
के जीयन्ते जितास्तत्र कृतलक्ष्या निपातिताः ।
अन्ये भीष्माच्चान्तनवात्तन्ममाचक्ष्व सञ्जय ॥
न हि मे शान्तिरस्तीह श्रुत्वा देवव्रतं हतम् ।
पितरं भीमकर्माणं भीष्ममाहवशोभिनम् ॥
आर्तिं मे हृदये रूढां महतीं पुत्रहानिजाम् ।
त्वं हि मे सर्पिषेवाग्निमुद्दीपयसि सञ्जय ॥
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् ।
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र सञ्जय ॥
यद्वृत्तं तत्र संग्रामे मन्दस्याबुद्धिसंभवम् ।
अपनीतं सुनीतं यत्तन्ममाचक्ष्व सञ्जय ॥
यत्कृतं तत्र संग्रामे भीष्मेण जयमिच्छता ।
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।
क्रमेण येन यस्मिंश्च काले यच्च यथाऽभवत् ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि चतुर्दशोऽध्यायः ॥
6-14-1 अस्य त्वमन्तिके स्थित्वा सर्वं दृष्टवानसीति शेषः ॥ 6-14-12 प्रचिन्वन्तं पुष्पवदाददानम् ॥ 6-14-13 समचेष्टत
म्रियमाणपशुवद्धस्तपादविक्षेपं कृतवत् ॥ 6-14-23 अजुस्त्यक्तवन्तः ॥ 6-14-27
मौर्वीघोषेण स्तनयित्नुर्गर्जन्मेघ इव । पृषत्कपृषतो बाणबिन्दुः ॥ 6-14-34
अपासेधन् न्यवारयन् ॥ 6-14-44 प्रोक्त लोके ख्याढम् ॥ 6-14-45
सर्वास्त्रविनयोपेतं सर्वास्त्रशिक्षायुक्तम् ॥ 6-14-54 परासक्ते परलोकप्रिये ॥