अध्यायः 086
सङ्कलयुद्धम् ॥ 1 ॥ भीमदुःशासनयोः समागमः संवादश्च ॥ 2 ॥
सञ्जय उवाच ।
ततः कर्णः कुरुषु प्रद्रुतेषु
वरूथिना श्वेतहयेन राजन् ।
पाञ्चालपुत्रान्व्यधमत्सूतपुत्रो
महेषुमिर्वात इवाभ्रसङ्घान् ॥
सूतं रथादञ्जलिकैर्निपात्य
जघान चाश्वाञ्जनमेजयस्य ।
शतानीकं सुतसोमं च भल्लै--
रवाकिरद्धनुषी चाप्यकृन्तत् ॥
धृष्टद्युम्नं निर्बिभेदाथ षड्भि--
र्जघानाश्वान्दक्षिणांस्तस्य सङ्ख्ये ।
हत्वा चाश्वान्सात्यकेः सूतपुत्रः
कैकेयपुत्रं न्यवधीद्विशोकम् ॥
तमभ्यधावन्निहते कुमारे
सेनापतिः कैकयो मित्रवर्मा ।
शरैर्विधुन्वन्भृशमुग्रवेगैः
कर्णात्मजं चाप्यहनत्सुदेवम् ॥
तस्यार्धचन्द्रैस्त्रिभिरुच्चकर्त
प्रहस्य बाहू च शिरश्च कर्णः ।
स स्यन्दनाद्गामगमद्गतासुः
परश्वथैः साल इवावरुग्णः ॥
हताश्वमञ्जोगमिभिः सुषेणः
शिनिप्रवीरं निशितैः पृषत्कैः ।
प्रच्छाद्य नृत्यन्निव कर्णपुत्रः
शैनेयबाणाभिहतः पपात ॥
पुत्रे हते क्रोधपरीतयेताः
कर्णः शिनीनां प्रवरं जिघांसुः ।
हतोऽसि हे सात्यक इत्युदीर्य
व्यवासृजद्बाणममित्रसाहम् ॥
तमस्य चिच्छेद शरं शिखण्डी
त्रिभिस्त्रिभिश्च प्रतुतोद कर्णम् ।
शिखण्डिनः कार्मुकं च ध्वजं च
च्छित्त्वा क्षुराभ्यां न्यहनत्सुजातः ॥
शिखण्डिनं षड्भिरविध्यदुग्रो
धार्ष्टद्युम्नेः स शिरश्चोच्चकर्त ।
ततोऽभिनत्सुतसोमं क्षुरेण
सुसञ्झितेनाधिरथिर्महात्मा ॥
अथाक्रन्दे तुमुले वर्तमाने
धार्ष्टद्युम्ने निहते तत्र कृष्णः ।
अपाञ्चाल्यं क्रियते याहि पार्थ
कर्णं जहीलाब्रवीद्राजसिंह ॥
ततः प्रहस्याशु नरप्रवीरो
रथं रथेनाधिरथेर्जगाम ।
भये तेषां त्राणमिच्छन्सुबाहु--
रभ्याहतानां रथयूथपेन ॥
ततोऽपरे भारत दुष्प्रकम्प्याः
पाञ्चालानां रथसङ्घाः समेताः ।
प्रतिश्रिता ह्यन्तरिक्षे ग्रहाभा
धनुःप्रवीरास्तु रथप्रवीराः ॥
विस्फार्य गाण्डीवमथोग्रघोषं
ज्यया समाहत्य तले भृशं च ।
बाणान्धकारं सहसैव कृत्वा
जघान नागाश्वरथध्वजांश्च ॥
[प्रतिश्रुतः प्राचरदन्तरिक्षे
गुहा गिरीणामपतन्वयांसि ।
यन्मण्डलज्येन विजृम्भमाणो
रौद्रे मुहूर्तेऽभ्यपतत्किरीटी ॥]
तं भीमसेनोऽनुययौ रथेन
पृष्ठे रक्षन्पाण्डवमेकवीरः ।
तौ राजपुत्रौ त्वरितौ रथाभ्यां
कर्णाय यातावरिभिर्विषक्तौ ॥
तत्रान्तरे सुमहान्सूतपुत्र--
श्चक्रे युद्धं सोमकान्सम्प्रमथ्य ।
रथाश्वमातङ्गणाञ्जघान
प्रच्छादयामास शरैर्दिशश्च ॥
तमुत्तमौजा जनमेजयश्च
क्रुद्धौ युधामन्युशिखण्डिनौ च ।
कर्णं बिभेदुः सहिताः पृषत्कैः
सन्नर्दमानाः सह पार्षतेन ॥
ते पञ्च पाञ्चालरथाः समेता
वैकर्तनं कर्णमभिद्रवन्तः ।
तस्माद्रथाच्च्यावयितुं न शेकु--
र्धैर्यात्कृतात्मानमिवेन्द्रियार्थाः ॥
तेषां धनूंषि ध्वजवाजिसूतां--
स्तूर्णं पताकाश्च निकृत्य बाणैः ।
तान्पाञ्चालानभ्यहनत्पृवत्कैः
कर्णस्ततः सिंह इवोन्ननाद ॥
तस्यास्यतस्तानभिनिघ्नतश्च
ज्याबाणहस्तस्य धनुःस्वेनन ।
साद्रिद्रुमा स्यात्पृथिवी विशीर्णे--
त्यतीव मत्वा जनता व्यपीदत् ॥
स शक्रचापप्रतिमेन धन्वना
भृशायतेनाधिरथिः शरान्सृजन् ।
बभौ रणे दीप्तमरीचिमण्डलो
यथांशुमाली परिवेषवांस्तथा ॥
शिखण्डिनं द्वादशभिः पराभिन--
च्छितैः शरैः षड्भिरथोत्तमौजसम् ।
त्रिभिर्युधामन्युमविध्यदाशुगै--
स्त्रिभिस्त्रिभिः सोमकपार्षतात्मजौ ॥
पराजिताः पञ्च महारथास्तु ते
महाहवे सूतसुतेन मारिष ।
निरुद्यमास्तस्थुरमित्रनन्दना
यथेन्द्रियार्थात्मवता पराजिताः ॥
निमज्जतस्तानथ कर्णसागरे
विपन्ननावो वणिजो यथार्णवे ।
उद्दध्रिरे नौभिरिवार्णवाद्रथैः
सुकल्पितैर्द्रौपदिजाः स्वमातुलान् ॥
ततः शिनीनामृषभः शितैः शरै--
र्निकृत्य कर्णप्रहितानिषून्वहून् ।
विदार्य कर्णं निशितैरयस्मयै--
स्तवात्मजं ज्येष्ठमविध्यदष्टमिः ॥
कृपोऽथ भोजश्च तवात्मजस्तथा
स्वयं च कर्णो निशितैरताडयत् ।
स तैश्चतुर्भिर्युयुधे यदूत्तमो
दिगीश्वरैर्दैत्यपतिर्यथा तथा ॥
समाततेनेष्वसनेन कूजता
महास्वनेनाशनिपातदीधितिः ।
बभूव दुर्धर्षतरः स सात्यकिः
शरन्नभोमध्यगतो यथा रविः ॥
पुनः समास्थाय रथान्सुदंशिताः
शिनिप्रवीरं जुगुपुः परन्तपाः ।
समेत्य पाञ्चालमहारथा रणे
मरुद्रणाः शक्रमिवारिनिग्रहे ॥
ततोऽभवद्युद्धमतीव दारुणं
तवाहितानां तव सैनिकैः सह ।
रथाश्वमातङ्गविनाशनं तथा
यथा सुराणामसुरैः पुराऽभवत् ॥
रथा द्विपा वाजिपदातयस्तथा
भ्रमन्ति नानाविधशस्त्रवेष्टिताः ।
परस्परेणाभिहताश्च चस्खलु--
र्विनेदुरार्ता व्यसवोऽपतंस्तथा ॥
तथागतं भीममभीस्तवात्मजः
ससार राजावरजः किरञ्शरैः ।
तमभ्यधावत्त्वरितो वृकोदरो
महारुरुं सिंह इवाभिपेदिवान् ॥
ततस्तयोर्युद्धमतीव दारुणं
प्रदीव्यतोः प्राणदुरोदरं द्वयोः ।
परस्परेणाभिनिविष्टरोषयो--
रुदग्रयोः शम्बरशक्रयोर्यथा ॥
शरैः शरीरार्तिकरैः सुतेजनै--
र्निजघ्नतुस्तावितरेतरं भृशम् ।
सकृत्प्रभिन्नाविव वासितान्तरे
महागजौ दोर्भिरदीनघातिनौ ॥
आलोक्य तौ चैव परस्परं ततः
समं च शूरौ च ससारथी तदा ।
भीमोऽब्रवीद्याहि दुःशासनाय
दुःशासनो याहि वृकोदराय ॥
तयो रथौ सारथिसम्प्रचोदितौ
समं रथौ तौ महसा समीयतुः ।
नानायुधच्छत्रपताकिकाध्वजौ
दिवीव पूर्वं बलशक्रयो रणे ॥
भीम उवाच ।
दिष्ट्याऽसि दुःशासन अद्य दृष्टः
क्षणं प्रतीच्छे सहवृद्धि मूलम् ।
चिरोदितं यन्मया ते सभायां
कृष्णाभिमर्शेन गृहाण मत्तः ॥
स एवमुक्तस्तु ततो महात्मा
दुःशासनो वाक्यमुवाच वीरः ।
सर्वं स्मरन्नेव विसंस्मरामि
उदीर्यमाणं शृणु भीमसेन ॥
स्मरामि चात्मप्रभवं चिराय
यज्जातुषे वेश्मनि रात्र्यहानि ।
विश्वासहीना मृगयां चरन्तो
वसन्ति सर्वत्र निराकृतास्तु ॥
महाभयं रात्र्यहानि स्मरन्त--
स्तथोपभोगाच्च सुखाच्च हीनाः ।
वनेष्वटन्तो गिरिगह्वराणि
पाञ्चालराजस्य पुरं प्रविष्टाः ॥
मायां यूयं कामपि सम्प्रविष्टा
यतो वृतः कृष्णया फल्गुनो वः ।
संभूय पापैस्तदनार्यवृत्तं
कृतं तदा मातृकृतानुरूपम् ॥
एका वृता पञ्चभिः साभिपन्ना ।
ह्यलज्जमानेश्च परस्परस्य ।
स्मरे सभायां सुबलात्मजेन
दासीकृता यत्सह कृष्णया च ॥
सञ्जय उवाच ।
इत्येवमुक्तस्तु तवात्मजेन
पाण्डोः सुतः कोपवशं भृशं
धनुः क्षुराभ्यां ध्वजमेव चाच्छिनत् ।
ललाटमप्यस्य बिभेद पत्रिणा
शिरश्च कायात्प्रजहार सारथेः ॥
स राजपुत्रोऽन्यदवाप्य कार्मुकं
वृकोदरं द्वादशभिः पराभिनत् ।
स्वयं नियच्छंस्तुरगानजिह्मगैः
शरैश्च भीमं पुनरप्यवीवृषत् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षडशीतितमोऽध्यायः ॥ 86 ॥
8-86-14 प्रतिश्रुतः प्रतिस्वनः ॥ 8-86-86 षडशीतितमोऽध्यायः ॥
श्रीः