अध्यायः 021

सङ्कुलयुद्धम् ॥ 1 ॥ षोडशदिवसयुद्धोपसंहारः ॥ 2 ॥

सञ्जय उवाच ।
ततः कर्णं पुरस्कृत्य त्वदीया युद्वदुर्मदाः ।
पुनरावृत्य सङ्ग्रामं चक्रुर्देवासुरोपमम् ॥
द्विरदनररथाश्वशङ्खशब्दैः परिहृषिता विविधैश्च शस्त्रपातैः । द्विरदरथपदातिसादिसङ्घाः परिकुपिताभिमुखाः प्रजघ्निरे ते ॥
शितपरश्वथसासिपट्टसै-- रिषुभिरनेकविधैश्च सूदिताः । द्विरदरथहया महाहवे वरपुरुषैः पुरुषाश्च वाहनैः ॥
कमलदिनकरेन्दुसन्निभैः सितदशनैः सुमुखाक्षिनासिकैः । रुचिरमकुटकुण्डलैर्मही पुरुषशिरोभिरुपस्तृता बभौ ॥
परिघमुसलशक्तितौमरै-- र्नखरभुशुण्डिगदाशतैर्हताः । द्विरदनरहयाः सहस्रशो रुधिरनदीप्रवहास्तदाऽभवन् ॥
प्रहतरथनराश्वकुञ्जरं प्रतिभयदर्शनमुल्बणव्रणम् । तदहितहतमाबभौ बलं पितृपतिराष्ट्रमिव प्रजाक्षये ॥
अथ तव नरदेव सैनिका-- स्तव च सुताः सुरसूनुसन्निभाः । अमितबलपुरः सरा रणे कुरुवृषभाः शिनिपुत्रमभ्ययुः ॥
तदतिरुधिरभीममाबभौ पुरुषवराश्वरथद्विपाकुलम् । लवणजलसमुद्वतस्वनं बलमसुरामरसैन्यसप्रभम् ॥
सुरपतिसमविक्रमस्तत-- स्त्रिदशवरावरजोपमं युधि । दिनकरकिरणप्रभैः पृषत्कै रवितनयोऽभ्यहनच्छिनिप्रवीरम् ॥
तमपि सरथवाजिसारथिं शिनिवृषभो विविधैः शरैस्त्वरन् । भुजगविषसमप्रभै रणे पुरुषवरं समवास्तृणोत्तदा ॥
शिनिवृषभशरैर्निपीडितं तव सुहृदो वसुषेणमभ्ययुः । त्वरितमतिरथा रथर्षभं द्विरदरथाश्वपदातिभिः सह ॥
तदुदधिनिभमाद्रवद्बलं त्वरिततरैः समभिद्रुतं परैः । द्रुपदसुतमुखैस्तदाऽभवत् पुरुषरथाश्वगजक्षयो महान् ॥
अथ पुरुषवरौ कृताह्निकौ भवमभिपूज्य यथाविधि प्रभुम् । अरिवधकृतनिश्चयौ द्रुतं तव बलमर्जुनकेशवौ सृतौ ॥
जलदनिनदनिःस्वनं रथं पवनविधूतपताककेतनम् । सितहयमुपयान्तमन्तिकं कृतमनसो ददृशुस्तदाऽरयः ॥
अथ विष्फार्य गाण्डीवं रथे नृत्यन्निवार्जुनः ।
शरसम्बाधमकरोत्खं दिशः प्रदिशस्तथा ॥
रथान्विमानप्रतिमान्मज्जयन्सायुधध्वजान् ।
ससारथींस्तदा बाणैरभ्राणीवानिलोऽवधीत् ॥
गजान्गजप्रयन्तॄंश्च वैजयन्त्यायुधध्वजान् ।
सादिनोऽश्वांश्च पत्तींश्च शरैर्निन्ये यमक्षयम् ॥
तमन्तकमिव क्रुद्धमनिवार्यं महारथम् ।
दुर्योधनोऽभ्ययादेको निघ्नन्बाणैरजिह्मगैः ॥
तस्यार्जुनो धनुः सूतमश्वान्केतुं च सायकैः ।
हत्वा सप्तभिरेकेन च्छत्रं चिच्छेद पत्रिणा ॥
नवमं च समाधाय व्यसृजत्प्राणघातिनम् ।
दुर्योधनायेषुवरं तं द्रौणिः सप्तधाऽच्छिनत् ॥
ततो द्रौणेर्धनुश्छित्वा हत्वा चाश्वरथाञ्शरैः ।
कृपस्यापि तदत्युग्रं धनुश्चिच्छेद पाण्डवः ॥
हार्दिक्यस्य धनुश्छित्त्वा ध्वजं चाश्वांस्तदाऽवधीत् ।
दुःशासनस्येष्वसनं छित्त्वा राधेयमभ्ययात् ॥
अथ सात्यकिमुत्सृज्य त्वरन्कर्णोऽर्जुनं त्रिभिः ।
विद्व्वा विव्याध विंशत्या कृष्णं पार्थं पुनःपुनः ॥
न ग्लानिरासीत्कर्णस्य क्षिपतः सायकान्बहून् ।
रणे विनिघ्नतः शत्रून्क्रुद्धस्येव शतक्रतोः ॥
अथ सात्यकिरागत्य कर्णं विद्द्वा शितैः शरैः ।
नवत्या नवभिश्चोग्रैः शतेन पुनरार्पयत् ॥
ततः प्रवीराः पार्थानां सर्वे कर्णमपीडयन् ।
युधामन्युः शिखण्डी च द्रौपदेयाः प्रभद्रकाः ॥
उत्तमौजा युयुत्सुश्च यमौ पार्षत एव च ।
चेदिकारूशमात्स्यानां केकयानां च यद्बलं ॥
चेकितानश्च बलवान्धर्मराजश्च सुव्रतः ।
एते रथाश्वद्विरदैः पत्तिभिश्चोग्रविक्रमैः ॥
परिवार्य रणे कर्णं नानाशस्त्रैरवाकिरन् ।
भाषन्तो वाग्भिरुग्राभिः सर्वे कर्णवधे धृताः ॥
तां शस्त्रवृष्टिं बहुधा कर्णश्छित्त्वा शितैः शरैः ।
अपोवाहास्त्रवीर्येण द्रुमं भङ्क्त्वेव मारुतः ॥
रथिनः समहामात्रान्गजानश्वान्ससादिनः ।
पत्तिव्रातांश्च सङ्क्रुद्वो निघ्नन्कर्णो व्यदृश्यत ॥
तद्वध्यमानं पाण्डूनां बलं कर्णास्त्रतेजसा ।
विशस्त्रपत्रदेहासु प्राय आसीत्पराङ्मुखम् ॥
अथ कर्णास्त्रमस्त्रेण प्रतिहत्यार्जुनः स्मयन् ।
दिशं खं चैव भूमिं च प्रावृणोच्छरवृष्टिभिः ॥
मुसलानीव सम्पेतुः परिघा इव चेषवः ।
शतघ्न्य इव चाप्यन्ये वज्राण्युग्राणि चापरे ॥
तैर्वध्यमानं तत्सैन्यं सपत्त्यश्वरथद्विपम् ।
निमीलिताक्षमत्यर्थं बभ्राम च ननाद च ॥
निष्कैवल्यं तदा युद्वं प्रापुरश्वनरद्विपाः ।
हन्यमानाः शरैरार्तास्तदा भीताः प्रदुद्रुवुः ॥
त्वदीयानां तदा युद्वे संसक्तानां जयैषिणाम् ।
गिरिमस्तं समासाद्य प्रत्यपद्यत भानुमान् ॥
तमसा च महाराज रजसा च विशेषतः ।
न किञ्चित्प्रत्यपश्याम शुभं वा यदि वाऽशुभम् ॥
ते त्रस्यन्तो महेष्वासा रात्रियुद्वस्य भारत ।
अपयानं ततश्चक्रुः सहिताः सर्वयोधिभिः ॥
कौरवेष्वपयातेषु तदा राजन्दिनक्षये ।
जयं सुमनसः प्राप्य पार्थाः स्वशिबिरं ययुः ॥
वादित्रशब्दैर्विविधैः सिंहनादैः सगर्जितैः ।
परानुवहन्तश्च स्तुवन्तश्चाच्युतार्जुनौ ॥
कृतेऽवहारे तैर्वीरैः सैनिकाः सर्व एव ते ।
आशीर्वाचः पाण्डवेषु प्रायुञ्जन्त नरेश्वराः ॥
ततः कृतेऽवहारे च प्रहृष्टास्तत्र पाण्डवाः ।
निशायां शिबिरं गत्वा न्यवसन्त नरेश्वराः ॥
ततो रक्षः पिशाचाश्च श्वापदाश्चैव सङ्घशः ।
जग्मुरायोधनं घोरं रुद्रस्याक्रीडसन्निभम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे एकविंशोऽध्यायः ॥ 21 ॥

8-21-8 लवणजलः क्षारसमुद्रः ॥ 8-21-9 त्रिदशवरावरजोपमं विष्णुतुल्यम् ॥ 8-21-13 सृतावागतौ ॥ 8-21-36 निष्कैवल्यं निश्चितं कैवल्यं मरणं यस्मिंस्तत्तथा ॥ 8-21-37 प्रत्यपद्यत प्रविष्टः ॥ 8-21-21 एकविंशोऽध्यायः ॥

श्रीः