अध्यायः 015

शल्ययुधिष्ठिरयोर्युद्धम् ॥ 1 ॥

सञ्जय उवाच ।
ततः सेना तव विभो मद्रराजपुरस्कृता ।
पुनरभ्यद्रवत्पार्थान्वेगेन महता रणे ॥
पीडितास्तावकाः सर्वे प्रधावन्तो रणोत्कटाः ।
क्षणेन चैव पार्थांस्ते बहुत्वात्समलोडयन् ॥
ते वध्यमानाः समरे पाण्डवा नावतस्थिरे ।
क्षणेनैव महाराज पश्यतोः कृष्णपार्थयोः ॥
ततो धनञ्जयः क्रुद्धः कृपं सह पदानुगैः ।
अवाकिरच्छरौघेण कृतवर्माणमेव च ॥
शकुनिं सहदेवस्तु सहसैन्यमवाकिरत् ।
नकुलः पार्श्वतः स्थित्वा मद्रराजमयोधयत् ॥
द्रौपदेया नरेन्द्राश्च भूयिष्ठान्समवारयन् ।
द्रोणपुत्रं च पाञ्चाल्यः शिखण्डी समवारयत् ॥
भीमसेनस्तु राजानं गदापाणिरवारयत् ।
शल्यं तु सह सैन्येन कुन्तीपुत्रो युधिष्ठिरः ॥
ततः समभवद्युद्धं संसक्तं तत्रतत्र ह ।
तावकानां परेषां च सङ्ग्रामेष्वनिवर्तिनाम् ॥
तत्र पश्यामहे कर्म शल्यस्यातिमहद्रणे ।
यदेकः सर्वसैन्यानि पाण्डवानामयोधयत् ॥
व्यदृश्यत तदा शल्यो युधिष्ठिरसमीपतः ।
क्रूरश्चन्द्रमसोऽभ्याशे शनैश्चर इव ग्रहः ॥
पीडयित्वा तु राजानं शरैराशीविषोपमैः ।
अभ्यधावत्पुनर्भीमं शरवर्षैरवाकिरत् ॥
तस्य तल्लाघवं दृष्ट्वा तथैव च कृतास्त्रताम् ।
अपूजयन्ननीकानि परेषां तावकानि च ॥
पीड्यमानास्तु शल्येन पाण्डवा भृशाविक्षताः ।
प्राद्रवन्त रणं हित्वा क्रोशमाने युधिष्ठिरे ॥
वध्यमानेष्वनीकेषु मद्रराजेन पाण्डवः ।
अमर्षवशमापन्नो धर्मराजो युधिष्ठिरः ॥
ततः पौरुषमास्थाय मद्रराजमताडयत् ।
जयो वाऽस्तु वधो वेति कृतबुद्धिर्महारथः ॥
समाहूयाब्रवीत्सर्वान्भ्रातॄन्कृष्णं च पाण्डवः ॥
भीष्मो द्रोणश्च कर्णश्च ये चान्ये पृथिवीक्षितः । कौरवार्थे पराक्रान्ताः सङ्ग्रामे निधनं गताः ।
यथाभागं यथोत्साहं भवन्तः कृतपौरुषाः ॥
भागोऽवशिष्ट एकोऽयं मम शल्यो महारथः ।
सोऽहमद्य युधा जेतुमाशंसे मद्रकाधिपम् ॥
तत्र यन्मानसं मह्यं तत्सर्वं निगदामि वः ।
चक्ररक्षाविमौ वीरौ मम माद्रवतीसुतौ ॥
अजेयौ वासवेनापि समरे शूरसम्मतौ ।
साध्विमौ मातुलं युद्धे क्षत्रधर्मपुरस्कृतौ ॥
मदर्थे प्रतियुध्येतां मानार्हौ सत्यसङ्गरौ । मां वा शल्यो रणे हन्ता तं वाऽहं भद्रमस्तु वः ।
इति सत्यामिमां वाणीं लोकवीरा निबोधत ॥
योत्स्येऽहं मातुलेनाद्य क्षात्रधर्मेण पार्थिवाः ।
स्वमंशमभिसन्धाय विजयायेतराय वा ॥
तस्य मेऽप्यधिकं शस्त्रं सर्वोपकरणानि च ।
संयुज्यन्तां रथे क्षिप्रं शास्त्रवद्रथयोजकैः ॥
शैनेयो दक्षिणं चक्रं धृष्टद्युम्नस्तथोत्तरम् ।
पृष्ठगोपो भवत्वद्य मम पार्थो धनञ्जयः ॥
पुरःसरो ममाद्यास्तु भीमः शस्त्रभृतां वरः ।
एवमभ्यधिकः शल्याद्भविष्यामि महामृधे ॥
एवमुक्तास्तथा चक्रुस्तदा राज्ञः प्रियैषिणः ॥
ततः प्रहर्षः सैव्यानां पुनरासीत्तदाः मृधे ।
पाञ्चालानां सोमकानां मात्स्यानां च विशेषतः ॥
प्रतिज्ञातं च सङ्ग्रामे धर्मराजस्य पूजयन् । ततः शङ्खांश्च भेरीश्च शतशश्चैव पुष्करान् ।
अवादयन्त पाञ्चालाः सिंहनादांश्च नेदिरे ॥
तेऽभ्यधावन्त संरब्धा मद्रराजं तरस्विनम् ।
महता हर्षजेनाथ नादेन कुरुपुङ्गवाः ॥
हादेन गजघण्टानां शङ्खानां निनदेन च ।
तूर्यशब्देन महता नादयन्तश्च मेदिनीम् ॥
तान्प्रत्यगृह्णात्पुत्रस्ते मद्रराजश्च वीर्यवान् ।
महामेघानिव बहूञ्शैलावस्तोदयावुभौ ॥
शल्यस्तु समरश्लाघी धर्मराजमरिन्दमम् ।
ववर्ष शरवर्षेण शम्बरं मघवा इव ॥
तथैव कुरुराजोऽपि प्रगृह्य रुचिरं धनुः । द्रोणोपदेशान्विविधान्दर्शयानो महामनाः ।
ववर्ष शरवर्षाणि चित्रं लघु च सुष्ठु च ॥
न चास्य विवरं कश्चिद्ददर्श चरतो रणे ॥
तावुभौ विविधैर्बाणैस्ततक्षाते परस्परम् ।
शार्दूलावामिषप्रेप्सू पराक्रान्ताविवाहवे ॥
भीमस्तु तव पुत्रेण युद्धशौण्डेन सङ्गतः ॥
पाञ्चाल्यः सात्यकिश्चैव माद्रीपुत्रौ च पाण्डवौ ।
शकुनिप्रमुखान्वीरान्प्रत्यगृह्णन्समन्ततः ॥
तदासीत्तुमुलं युद्धं पुनरेव जयैषिणाम् ।
तावकानां परेषां च राजन्दुर्मन्त्रिते तव ॥
दुर्योधनस्तु भीमस्य शरेणानतपर्वणा ।
चिच्छेदादिश्य सङ्ग्रामे ध्वजं हेमपरिष्कृतम् ॥
स किङ्किणीकजालेन महता चारुदर्शनः ।
पपात रुचिरः सिंहो भीमसेनस्य पश्यतः ॥
पुनश्चास्य धनुश्चित्रं गजराजकरोपमम् ।
क्षुरेण शितधारेण प्रचकर्त नराधिपः ॥
स च्छिन्नधन्वा तेजस्वी रथशक्त्या सुतं तव ।
बिभेदोरसि विक्रम्य स रथोपस्थ आविशत् ॥
तस्मिन्मोहमनुप्राप्ते पुनरेव वृकोदरः ।
यन्तुरेव शिरः कायात्क्षुरप्रेणाहरत्तदा ॥
हतसूता हयास्तस्य रथमादाय भारत ।
व्यद्रवन्त दिशो राजन्हाहाकारस्तदाऽभवत् ॥
तमभ्यधावंस्त्राणार्थं द्रोणपुत्रो महारथः ।
कृपश्च कृतवर्मां च पुत्रं ते हि परीप्सवः ॥
तस्मिन्विलुलिते सैन्ये त्रस्तांस्तस्य पदानुगान् ।
गाण्डीवधन्वा विस्फार्य धनुस्तानहनच्छरैः ॥
युधिष्ठिरस्तु मद्रेशमभ्यधावदमर्षितः ।
स्वयं सन्नोदयन्नश्वान्दन्तवर्णान्मनोजवान् ॥
तत्राश्चर्यपमश्याम कुन्तीपुत्रे युधिष्ठिरे ।
पुरा भूत्वा मृदुर्दान्तो यत्तदा दारुणोऽभवत् ॥
विवृताक्षश्च कौन्तेयो वेपमानश्च मन्युना ।
चिच्छेद योधान्निशितैः शरैः शतसहस्रशः ॥
यांयां प्रत्युद्ययौ सेनां तांतां ज्येष्ठः स पाण्डवः ।
शरैरपातयद्राजन्गिरीन्वज्रैरिवोत्तमैः ॥
साश्वसूतध्वजरथान्रथिनः पातयन्बहून् ।
अक्रीडदेको बलवान्पवनस्तोयदानिव ॥
साश्वारोहांश्च तुरगान्पत्तींश्चैव सहस्रधा ।
व्यपोथयत सङ्ग्रामे क्रुद्धो रुद्रः पशूनिव ॥
शून्यमायोधनं कृत्वा शरवर्षैः समन्ततः ।
अभ्यद्रवत मद्रेशं तिष्ठतिष्ठेति चाब्रवीत् ॥
तस्य तच्चरितं दृष्ट्वा संग्रामे भीमकर्मणः ।
वित्रेसुस्तावकाः सर्वे शल्यस्त्वेनं समभ्ययात् ॥
ततस्तौ भृशसङ्क्रुद्धौ प्रध्माय सलिलोद्भवौ ।
समाहूय तदाऽन्योन्यं भर्त्सयन्तौ समीयतुः ॥
शल्यस्तु शरवर्षेण पीडयामास पाण्डवम् ।
मद्रराजं तु कौन्तेयः शरवर्षैरवाकिरत् ॥
अदृश्येतां तदा राजन्कङ्कपत्रिभिराचितौ । उद्भिन्नरुधिरौ शूरौ मद्रराजयुधिष्ठिरौ ।
पुष्पिताविव रेजाते वने शाल्मलिकिंशुकौ ॥
दीव्यमानौ महात्मानौ प्राणद्यूतेन दुर्मदौ ।
दृष्ट्वा सर्वाणि सैन्यानि नाध्यवस्यंस्तयोर्जयम् ॥
हत्वा मद्राधिपं पार्थो भोक्ष्यतेऽद्य वसुन्धराम् ।
शल्यो वा पाण्डवं हत्वा दद्याद्दुर्योधनाय गाम् ॥
इतीव निश्चयो नाभूद्योधानां तत्र भारत ।
प्रदक्षिणमभूत्सर्वं धर्मराजस्य युध्यतः ॥
ततः शरशतं शल्यो मुमोचाशु युधिष्ठिरे ।
धनुश्चास्य शिताग्रेण बाणेन निरुकृन्तत ॥
सोऽन्यत्कार्मुकमादाय शल्यं शरशतैस्त्रिभिः ।
अविध्यत्कार्मुकं चास्य क्षुरेण निरकृन्तत ॥
अथास्य निजघानाश्वांश्चतुरो नतपर्वभिः ।
द्वाभ्यामतिशिताग्राभ्यामुभौ तत्पार्ष्णिसारथी ॥
ततोऽस्य दीप्यमानेन पीतेन निशितेन च ।
प्रमुखे वर्तमानस्य भल्लेनापाहरद्वृजम् ॥
ततः प्रभग्नं तत्सैन्यं दौर्योधनमरिन्दम ॥
ततो मद्राधिपं द्रौणिरभ्यधावत्तथा कृतम् ।
आरोप्य चैनं स्वरथं त्वरमाणः प्रदुद्रुवे ॥
मुहूर्तमिव तौ गत्वा नर्दमाने युधिष्ठिरे ।
गत्वा ततो मद्रपतिरन्यं स्यन्दनमास्थितः ॥
विधिवत्कल्पितं शुभ्रं महाम्बुदनिनादिनम् ।
सज्जयन्त्रोपकरणं द्विषतां रोमहर्षणम् ॥
तथान्यद्धनुरादाय बलवान्वेगवत्तरम् ॥
युधिष्ठिरं मद्रपतिर्भित्त्वा सिंह इवानदत् ॥
ततः स शरवर्षेण पर्जन्य इव वृष्टिमान् ।
अभ्यवर्षदमेयात्मा क्षत्रियान्क्षत्रियर्षभः ॥
सात्यकिं दशभिर्विद्ध्वा भीमसेनं त्रिभिः शरैः ।
सहदेवं त्रिभिर्विद्धा युधिष्ठिरमपीडयत् ॥
तांस्तानन्यान्महेष्वासान्साश्वान्सरथकूबरान् ।
अर्दयामास विशिखैरुल्काभिरिव कुञ्जरान् ॥
कुञ्जरान्कुञ्जरारोहानश्वप्रयायिनः ।
रथांश्च रथिभिः सार्धं जघान रथिनां वरः ॥
बाहूंश्चिच्छेद तरसा सायुधान्केतनानि च ।
चकार च महीं योधैः स्तीर्णां वेदीं कुशैरिव ॥
तथा तमरिसैन्यानि घ्नन्तं मृत्युमिवान्तकम् ।
परिवव्रुर्भृशं क्रुद्धाः पाण्डुपाञ्चालसोमकाः ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे पञ्चदशोऽध्यायः ॥ 15 ॥

9-15-42 रथशक्त्या रथस्थया शक्त्या ॥ 9-15-50 यां यामभ्यगमत्सेनां तां तां व्यनीनशत् । न्यपातयत कौन्तेयो गिरीन्वज्र इवोत्तमान् । इति क.ख.पाठः ॥ 9-15-67 मुहूर्तमिव तान्हत्वा नर्दमीने युधिष्ठिरे इति क.ख.पाठः ॥ 9-15-15 पञ्चदशोऽध्यायः ॥

श्रीः