अध्यायः 029

पाण्डवैर्निहतसहायस्य दुर्योधनस्य गदामादाय हदं प्रति प्रस्थानम् ॥ 1 ॥ सञ्जयसंहारायासिमुद्यच्छता सात्यकिना व्यासवचनात्तद्विमोचनम् ॥ 2 ॥ हास्तिनपुरं गच्छतः सञ्जयस्य मध्येमार्गं दुर्योधनदर्शनम् ॥ 3 ॥ तेन तस्मिन्धृतराष्ट्राय स्ववृत्तान्तनिवेदनचोदनपूर्वकं हदं प्रविश्य मायया जलस्तम्भनम् ॥ 4 ॥ तत्रागतैर्द्रौणिकृपकृतवर्मभिः सञ्जयाद्दुर्योधनस्य हदप्रवेशं विज्ञाय विलप्य पुनः शिबिरगमनम् ॥ 5 ॥ ततो वृद्धपरिजनैर्युयुत्सुना च राजदाराणां नगरप्रापणम् ॥ 6 ॥

धृतराष्ट्र उवाच ।
निहते मामके सैन्ये निःशेषे शिबिरे कृते ।
पाण्डवानां बले सूत किन्नु शेषमभूत्तदा ॥
एतन्मे पृच्छतो ब्रूहि कुशलो ह्यसि सञ्जय । यच्च दुर्योधनो मानी कृतवांस्तनयो मम ।
वलक्षयं तथा दृष्ट्वा स एकः पृथिवीपतिः ॥
सञ्जय उवाच ।
रथानां द्वे सहस्रे तु सप्त नागशतानि च ।
पञ्च चाश्वसहस्राणि पत्तीनामयुतानि च ॥
एतच्छेषमभूद्राजन्पाण्डवानां महद्बलम् ।
परिगृह्य हि यद्युद्धे धृष्टद्युम्नो व्यवस्थितः ॥
एकाकी भरतश्रेष्ठ ततो दुर्योधनो नृपः ।
नापश्यत्समरे कञ्चित्सहायं रथिनां वरः ॥
नर्दमानान्परान्दृष्ट्वा स्वबलस्य च सङ्क्षयम् । दृष्ट्वा भरतशार्दूलः कश्मलेनाभिसंवृतः ।
हतं स्वहयमुत्सृज्य प्राङ्मुखः प्राद्रावद्भयात् ॥
एकादशचमूभर्ता पुत्रो दुर्योधनस्तव ।
गदामादाय तेजस्वी पदातिः प्रस्थितो हदम् ॥
नातिदूरं ततो गत्वा पद्भ्यामेव नराधिपः ।
सस्मार वचनं क्षत्रुर्धर्मशीलस्य धीमतः ॥
इदं नूनं महाप्राज्ञो विदुरो दृष्ट्वान्पुरा ।
महद्व्सनमस्माकं क्षत्रियाणां च सर्वशः ॥
एवं विचिन्तयानस्तु प्रविविक्षुर्हदं नृपः ।
दुःखसन्तप्तहृदयो दृष्ट्वा राजन्बलक्षयम् ॥
`दशैकाक्षौहिणीभर्ता तदा दुर्योधनोऽपि सन् ।
प्राप्तवान्व्यसनं तीव्रं दैवं हि बलवत्तरम्' ॥
पाण्डवास्तु महाराज धृष्टद्युम्नपुरोगमाः ।
अभ्यद्रवन्त सङ्क्रुद्धास्तव राजन्बलं प्रति ॥
शक्त्यृष्टिप्रासहस्तानां बलानामभिगर्जताम् ।
सङ्कल्पमकरोन्मोघं गाण्डीवेन धनञ्जयः ॥
तान्हत्वा निशितैर्वाणैः सामात्यान्सह बन्धुभिः ।
रथे श्वेतहये तिष्ठन्नर्जुनो बह्वशोभत ॥
सुबलस्य हते पुत्रे सवाजिरथकुञ्जरे ।
महावनमिव च्छिन्नमभवत्तावकं बलम् ॥
अनेकशतसाहस्रे बले दुर्योधनस्य ह ।
नान्यो महारथो राजञ्जीवमानो व्यदृश्यत ॥
द्रोणपुत्रादृते वीरात्तथैव कृतवर्मणः ।
कृपाच्च गौतमाद्राजन्पार्थिवाच्च तवात्मजात् ॥
धृष्टद्युम्नस्तु मां दृष्ट्वा हसन्सात्यकिमब्रवीत् ।
किमनेन गृहीतेन नानेनार्थोऽस्ति जीवता ॥
धृष्टद्युम्नवचः श्रुत्वा शिनेर्नप्ता महारथः ।
उद्यम्य निशितं खङ्गं हन्तुं मामुद्यतस्तदा ॥
तमागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ।
मुच्यतां सञ्जयो जीवन्न हन्तव्यः कथञ्चन ॥
द्वैपायनवचः श्रुत्वा शिनेर्नप्ता कृताञ्जलिः ।
ततो मामब्रवीन्मुक्त्वा स्वस्ति सञ्जय साधय ॥
अनुज्ञातस्त्वहं तेन न्यस्तवर्मा निरायुधः ।
प्रातिष्ठं येन नगरं सायाह्ने रुधिरोक्षितः ॥
क्रोशमात्रमपक्रान्तं गदापाणिमवस्थितम् ।
एकं दुर्योधनं राजन्नपश्यं भृशविक्षतम् ॥
स तु मामश्रुपूर्णाक्षो नाशक्नोदभिवीक्षितुम् ।
उपप्रैक्षत मां दृष्ट्वा तथा दीनमवस्थितम् ॥
तं चाहमपि शोचन्तं दृष्ट्वैकाकिनमाहवे ।
मुहूर्तं नाशकं वक्तुमतिदुःखपरिप्लुतः ॥
`यस्य मूर्धाभिषिक्तानां सहस्रमणिमौलिनाम् ।
आहृत्य च करं सर्वं स्वस्य वेश्म समागतम् ॥
चतुःसागरपर्यन्ता पृथिवी रत्नभूषिता ।
कर्णेनैकेन यस्यार्थे करमाहारिता पुरा ॥
यस्याज्ञा परराष्ट्रेषु कर्णेनैव प्रसारिता ।
नाभवद्यस्य शस्त्रेषु खेदो राज्ञः प्रशासतः ॥
आसीनो हास्तिनपुरे क्षेमं राज्यमकण्टकम् ।
अन्वपालयदैश्वर्यात्कुबेरमपि नास्मरत् ॥
भवनाद्भवनं राजन्प्रयातुं पृथिवीपते ।
देवालयप्रदेशे च पन्था यस्य हिरण्मयः ॥
पताकावृतसूर्यांशुतोरणोच्छ्रितशोभिताः ।
प्रयाणे पृथिवीभर्तुर्धन्यानामभवन्गृहाः ॥
आरुह्यैरावतप्रख्यं नागमिन्द्रसमो बली ।
विभूत्या सुमहत्या यः प्रयाति पृथिवीपते ॥
तं भृशक्षतसर्वाङ्गं पद्ध्यामेव धरातले ।
तिष्ठन्तमेकं दृष्ट्वा तु ममाभूत्क्लेश उत्तमः ॥
तस्य चैवंविधस्याद्य जगन्नाथस्य भूपते ।
आपदप्रतिमैवाभूद्बलीयान्विधिरेव हि' ॥
ततोऽस्मै तदहं सर्वमुक्तवान्ग्रहणं तदा ।
द्वैपायनप्रसादाच्च जीवतो मोक्षमाहवे ॥
स मुहूर्तमिव ध्यात्वा प्रतिलभ्य च चेतनाम् ।
भ्रातॄंश्च सर्वसैन्यानि पर्यपृच्छत मां ततः ॥
तस्मै तदहमाचक्षे सर्वं प्रत्यक्षदर्शिवान् ।
भ्रातॄश्च निहतान्सर्वान्सैन्यं च विनिपातितम् ॥
त्रयः किल रथाः शिष्टास्तावकानां नराधिप ।
इति प्रस्थानकाले मां कृष्णद्वैपायनोऽब्रवीत् ॥
स दीर्घमिव निःश्वस्य प्रत्यवेक्ष्य पुनः पुनः ।
असौ मां पाणिना स्पृष्ट्वा पुत्रस्ते पर्यभाषत ॥
त्वदन्यो नेह सङ्ग्रामे कश्चिज्जीवति सञ्जय ।
द्वितीयं नेह पश्यामि ससहायाश्च पाण़्डवाः ॥
ब्रूयाः सञ्जय राजानं पज्ञाचक्षुषमीश्वरम् ।
दुर्योधनस्तव सुतः प्रविष्टो हदमित्युत ॥
सुहृद्भिस्तादृशैर्हीनः पुत्रैर्भ्रातृभिरेव च ।
पाण्डवैश्च हृते राज्ये को नु जीवेत मादृशः ॥
आचक्षीथाः सर्वमिदं मां च मुक्तं महाहवात् ।
आस्मिंस्तोयहदे गुप्तं जीवन्तं भृशविक्षतम् ॥
एवमुक्त्वा महाराज प्राविशत्तं महाहदम् ।
अस्तम्भयत तोयं च मायया मनुजाधिपः ॥
तस्मिन्हदं प्रविष्टे तु त्रीन्रथाञ्श्रान्तवाहनान् ।
अपश्यं सहितानेकस्तं देशं समुपेयुषः ॥
कृपं शारद्वतं वीरं द्रौणिं च रथिनां वरम् ।
भोजं च कृतवर्माणं सहिताञ्शरविक्षतान् ॥
ते सर्वं मामभिप्रेक्ष्य तूर्णमश्वाननोदयन् ।
उपयाय तु मामूचुर्दिष्ट्या जीवसि सञ्जय ॥
अपृच्छंश्चैव मां सर्वे पुत्रं तव जनाधिपम् ।
कच्चिद्दुर्योधनो राजा स नो जीवति सञ्जय ॥
आख्यातवानहं तेभ्यस्तदा कुशलिनं नृपम् ।
तच्चैव सर्वमाचक्षं यन्मां दुर्योधनोऽब्रवीत् ॥
हदं चैवाहमाचक्षं यं प्रविष्टो नराधिपः ।
अश्वत्थामा तु तद्राजन्निशम्य वचनं मम ॥
तं हदं विपुलं प्रेक्ष्य करुणं पर्यदेवयत् । अहो धिक्स न जानाति जीवतोऽस्मान्नराधिप ।
पर्याप्ता हि वयं तेन सह योधयितुं परान् ॥
ते तु तत्र चिरं कालं विलप्य च महारथाः ।
प्राद्रवन्रथिनां श्रेष्ठा दृष्ट्वा पाण्डुसुतान्रणे ॥
ते तु मां रथमारोप्य कृपस्य सुपरिष्कृतम् ।
सेनानिवेशमाजग्मुर्हतशेषास्त्रयो रथाः ॥
तत्र गुल्माः परिक्षिप्ताः सूर्ये चास्तमिते सति ।
सर्वे विचुक्रुशुः श्रुत्वा पुत्राणां तव संक्षयम् ॥
ततो वृद्धा महाराज योषितां रक्षिणो नराः ।
राजदारानुपादाय पययुर्नगरं प्रति ॥
तत्र विक्रोशमानानां रुदतीनां च सर्वशः ।
प्रादुरासीन्महाञ्शब्दः श्रुत्वा तद्बलसङ्क्षयम् ॥
ततस्ता योषितो राजन्रुदन्त्यो वै मुहुर्मुहुः ।
कुरर्य इव शब्देन नादयन्त्यो महीतलम् ॥
आजघ्नुः करजैश्चापि पाणिभिश्च शिरांस्युत ।
लुलुचुश्च तदा केशान्क्रोशन्त्यस्तत्रतत्र ह ॥
हाहाकारविनादिन्यो विनिघ्नन्त्य उरांसि च ।
शोचन्त्यस्तत्र रुरुदुः क्रन्दमाना विशाम्पते ॥
ततो दुर्योधनामात्याः साश्रुकण्ठा भृशातुराः ।
राजदारानुपामन्त्र्य प्रययुर्नगरं प्रति ॥
वेत्रव्यासक्तहस्ताश्च द्वाराध्यक्षा विशाम्पते । शयनीयानि शुभ्राणि स्पर्ध्यास्तरणवन्ति च ।
समादाय ययुस्तूर्णं नगरं दाररक्षिणः ॥
आस्थायाश्वतरीयुक्तान्स्यन्दनानपरे पुनः ।
स्वान्स्वान्दारानुपादाय प्रययुर्नगरं प्रति ॥
अदृष्टपूर्वा या नार्यो भास्करेणापि वेश्मसु ।
ददृशुस्ता महाराज जना याताः पुरं प्रति ॥
ताः स्त्रियो भरतश्रेष्ठ सौकुमार्यसमन्विताः ।
प्रययुर्नगरं तूर्णं हतस्वपतिबान्धवाः ॥
आगोपालाविपालेभ्यो द्रवन्तो नगरं प्रति ।
ययुर्मनुष्याः सम्भ्रान्ता भीमसेनभयार्दिताः ॥
अपिचैषां भयं तीव्रं पार्थेभ्योऽभूत्सुदारुणम् ।
प्रेक्षमाणास्तदाऽन्योन्यमाधावन्नगरं प्रति ॥
तस्मिंस्तथा वर्तमाने विद्रवे भृशदारुणे ।
युयुत्सुः शोकसम्मूढः प्राप्तकालमचिन्तयत् ॥
जितो दुर्योधनः सङ्ख्ये पाण्डवैर्भीमविक्रमैः ।
एकादशचमूभर्ता भ्रातरश्चास्य सूदिताः ॥
हताश्च कुरवः सर्वे भीष्मद्रोणपुरः सराः ।
अहमेको विमुक्तस्तु भाग्ययोगाद्यदृच्छया ॥
विद्रुतानि च सर्वाणि शिबिराद्वै समन्ततः ।
[इतस्ततः पलायन्ते हतनाथा हतौजसः ॥
अदृष्टपूर्वा दुःखार्ता भयव्याकुललोचनाः ।
हरिणा इव वित्रस्ता वीक्षमाणा दिशो दश] ॥
दुर्योधनस्य सचिवा ये केचिदवशेषिताः । राजदारानुपादाय प्रययुर्नगरं प्रति ।
प्राप्तकालमहं मन्ये प्रवेशं तैः सह प्रभो ॥
युधिष्ठिरमनुज्ञाय वासूदेवं तथैव च ।
एतमर्थं महाबाहुरुभयोः सन्न्यवेदयत् ॥
तस्य प्रीतोऽभवद्राजा नित्यं करुणवेदिता ।
परिष्वज्य महाबाहुर्वैश्यापुत्रं व्यसर्जयत् ॥
ततः स रथमास्थाय द्रुतमश्वानचोदयत् ।
संवाहयितवांश्चापि राजदारान्पुरं प्रति ॥
तैश्चैव सहितः क्षिप्रमस्तं गच्छति भास्करे ।
प्रविष्टो हास्तिनपुरं बाष्पकण्ठोऽश्रुलोचनः ॥
अपश्यत महाप्राज्ञं विदुरं साश्रुलोचनम् ।
राज्ञः समीपान्निष्क्रान्तं शोकोपहतचेतसम् ॥
तमब्रवीत्सत्यधृतिः प्रणतं त्वग्रतः स्थितम् ॥
विदुर उवाच ।
दिष्ट्या कुरुक्षये वृत्ते अस्मिंस्त्वं पुत्र जीवसि । विना राज्ञः पर्वेशार्द्वै किमसि त्वमिहागतः ।
एतद्वै कारणं सर्वं विस्तरेण निवेदय ॥
युयुत्सुरुवाच ।
निहते शकुनौ तत्र सज्ञातिसुतबान्धवे । हतशेषपरीवारो राजा दुर्योधनस्ततः ।
स्वकं स हयमुत्सृज्य प्राङ्मुखः प्राद्रवद्भयात् ॥
अपक्रान्ते तु नृपतौ स्कन्धावारनिवेशनात् ।
भयव्याकुलितं सर्वं प्राद्रावन्नगरं प्रति ॥
ततो राज्ञः कलत्राणि भ्रातॄणां चास्य सर्वतः ।
वाहनेषु समारोप्य अध्यक्षाः प्राद्रावन्भयात् ॥
ततोऽहं समनुज्ञाप्य राजानं सहकेशवम् ।
प्रविष्टो हास्तिनपुरं रक्षन्लोकस्य वाच्यताम् ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु वचनं वैश्यापुत्रेण भाषितम् । प्राप्तकालमिति ज्ञात्वा विदुरः सर्वधर्मवित् ।
अपूजयदमेयात्मा युयुत्सुं वाक्यमब्रवीत् ॥
प्राप्तकालमिदं सर्वं ब्रुवता भरतक्षये ।
[रक्षितः कुलधर्मश्च सानुक्रोशतया त्वया ॥
दिष्ठ्या त्वामिह सङ्ग्राम दस्माद्वीरक्षयात्पुरम् ।
समागतमपश्याम ह्यंशुमन्तमिव प्रजाः ॥
अन्धस्यं नृपतेर्यष्टिर्लुब्धस्यादीर्घदर्शिनः । बहुशो याच्यमानस्य दैवोपहतचेतसः ।
त्वमेको व्यसनार्तस्य ध्रियसे पुत्र सर्वथा] ॥
अद्य त्वमिह विश्रान्तः श्वोऽभिगन्ता युधिष्ठिरम् । एतावदुक्त्वा वचनं विदुरः साश्रुलोचनः ।
युयुत्सुं समनुज्ञाप्य प्रविवेश नृपक्षयम् ॥
[पौरजानपदैर्दुःखाद्धाहेति भृशनादितम् । निरानन्दं गतश्रीकं हृताराममिवाशयम् ।
शून्यरूपमपध्वस्तं दुःखाद्दुःखतरोऽभवत् ॥
विदुरः सर्वधर्मज्ञो विक्लवेनान्तरात्मना ।
विवेश नगरे राजन्निशश्वास शनैः शनैः ॥
युयुत्सुरपि तां रात्रिं स्वगृहे न्यवसत्तदा । वन्द्यमानः स्वकैश्चापि नाभ्यनन्दत्सुदुःखितः ।
चिन्तयानः क्षयं तीव्रं भरतानां परस्परम् ॥ ॥

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि अष्टादशदिवसयुद्धे एकोनत्रिंशोऽध्यायः ॥ 29 ॥

9-29-38 हतो दुर्योधन इति क.पाठः ॥ 9-29-39 अहमेकोऽवशिष्टस्तु इति क.पाठः ॥ 9-29-29 एकोनत्रिंशोऽध्यायः ॥

श्रीः