अध्यायः 011

मकुलेन युधिष्ठिरसमोषं प्रति द्रौपथानयनम् ॥ 1 ॥ द्रौपद्या द्रौणिमस्तकमणिहरणचोदितेन भीमेन नकुलसारथिना रथेन द्रौणिवभ्राय प्रस्थानम् ॥ 2 ॥

वैशम्पायन उवाच ।
स दृष्ट्वा निहतान्सङ्ख्ये पुत्रान्पात्रौन्सखींस्तथा ।
महादुःखपरीतात्मा बभूव जनमेजय ॥
ततस्तस्य महाञ्शोकः प्रादुरासीन्महात्मनः ।
स्मरतः पुत्रपौत्रांस्तान्भ्रातॄन्सुहृद एव च ॥
तमश्रुपरिपूर्णाक्षं वेपमानमचेतसम् ।
सुहृदो भृशसंविग्नाः सांत्वयाञ्चक्रिरे तदा ॥
`कृत्वा तु विधिवत्तेषां पुत्राणाममितौजसाम् ।
प्रेतकार्याणि सर्वेषां बभूव भृशदुःखितः' ॥
तस्मिन्मुहूर्ते जवनैर्वाजिभिर्हेममालिभिः ।
नकुलः कृष्णया सार्धमुपायात्परमार्तया ॥
उपप्लाव्यं गता सा तु श्रुत्वा सुमहदप्रियम् ।
तदा विनाशं सर्वेषां पुत्राणां व्यथितेन्द्रिया ॥
कम्पमानेव कदली वातेनाभिसमीरिता ।
कृष्णा राजानमासाद्य शोकार्ता न्यपतद्भुवि ॥
न बभौ वदनं तस्या रुदन्त्याः शोककर्शितम् ।
फुल्लपद्मपलाशाक्ष्या मेघावृत इवोडुराट् ॥
ततस्तां पतितां दृष्ट्वा संरम्भी सत्यविक्रमः ।
वाहुभ्यां परिजग्राह समुत्पत्य वृकोदरः ॥
सा समाश्वासिता तेन भीमसेनेन भामिनी ।
रुदती पाण्डवज्येष्ठमिदं वचनमब्रवीत् ॥
दिष्ट्या राजन्नवाप्येमामखिलां भोक्ष्यसे महीम् ।
आत्मजान्क्षत्रधर्मेण सम्प्रदाय यमाय वै ॥
दिष्ट्या सर्वास्त्रकुशलं मत्तमातङ्गामिनम् ।
अवाप्य पृथिवीं कृत्स्नां सौभद्रं न स्मरिष्यसि ॥
आत्मजान्क्षत्रधर्मेण श्रुत्वा शूरान्निपातितान् ।
स्थितो राज्ये मया सार्धं विहरन्न स्मरिष्यसि ॥
प्रसुप्तानां वधं श्रुत्वा द्रौणिना पापकर्मणा ।
शोको मां दहते गाढो हुताशन इवाश्रयम् ॥
तस्य पापकृतो द्रौणेर्न चेदद्य दुरात्मनः ।
हियते सानुबन्धस्य युधि विक्रम्य जीवितम् ॥
इहैव प्रायमासिष्ये तन्निबोधत पाण्डवाः ।
न चेत्फलमवाप्नोति द्रौणिः पापस्य कर्मणः ॥
एवमक्त्वा ततः कृष्णा पाण्डवं प्रत्युपाविशत् ।
युधिष्ठिरं याज्ञसेनी धर्मराजं यशस्विनी ॥
दृष्ट्वोपविष्टां राजा तु पाण्डवो महिषीं प्रियाम् ।
प्रत्युवाच स धर्मात्मा द्रौपदीं चारुदर्शनाम् ॥
क्षत्रधर्मेण धर्मज्ञे प्राप्तास्ते निधनं शुभे ।
पुत्रास्ते भ्रातरश्चैव तान्न शोचितुमर्हसि ॥
स कल्याणि वनं दुर्गं दूरं द्रौणिरितो गतः ।
तस्य त्वं पातनं सङ्ख्ये कथं ज्ञास्यसि शोभने ॥
द्रौपद्युवाच ।
द्रोणपुत्रस्य सहजो मणिः शिरसि मे श्रुतः । निहत्य सङ्ख्ये तं पापं पश्येयं मणिमाहृतम् ।
द्रौणेः शिरस उत्कृत्य जीवेयमिति मे मतिः ॥
इत्युक्त्वा पाण्डवं कृष्णा राजानं चारुदर्शना ।
भीमसेनकरे स्पृष्ट्वा कुपिता वाक्यमब्रवीत् ॥
त्रातुमर्हसि मां भीम क्षत्रधर्ममनुस्मरन् ।
जहि तं पापकर्माणं शम्बरं सघवानिव ॥
न हि ते विक्रमे तुल्यः पुमानस्तीह कश्चन ।
श्रुतं तत्सर्वलोकेषु परमव्यसने तथा ॥
द्वीपोऽभूस्त्वं हि पार्थानां नगरे वारणावते ।
हिडिम्बदर्शने चैव तथां त्वमभवो गतिः ॥
तथा विराटनगरे कीचकेन भृशार्दिताम् ।
मामप्युद्वृतवान्कृच्छ्रात्पौलोमीं मघवानिव ॥
यथैतान्यकृथाः पार्थ महाकर्माणि वै पुरा ।
तथा द्रौणिममित्रघ्न विनिहत्य सुखी भव ॥
वैशम्पायन उवाच ।
तस्या बहुविधं दुःखं निशम्य परिदेवितम् ।
न चामर्षत कौन्तेयो भीमसेनो महाबलः ॥
स काञ्चनविचित्राङ्गमारुरोह महारथम् ।
आदाय रुचिरं चित्रं समार्गणगुणं धनुः ॥
नकुलं सारथिं कृत्वा द्रोणपुत्रवधे धृतः ।
विस्फार्य सशरं चापं तूर्णमश्वानचोदयत् ॥
ते हयाः पुरुषव्याघ्र दीप्यमानाः स्वतेजसा ।
वहन्तः सहसा जग्मुर्हरयः शीघ्रगामिनः ॥
शिबिरात्स्वाद्गृहीत्वा स रथस्य पदमच्युतः ।
`द्रोणपुत्रगतेनाशु ययौ मार्गेण भारत' ॥ ॥

इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि एकादशोऽध्यायः ॥ 11 ॥

10-11-11 दिष्ठ्येति । पुत्रनाशापेक्षया राज्यप्राप्तिसुखं तव महदित्यधिक्षेपः ॥ 10-11-11 एकादशोऽध्यायः ॥

श्रीः