अध्यायः 016
कृष्णेन स्ववचनोल्लङ्घनेनास्त्रप्रयोक्तुरश्वत्थाम्नः शापदानां
व्यासेन तदनुमोदनं च ॥ 1 ॥ भीमेन द्रौणिमस्तकमणिदा नेन द्रौपदीसमाश्वासनम् ॥ 2 ॥ युधिष्ठिरेण द्रौपदीवचनात्स्वमस्तके तन्मणिधारणम् ॥ 3 ॥
तदाज्ञाय हृषीकेशो विकृष्टं पापकर्मणा ।
हृष्यमाण इदं वाक्यं द्रौणिं प्रत्यब्रवीत्तदा ॥
विराटस्य सुतां पूर्वं स्नुषां गाण्डीवधन्वनः ।
उपप्लाव्यगतां दृष्ट्वा ऋतवाग्ब्रह्मणोऽब्रवीत् ॥
परिक्षीणेषु कुरुषु पुत्रस्तव भविष्यति ।
एतदस्य परिक्षित्त्वं गर्भस्थस्य भविष्यति ॥
तस्य तद्वचनं साधोः सत्यमेद्भविष्यति ।
परिक्षिद्भविता ह्येषां पुनर्वंशकरः सुतः ॥
त्वां तु कापुरुषं पापं विंदुः सर्वे मनीषिणः ।
असकृत्पापकर्माणं बालजीवितघातकम् ॥
तस्मात्त्वमस्य पापस्य कर्मणः फलमाप्नुहि ।
त्रीणि वर्षसहस्राणि चरिष्यसि महीमिमाम् ॥
अप्राप्नुवन्क्वचित्काञ्चित्संविदं जातु केनचित् ।
निर्जनानसहायस्त्वं देशान्प्रविचरिष्यसि ॥
भवित्री न हि ते क्षुद्र जनमध्येषु संस्थितिः ।
पूयशोणिगन्धी च दुर्गकान्तारसंश्रयः ।
विचरिष्यसि पापात्मंश्चिरमेको वसुन्धराम् ॥
वयः प्राप्य परिक्षित्तुं देवव्रतमवाप्य च ।
कृपाच्छारद्वताच्छूरः सर्वास्त्राण्युपपत्स्यते ॥
विदित्वा परमास्त्राणि क्षत्रधर्मव्रते स्थितः ।
षष्टिं वर्षामि धर्मात्मा वसुधां पालयिष्यति ॥
इतश्चोर्ध्वं महाबाहुः कुरुराजो भविष्यति ।
परिक्षिन्नाम नृपतिर्मिषतस्ते सुदुर्मते ॥
[अहं तं जीवयिष्यामि दग्धं शस्त्राग्नितेजसा] ।
पश्य मे तपसो वीर्यं सत्यस्य च नराधम ॥
व्यास उवाच ।
यस्मादनादृत्य कृतं त्वयाऽस्मान्कर्म दारुणम् ।
ब्राह्मणस्य सतश्चेदं वृत्तमन्यायवर्तिनः ॥
तस्माद्यद्देवकीपुत्र उक्वानुत्तमं वचः ।
आलोकात्तव तद्भावि क्षुद्रकर्मन्व्रजेति ह ॥
अश्वत्थामोवाच ।
सहैव भवता ब्रह्मन्स्थास्यामि पुरुषेष्विह ।
सत्यवागस्तु भगवानयं च पुरुषोत्तमः ॥
वैशम्पायन उवाच ।
प्रदायाथ मणिं द्रौणिः पाण्डवानां महात्मनाम् ।
जगाम विमनास्तेषां सर्वेषां पश्यतां वनम् ॥
पाण्डवाश्च सदाशार्हास्तानृषीनभिवाद्य च ।
कृष्णद्वैपायनं चैव नारदं चैव पर्वतम् ॥
द्रोणपुत्रस्य सहजं मणिमादाय सत्वराः ।
द्रौपदीमभ्यधावन्त प्रायोपेतां मनस्विनीम् ॥
वैशम्पयन उवाच ।
ततस्ते पुरुषव्याघ्राः सदश्वैरनिलोपमैः ।
अभ्ययुः सहदाशार्हाः शिबिरं पुनरेव हि ॥
अवतीर्य रथेभ्यस्तु त्वरमाणा महारथाः ।
ददृशुर्द्रौपदीं हृष्टामार्तामार्ततराः स्वयम् ॥
तामुपेत्य निरानन्दां दुःखशोकसमन्विताम् ।
परिवार्य व्यतिष्ठन्त पाण्डवाः सहकेशवाः ॥
ततो राज्ञाऽभ्यनुज्ञातो भीमसेनो महाबलः ।
प्रददौ तं मणिं दिव्यं वचनं चेदमब्रवीत् ॥
अयं भद्रे तव मणिः पुत्रहन्ता जितश्च ते ।
उत्तिष्ठ शोकमुत्सृज्य क्षात्रधर्ममनुस्मर ॥
प्रयाणे वासुदेवस्य शमार्थवसितेक्षणे ।
यान्युक्तानि त्वया भीरु वाक्यानि मधुघातिनि ॥
नैव मे पतयः सन्ति न पुत्रा भ्रातरो न च ।
न वै त्वमिति गोविन्द शममिच्छति राजनि ॥
उक्तवत्यसि तीव्राणि वाक्यानि पुरुषोत्तमम् ।
क्षत्रधर्मानुरूपाणि तानि संस्मर्तुमर्हसि ॥
हतो दुर्योधनः पापो राज्यस्य परिपन्थिकः ।
दुःशासनस्य रुधिरं पीतं विस्फुरतो मया ॥
वैरस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ।
जित्वा मुक्तो द्रोणपुत्रो ब्राह्मण्याद्गौरवेण च ॥
यशोऽस्य पतितं देवि शरीरं त्ववशेषितम् ।
वियोजितश्च मणिना भ्रंशितश्चायुधं भुवि ॥
द्रौपद्युवाच ।
केवलानृण्यमाप्ताऽस्मि गुरुपुत्रो गुरुर्मम ।
शिरस्येतं मणिं राजा ग्रहीतुमनघोऽर्हति ॥
तं गृहीत्वा ततो राजा शिरस्येवाकरोत्तदा ।
गुरोरुच्छेषमित्येव द्रौपद्या वचनादपि ॥
ततो दिव्यं मणिवरं शिरसा धारयन्प्रभुः ।
शुशुभे स तदा राजा सचन्द्र इव पर्वतः ॥
उत्तस्थौ पुत्रशोकार्ता ततः कृष्णा मनस्विनी ।
कृष्णं चापि महाबाहुः परिपप्रच्छ धर्मराट् ॥ ॥
इति श्रीमन्महाभारते सौप्तिकपर्वणि ऐषीकपर्वणि षोडशोऽध्यायः ॥ 16 ॥
10-16-7 संविदं संलापम् ॥ 10-16-18 प्रायोपेतां मरणार्थं यो
नियमस्तेनोपेताम् ॥ 10-16-20 हृष्टामश्वत्थाम्नः पराभवेन । आर्तां पुत्रादेः
शोकेन ॥ 10-16-24 मधुघातिनि मधुदैत्यहन्तरी ॥ 10-16-28 विवक्षतां वक्तुमिच्छतां
वाच्याः निन्द्याः नैव स्म ॥ 10-16-16 षोडशोऽध्यायः ॥
श्रीः