अध्यायः 002
विदुरेण शास्त्रार्थकथनेन धृतराष्ट्रस्य शोकापनोदनम् ॥ 1 ॥
ततोऽमृतरसैर्वाक्यैर्ह्लादयन्पुरुषर्षभम् ।
वैचित्रवीर्यं विदुरो यदुवाच निबोध तत् ॥
विदुर उवाच ।
उत्तिष्ठ राजन्किं शेषे धारयात्मानमात्मना ।
एषा वै सर्वसत्वानां लोकेश्वर परा गतिः ॥
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥
यदा शूरं च भीरुं च यमः कर्षति भारत ।
तत्किं न योत्स्यन्ति हि ते क्षत्रियाः क्षत्रियर्षभ ॥
अयुध्यमानो म्रियते युध्यमानश्च जीवति ।
कालं प्राप्य महाराज न कश्चिदतिवर्तते ॥
अभावादीनि भूतानि भावमध्यानि भारत ।
अभावनिधनान्येव तत्र का परिदेवना ॥
न शोचन्मृतमन्वेति न शोचन्म्रियते नरः ।
एवं सांसिद्धिके लोके किमर्थमनुशोचसि ॥
कालः कर्षति भूतानि सर्वाणि विविधान्युत ।
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ॥
यथा वायुस्तृणाग्राणि संवर्तयति सर्वशः ।
तथा कालवशं यान्ति भूतानि भरतर्षभ ॥
एकसार्थप्रयातानां सर्वेषां तत्र गामिनाम् ।
यस्य कालः स यात्यग्रे तत्र का परिदेवना ॥
न चाप्येतान्हतान्युद्धे राजञ्शोचितुमर्हसि ।
प्रमाणं यदि शास्त्राणि गतास्ते परमां गतिम् ॥
सर्वे स्वाध्यायवन्तो हि सर्वे च चरितव्रताः ।
सर्वे चाभिमुखाः क्षीणास्तत्र का परिदेवना ॥
अदर्शनादापतिताः पुनश्चादर्शनं गताः ।
नैते तव न तेषां त्वं तत्र का परिदेवना ॥
हतो हि लभते स्वर्गं जित्वा च लभते यशः ।
उभयं नो बहुगुणं नास्ति निष्फलता रणे ॥
तेषां कामदुघाँल्लोकानिन्द्रः सङ्कल्पयिष्यति ।
इन्द्रस्यातिथयो ह्येते भवन्ति भरतर्षभ ॥
न यज्ञैर्दक्षिणावद्भिर्न तपोभिर्न विद्यया ।
स्वर्गं यान्ति तथा मर्त्या यथा शूरा रणे हताः ॥
शरीराग्निषु शूराणां जुहुवुस्ते शराहुतीः ।
हूयमानाञ्शरांश्चैव सेहुस्तेजस्विनो मिथः ॥
एवं राजंस्तवाचक्षे स्वर्ग्यं पन्थानमुत्तमम् ।
न युद्धादधिकं किञ्चित्क्षत्रियस्येह विद्यते ॥
क्षत्रियास्ते महात्मानः शूराः समितिशोभनाः ।
आशिषः परमाः प्राप्ता न शोच्याः सर्व एव हि ॥
आत्मानमात्मनाऽऽश्वास्य मा शुचः पुरुषर्षभ ।
नाद्य शोकाभिभूतस्त्वं कायमुत्स्रष्टुमर्हसि ॥
मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम् ॥
शोकस्थानसहसाणि भयस्थानशतानि च ।
दिवसेदिवसे मूढमाविशन्ति न पण़्डितम् ॥
न कालस्य प्रियः कश्चिन्न द्वेष्यः कुरुसत्तम ।
न मध्यस्थः क्वचित्कालः सर्वं कालः प्रकर्षति ॥
कालः पचति भूतानि कालः संहरते प्रजाः ।
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥
अनित्यं यौवनं रूपं जीवितं द्रव्यसञ्चयः ।
आरोग्यं प्रियसंवासो गृद्ध्येदेषु न पण्डितः ॥
न जानपदिकं दुःखमेकः शोचितुमर्हसि ।
अप्यभावेन युज्येत तच्चास्य न निवर्तते ॥
अशोचन्प्रतिकुर्वीत यदि पश्येत्पराक्रमम् ।
भैषज्यमेतद्दुःखस्य यदेतन्नानुचिन्तयेत् ॥
चिन्त्यमानं हि न व्येति भूयश्चापि प्रवर्धते ॥
अनिष्टसम्प्रयोगाच्च विप्रयोगात्प्रियस्य च ।
मानुषा मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥
नार्थो न धर्मो न सुखं यदेतदनुशोचति ।
तच्च नाप्नोति कार्यार्थं त्रिवर्गाच्चैव भ्रश्यते ॥
अन्योन्यबाधनावस्थां प्राप्य वैषयिकीं नराः ।
असन्तुष्टाः प्रमुह्यन्ति सन्तोषं यान्ति पण्डिताः ॥
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः ।
एतद्विज्ञानसामर्थ्यं न बालैः समतामियात् ॥
शयानं चानुशेते हि तिष्ठन्तं चानुतिष्ठति ।
अनुधावति धावन्तं कर्म पूर्वकृतं नरम् ॥
यस्यांयस्यामवस्थायां यत्करोति शुभाशुभम् ।
तस्यांतस्यामवस्थायां तत्तत्फलमवाप्नुते ॥
[येनयेन शरीरेण यद्यत्कर्म करोति यः ।
तेनतेन शरीरेण तत्फलं समुपाश्नुते ॥
आत्मैव ह्यात्मनः साक्षी कृतस्यापकृतस्य च ॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा ।
कृतं भवति सर्वत्र नाकृतं विद्यते क्वचित् ॥
न हि ज्ञानविरुद्धेषु बह्वपायेषु कर्मसु ।
मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विघाः ॥] ॥
इति श्रीमन्महाभारते स्त्रीपर्वणि जलप्रदानिकपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥
11-2-2 एषा मरणान्ता । अत उत्तिष्ठ शोकं त्यज ॥ 11-2-6
अभावादीनि दुःखानि दुःखमध्यानि भारतेति छ.पाठः ॥ 11-2-8 सांसिद्धिके
स्वभावसिद्धे ॥ 11-2-9 संवर्तयति स्ववशं नयति ॥ 11-2-10 तत्र गामिनां परत्र
गमनशीलानां यस्य काल उपस्थितः सोऽग्रे प्रयाति ॥ 11-2-13 अदर्शनादज्ञानात् ॥ 11-2-14 नोऽस्माकं क्षत्रियाणाम् ॥ 11-2-18 आचक्षे कथयामि ॥ 11-2-26 अतपदिकं
सर्वसाधारणम् । अभावेन मरणेन । तच्च दुःखं च ॥ 11-2-30 नच नापैति
कार्यार्थात्त्रिवर्गाच्चैव हीयते इति झ.पाठः । तत्र
कार्यार्थान्नापैतीतिनापित्वपैत्येवेत्यर्थः ॥ 11-2-31 अन्यामन्यां पनावस्थां
प्राप्य वैशेषिकीं नराः । इति झ.पाठः ॥ 11-2-34 अवस्थायां यौवनादिरूपायाम् ॥ 11-2-35 येनेति । स्थूलेन देहेन कृते तत्तेनैव भुज्यते । मनःकृत्तं चेत्तेनैव
भुज्यते स्वप्नादौ ॥ 11-2-2 द्वितीयोऽध्यायः ॥
श्रीः