अध्यायः 100
भीष्मेण युधिष्ठिरंप्रति युद्धकरणप्रकारादिकथनम् ॥ 1 ॥
यथा जयार्थिनः सेनां नयन्ति भरतर्षभ ।
ईषद्धर्मं प्रपीड्यापि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
सन्त्येव हि स्थिता धर्म उपपत्त्या तथा परे ।
साध्वाचारतया केचित्तथैवौपयिकादपि ॥
उपायधर्मान्वक्ष्यामि संसिद्धानर्थसिद्धये ।
निर्मर्यादा दस्यवस्तु भवन्ति परिपन्थिनः ॥
तेषां प्रतिविघातार्थं प्रवक्ष्याम्यथ नैगमम् ।
कार्याणां संप्रसिद्ध्यर्थं तानुपायान्निबोध मे ॥
उभे प्रज्ञे वेदितव्ये ऋज्वी वक्रा च भारत ।
जानन्वक्रां न सेवेत प्रतिबाधेत चागताम् ॥
अमित्रा एव राजानं भेदेनोपचरन्त्युत ।
तां राजा विकृतिं जानन्यथाऽमित्रान्प्रबाधते ॥
गजानां पार्थ वर्माणि गोवृषाजगराणि च ।
शल्यकण्टकलोहानि तनुत्राणि मतानि च ॥
शातपीतानि शस्त्राणि सन्नाहाः पीतलोहकाः ।
नानारञ्जनरक्ताः स्युः पताकाः केतवश्च ह ॥
ऋष्टयस्तोमराः खङ्गा निशिताश्च परश्वथाः ।
फलकान्यथ चर्माणि प्रतिकल्प्यान्यनेकशः ॥
अभिनीतानि शस्त्राणि योधाश्च कृतनिश्चयाः ।
चैत्रे वा मार्गशीर्षे वा सेनायोगः प्रशस्यते ॥
पक्वसस्या हि पृथिवी भवत्यम्बुमती तदा ।
नैवातिशीतो नात्युष्णः कालो भवति भारत ॥
तस्मात्तदा योजयेत परेषां व्यसनेऽथवा ।
एते हि योगाः सेनायाः प्रशस्ताः परबाधने ॥
जलवांस्तृणवान्मार्गः समो गम्यः प्रशस्यते ।
चारैः सुविदिताभ्यासः कुशलैर्वनगोचरैः ॥
न ह्यरण्यानि शक्यन्ते गन्तुं मृगगणैरिव ।
तस्मात्सेनासु तानेव योजयन्ति जयार्थिनः ॥
[अग्रतः पुरुषानीकं शक्तं चापि कुलोद्भवम् ।]
आवासस्तोयवान्मार्गः पर्याकाशः प्रशस्यते ॥
पोषामपसर्पाणां प्रतिघातस्तथा भवेत् ।
आकाशं हि वनाभ्याशे मन्यन्ते गुणवत्तरम् ॥
बहुभिर्गुणजातैश्च ये युद्धकुशला जनाः ।
[उपन्यासो भवेत्तत्र बलानां नातिदूरतः ॥]
उपन्यासोऽपसर्पाणां पदातीनां च गूहनम् ।
हतशत्रुप्रतीघातमापदर्थं परायणम् ॥
सप्तर्पीन्पृष्ठतः कृत्वा युध्येयुरचला इव ।
अनेन विधिना शत्रूञ्जिगीषेतापि दुर्जयान् ॥
यतो वायुर्यतः सूर्यो यतः सोमस्ततो जयः ।
पूर्वंपूर्वं ज्याय एषां सन्निपाते युधिष्ठिर ॥
अकर्द -मनुदकाममर्यादामलोष्टकाम् ।
अश्वभूमिं प्रशंसन्ति ये युद्धकुशला जनाः ॥
समा निरुदकाकाशा रथभूमिः प्रशस्यते ।
नीचद्रुमा महाकक्षा सोदका हस्तियोधिनाम् ॥
बहुदुर्गा महाकक्षा वेणुवेत्रतिरस्कृता ।
पदातीनां क्षमा भूमिः पर्वतोपवनानि च ॥
पदातिबहुला सेना दृढा भवति भारत ।
रथाश्वबहुला सेना सुदिनेषु प्रशस्यते ॥
पदातिनागबहुला प्रावृट््काले प्रशस्यते ।
गुणानेतान्प्रसंख्याय देशकालौ प्रयोजयेत् ॥
एवं संचिन्त्य यो याति तिथिनक्षत्रपूजितः ।
विजयं लभते नित्यं सेनां सम्यक्प्रयोजयन् ॥
प्रसुप्तांस्तृषिताञ्श्रान्तान्प्रकीर्णान्नाभिघातयेत् ।
मोक्षे प्रयाणे चलने पानभोजनकालयोः ।
अतिक्षिप्तान्व्यतिक्षिप्तान्निहतान्प्रतनूकृतान् ॥
अविस्रब्धान्कृतारम्भानुपन्यासात्प्रतापितान् ।
बहिश्वरानुपन्यासान्कृतवेश्मानुसारिणः ॥
पारम्पर्यागते द्वारे ये केचिदनुवर्तिनः ।
परिचर्यापरोद्धारो ये च केचन वल्गिनः ॥
अनीकं ये विभिदन्ति भिन्नं संस्थापयन्ति च ।
समानाशनपानास्ते कार्या द्विगुणवेतनाः ॥
`जातिगोत्रं च विज्ञाय कर्म चानुत्तमं शुभम् ।
समानदेहरक्षार्थे कार्या द्विगुणवेतनाः ।
त्रिगुणं चतुर्गुणं चैव वेतनं तेषु कारयेत् ॥'
दशाधिपतयः कार्याः शताधिपतयस्तथा ।
ततः सहस्राधिपतिं कुर्याच्छूरमतन्द्रितम् ॥
यथा मुख्यान्सन्निपात्य वक्तव्याः संशयामहे ।
यथा जयार्थं संग्रामे न जह्याम परस्परम् ॥
इहैव ते निवर्तन्तां ये च केचन भीरवः ।
न घातयेयुः प्रदरं कुर्वाणास्तुमुले सति ॥
[न सन्निपाते प्रदरं वधं वा कुर्युरीदृशाः ॥]
आत्मानं च स्वपक्षं च पालयन्हन्ति संयुगे ॥
अर्थनाशो वधोऽकीर्तिरयशश्च पलायने ।
अमनोज्ञाऽसुखा वाचः पुरुषस्य पलायतः ॥
प्रतिध्वस्तोष्ठदन्तस्य न्यस्तसर्वायुधस्य च ।
`हित्वा पलायमानस्य सहायान्प्राणसंशये ।'
अमित्रैरवरुद्धस्य द्विषतामस्तु नः सदा ॥
मनुष्यापसदा ह्येते ये भवन्ति पराङ्भुखाः ।
राशिवर्धनमात्रास्ते नैव ते प्रेत्य नो इह ॥
अमित्रा हृष्टमनसः प्रत्युद्यान्ति पलायिनम् ।
जयिनस्तु नरास्तात मङ्गलैर्वन्दनेन च ॥
यस्य स्म व्यसने राजन्ननुमोदन्ति शत्रवः ।
तदसह्यतरं दुःखं मन्यन्ते मरणादपि ॥
श्रियं जानीत धर्मस्य मूलं सर्वसुखस्य च ।
या भीरूणां पराख्यातिः शूरस्तामधिगच्छति ॥
ते वयं स्वर्गमिच्छन्तः संग्रामे त्यक्तजीविताः ।
जयन्तो वध्यमाना वा प्राप्नुयाम च सद्गतिम् ॥
एवं संशप्तशपथाः समभित्यक्तजीविताः ।
अमित्रवाहिनीं वीराः प्रतिगाहन्त्यभीरवः ॥
अग्रतः पुरुषाऽनीकमसिचर्मवतां भवेत् ।
पृष्ठतः शकटानीकं कलत्रं मध्यतस्तथा ॥
परेषां प्रतिघातार्थं पदातीनां च गूहनम् ।
अपि तस्मिन्पुरे वृद्धा भवेयुर्ये पुरोगमाः ॥
ये पुरस्तादभिमताः सत्ववन्तो मनस्विनः ।
ते पूर्वमभिवर्तेरंश्चैतानेवेतरे जनाः ॥
अपि चोद्धर्षणं कार्यं भीरूणामपि यत्नतः ।
स्कन्धदर्शनमात्रात्तु तिष्ठेयुर्वा समीपतः ॥
संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ।
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥
संप्रयुक्ते निकृष्टे वा सत्यं वा यदि वाऽनृतम् ।
प्रगृह्य बाहून्क्रोशेत हन्त भग्नाः परे इति ॥
आगतं मे मित्रबलं प्रहरध्वमभीतवत् ।
सत्ववन्तो निधावेयुः कुर्वन्तो भैरवान्रवान् ॥
क्ष्वेडाः किलकिलाशब्दाः क्रकचा गोविषाणिकाः ।
भेरीमृदङ्गपणवान्नादयेयुश्च जर्झरान् ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि शततमोऽध्यायः ॥ 100 ॥
12-100-4 नैगमं वेदोक्तमुपायम् ॥ 12-100-5 वक्रां वक्रयैव
नाशयेत् ॥ 12-100-6 अमित्रानिव तां निकृतिं प्रबाधते बाधेत ॥ 12-100-7 गजानां
वर्माणि वाणघातत्राणानि । गवादीनां शल्यादीनि ॥ 12-100-21 अमर्यादां
सेतुप्राकारादिहीनाम् ॥ 12-100-24 सुदिनेषु वृष्टिवर्जितदिनेषु ॥ 12-100-25
प्रसंख्याय सम्यग्विचार्य ॥ 12-100-26 तिथौ नक्षत्रे च पूजित आशीर्भिर्योजितः ॥ 12-100-28 उपन्यासात्सुरुङ्गादिगुप्तोपायात् । बहिस्तृणाद्यर्थं चरतो
बहिश्चरानल्पान् । उपन्यासान् तृणाह्याहर्तॄन् ॥ 12-100-29 तान्नाभिघातयेदिति
प्रपूर्वेण संबन्धः ॥ 12-100-30 अनीकं परकीयम् ॥ 12-100-33
सन्निपात्यैकीकृत्य ॥ 12-100-35 प्रदरं भङ्गम् । वधं वा स्वीयानाम् ॥ 12-100-37
नोऽस्मत्संबन्धिनां द्विषतां पुरुषस्य द्रव्यनाशादिकमस्त्विति पूर्वेण सह
द्वयोः संबन्धः ॥ 12-100-38 राशिर्योधसंख्याशरीरं वा तस्य वर्धनाः । वृथाजन्मान
इत्यर्थः ॥ 12-100-39 पलायिनं जयिनः प्रत्युद्यान्ति
यत्तदसह्यतरमित्यपकृष्यते ॥ 12-100-44 पुरुषा पुरुषाणाम् । विभक्तिलोप आर्षः ॥ 12-100-47 स्कन्धः समूहः । समूहमात्रार्थं वा तिष्ठेयुः ॥ 12-100-48
संहतानन्योन्यं श्लिष्टान् स्वान्परैः सह योधयेत्सेनापतिः ॥