अध्यायः 198
भीष्मेण युधिष्ठिरंप्रति जपस्य फलकथनपूर्वकं
जापकोपाख्यानसमापनम् ॥ 1 ॥
किमुत्तरं तदा तौ स्म चक्रतुस्तस्य भाषिते ।
ब्राह्मणो वाऽथवा राजा तन्मे ब्रूहि पितामह ॥
अथवा तौ गतौ तत्र यदेतत्कीर्तितं त्वया ।
संवादो वा तयोः कोऽभूत्किं वा तौ तत्र चक्रतुः ॥
भीष्म उवाच ।
तथेत्येवं प्रतिश्रुत्य धर्मं संपूज्य जापकः ।
यमं कालं च मृत्युं च स्वर्गं संपूज्य चार्हतः ॥
पूर्वं ये चापरे तत्र समेता ब्राह्मणर्षभाः ।
सर्वान्संपूज्य शिरसा राजानं सोऽब्रवीद्द्विजः ॥
फलेनानेन संयुक्तो राजर्षे गच्छ मुख्यताम् ।
भवता चाभ्यनुज्ञातो जपेयं भूय एव ह ॥
वरश्च मम पूर्वं हि दत्तो देव्या महाबल ।
श्रद्धा ते जपतो नित्यं भवत्विति विशांपते ॥
राजोवाच ।
यद्येवं सफला सिद्धिः श्रद्धा च जपितुं तव ।
गच्छ विप्र मया सार्धं जापकं फलमाप्नुहि ॥
ब्राह्मण उवाच ।
कृतः प्रयत्नः सुमहान्सर्वेषां सन्निधाविह ।
सह तुल्यफलावावां गच्छावो यत्र नौ गतिः ॥
भीष्म उवाच ।
व्यवसायं तयोस्तत्र विदित्वा त्रिदशेश्वरः ।
सह देवैरुपययौ लोकपालैस्तथैव च ॥
साध्याश्च विश्वे मरुतो वाक्यानि सुमहान्ति च ।
नद्यः शैलाः समुद्राश्च तीर्थानि विविधानि च ॥
तपांसि संयोगविधिर्वेदास्तोभाः सरस्वती ।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥
गन्धर्वश्चित्रसेनश्च परिवारगणैर्युतः ।
नागाः सिद्धाश्च मुनयो देवदेवः प्रजापतिः ॥
`आजगाम च देवेशो ब्रह्मा वेदमयोऽव्ययः ।'
विष्णुः सहस्रशीर्षश्च देवोऽचिन्त्यः समागमत् ।
अवाद्यन्तान्तरिक्षे च भेर्यस्तूर्याणि वा विभो ॥
पुष्पवर्षाणि दिव्यानि तत्र तेषां महात्मनाम् ।
ननृतुश्चाप्सरः सङ्घास्तत्रतत्र समन्ततः ॥
अथ स्वर्गस्तथा रूपी ब्राह्मणं वाक्यमब्रवीत् ।
संसिद्धस्त्वं महाभाग त्वं च सिद्धस्तथा नृप ॥
भीष्म उवाच ।
अथ तौ सहितौ राजन्नन्योन्यस्य विधानतः ।
विषयप्रतिसंहारमुभावेव प्रचक्रतुः ॥
प्राणापानौ तथोदानं समानं व्यानमेव च ।
एवं तौ मनसि स्थाप्य दधतुः प्राणयोर्मनः ॥
उपस्थितकृतौ तौ च नासिकाग्रमधो भ्रुवोः ।
भ्रुकुट्याक्ष्णोश्च मनसा शनैर्धारयतस्तदा ॥
निश्चेष्टाभ्यां शरीराभ्यां स्थिरदृष्टी समाहितौ ।
जितासनौ समाधाय र्मूर्धन्यात्मानमेव च ॥
तालुदेशमथोद्दाल्य ब्राह्मणस्य महात्मनः ।
ज्योतिर्ज्वाला सुमहती जगाम त्रिदिवं तदा ॥
हाहाकारस्तथा दिक्षु सर्वासु सुमहानभूत् ।
तज्ज्योतिः स्तूयमानं स्म ब्रह्माणं प्राविशत्तदा ॥
ततः स्वागतमित्याह तत्तेजः प्रपितामहः ।
प्रादेशमात्रं पुरुषं प्रत्युद्गम्य विशांपते ॥
भूयश्चैवापरं प्राह वचनं मधुरं स्मयन् ।
जापकैस्तुल्यफलता योगानां नात्र संशयः ॥
योगस्य तावदेतेभ्यः प्रत्यक्षं फलदर्शनम् ।
जापकानां विशिष्टं तु प्रत्युत्थानं समाहितम् ॥
उष्यतां मयि चेत्युक्त्वा व्याददे स ततो मुखम् ।
अथास्यं प्रविवेशास्य ब्राह्मणो विगतज्वरः ॥
राजाऽप्येतेन विधिना भगवन्तं पितामहम् ।
यथैव द्विजशार्दूलस्तथैव प्राविशत्तदा ॥
स्वयंभुवमथो देवा अभिवाद्य ततोऽब्रुवन् ॥
जापकार्थमयं यत्नो यदर्थं वयमागताः ।
कृतपूजाविमौ तुल्यौ त्वया तुल्यफलान्वितौ ॥
योगजापकयोस्तुल्यं फलं सुमहदद्य वै ।
सर्वांल्लोकानतिक्रम्य गच्छेतां यत्र वाञ्छितम् ॥
ब्रह्मोवाच ।
महास्मृतिं पठेद्यस्तु तथैवानुस्मृतिं शुभाम् ।
तावप्येतेन विधिना गच्छेतां मत्सलोकताम् ॥
यश्च योगे भवेद्भक्तः सोऽपि नास्त्यत्र संशयः ।
विधिनानेन देहान्ते मम लोकानवाप्नुयात् ।
साधये गम्यतां चैव यथा स्थानानि सिद्धये ॥
भीष्म उवाच ।
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत ।
आमन्त्र्य च ततो देवा ययुः स्वंस्वं निवेशनम् ॥
ते च सर्वे महात्मानो धर्मं सत्कृत्य तत्र वै ।
पृष्ठतोऽनुययू राजन्सर्वे सुप्रीतचेतसः ॥
एतत्फलं जापकानां गतिश्चैषा प्रकीर्तिता ।
यथाश्रुतं महाराज किं भूयः श्रोतुमिच्छसि ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टनवत्यधिकशततमोऽध्यायः ॥ 198 ॥
12-198-1 तौ इक्ष्वाकुपैप्पलादी । तस्य विरूपस्य भाषिते वचने
विषये ॥ 12-198-3 अर्हतः पूज्यान् ॥ 12-198-9 व्यवसायं निश्चयम् ॥ 12-198-11
स्तोभाः सामगीतिपूरणार्थनि अक्षराणि हायि हावु इत्यादीनि ॥ 12-198-18
नेत्राग्रैश्चैव मनसेति ट. पाठः ॥ 12-198-20 तालुदेशं ब्रह्मरन्ध्रम् ॥ 12-198-23 योगानां योगिनाम् ॥ 12-198-24 एतेभ्य एतेषां सभ्यानाम् । समाहितं
विहितम् ॥ 12-198-30 संहिताध्यायिनां फलमुक्त्वा षडङ्गाध्यायिनां
मन्वादिस्मृत्यध्यायिनां च फलमाह महास्मृतिमिति ॥