अध्यायः 104

कृष्णेन युधिष्ठिरंप्रति पञ्चमहायज्ञनिरूपणं, स्नानविधिनिरूपणं, वैष्णवलक्षणाभिधानं स्वपूजायोग्ययोग्यपुष्पविवेचनं च ॥ 1 ॥

युधिष्ठिर उवाच ।

विप्रयोगे शरीरस्य सेन्द्रियस्य विशेषतः ।
अन्तरा वर्तमानस्य गतिः प्राणस्य कीदृशी ॥
भगवानुवाच ।
शुभाशुभकृतं सर्वं प्राप्नोतीह फलं नरः ।
न तु सर्वस्य भूतस्य पञ्चत्वं विद्यते नृप ॥
पञ्चत्वं पाण्डवश्रेष्ठ भूरिभूतिकरं नृणाम् ।
तेषां पञ्च महायज्ञान्ये कुर्वन्ति द्विजोत्तम ॥
पञ्चत्वं पञ्चभिर्भूतैर्वियोगं संप्रचक्षते ।
न जायते न म्रियते पुरुषः शाश्वतः सदा ॥
प्रायेण मरणं नाम पापिनामेव पाण्डव ।
येषां तु न गतिः पुण्या तेषां मरणमुच्यते ॥
प्रायेणाकृतकृत्यस्तु मृत्योरुद्विजते जनः ।
कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् ॥
युधिष्ठिर उवाच ।
पञ्च यज्ञाः कथं देव क्रियन्तेऽत्र द्विजातिभिः ।
तेषां नाम च देवेश वक्तुमर्हस्यशेषतः ॥
श्रीभगवानुवाच ।
शृणु पञ्च महायज्ञान्कीर्त्यमानान्युधिष्ठिर ।
यैरेव ब्रह्मसालोक्यं लभ्यते गृहमेधिना ॥
ऋभुजज्ञं ब्रह्मयज्ञं भूतयज्ञं च पाण्डव ।
नृयज्ञं पितृयज्ञं च पञ्च यज्ञान्प्रचक्षते ॥
तर्पणं ऋभुयज्ञः स्यात्स्वाध्यायो ब्रह्मयज्ञकः । भूतयज्ञो बलिर्यज्ञो नृयज्ञोऽतिथिपूजनम् ।
पितॄनुद्दिश्य यत्कर्म पितृयज्ञः प्रकीर्तितः ॥
हुतं चाप्यहुतं चैव तथा प्रहुतमेव च ।
प्राशितं बलिदानं च पाकयज्ञान्प्रचक्षते ॥
वैश्वदेवादयो होमा हुतमित्युच्यते बुधैः ।
अहुतं च भवेद्दत्तं प्रहुतं ब्राह्मणाशितम् ॥
प्राणाग्निहोत्रहोमं च प्राशितं विधिवद्विदुः ।
बलिकर्म च राजेन्द्र पाकयज्ञाः प्रकीर्तिताः ॥
केचित्पञ्च महायज्ञान्पाकयज्ञान्प्रचक्षते ।
अपरे ब्रह्मयज्ञादीन्महायज्ञविदो विदुः ॥
सर्व एते महायज्ञाः सर्वथा परिकीर्तिताः ।
बुभुक्षितान्ब्राह्मणांस्तु यथाशक्ति न हापयेत् ॥
अहन्यहनि ये त्वेतानकृत्वा भुञ्जते स्वयम् ।
केवलं मलमश्नन्ति ते नार न च संशयः ॥
तस्मात्स्नात्वा द्विजो विद्वान्कुर्यादेतान्दिनेदिने ।
अतोऽन्यथा तु भुञ्जन्वै प्रायश्चित्ती भवेद्द्विजः ॥
युधिष्टिर उवाच ।
देवदेवेशक दैत्यघ्न त्वद्भक्तस्य जनार्दन ।
वक्तुमर्हसि देवेश स्नानस्य च विधिं मम ॥
भगवानुवाच ।
शृणु पाण्डव तत्सर्व पवित्रं पापनाशनम् ।
स्नात्वा येन विधानेन मुच्यन्ते किल्बिषाद्द्विजाः ॥
मृदं च गोमयं चैव तिलं दर्भांस्तथैव च ।
पुष्पाण्यपि यथान्यायमादाय तु जलं व्रजेत् ॥
नद्यां स्नात्वा न च स्नायदन्यत्र द्विजसत्तम ।
सति प्रभूते पयसि नाल्पे स्नायात्कदाचन ॥
गत्वोदकसमीपं तु शुचौ देशे मनोरमे ।
ततो मृद्गोमयादीनि तत्र विप्रो विनिक्षिपेत् ॥
बहिः प्रक्षाल्य पादौ च द्विराचम्य प्रयत्नतः ।
प्रदक्षिणं समावृत्य नमस्कुर्यात्तु तज्जलम् ॥
न च प्रक्षालयेद्विद्वांस्तीर्थमद्भिः कदाचन ।
न च पादेन वा हन्याद्धस्तेनान्येन तज्जलम् ॥
सर्वदेवमया ह्यापो मन्मयाः पाण्डुनन्दन ।
तस्मात्तास्तु न हन्तव्यास्त्वद्भिः प्रक्षालयेत्स्थलं ॥
केवलं प्रथमं मज्जेन्नाङ्गानि विमृशेद्बुधः ।
तत्तु तीर्थं समासाद्य कुर्यादाचमनं पुनः ॥
गोकर्णाकृतिवत्कृत्वा करं त्रिः प्रपिबेज्जलम् । द्विस्तत्परिमृजेद्वक्त्रं पादावभ्युक्ष्य चात्मनः ।
शीर्षण्यांस्तु ततः प्राणान्सकृदेवतु संस्पृशेन ॥
बाहू द्वौ च ततः स्पृष्ट्वा हृदयं नाभिमेव च ।
प्रत्यङ्गमुदकं स्पृष्ट्वा मूर्धानं तु पुनः स्पृशेत् ॥
आपः पुनन्त्वित्युक्त्वा च पुनराचमनं चरेत् ।
सोङ्कारव्याहृतीर्वाऽपि सदसस्पतिमित्यृचम् ॥
आचम्य मृत्तिकाः पश्चात्त्रिधा कृत्वा समालभेत् । ऋचेदं विष्णुरित्यङ्गमुत्तमाधममध्यमम् ।
आलभ्य वारुणैः सूक्तैर्नमस्कृत्य जलं ततः ॥
स्रवन्ती चेत्प्रतिस्रोतः प्रत्यर्कं चान्यवारिषु ।
मज्जेदोमित्युदाहृत्य न च विक्षोभयेज्जलम् ॥
गोमयं च त्रिधा कृत्वा जले पूर्वं समालभेत् ।
सव्याहृतीकां सप्रणवां गायत्रीं च जपेत्पुनः ॥
पुनराचमनं कृत्वा मद्गतेनान्तरात्मना । आपोहिष्ठेति तिसृभिर्ऋग्भिः पूतेन वारिणा ।
तथा तरत्समन्दीभिः सिञ्चेच्चतसृभिः क्रमात् ॥
गोसूक्तेनाश्वसूक्तेन शुद्धवर्गेणि चात्मनः ।
वैष्णवैर्वारुणैः सूक्तैः सावित्रैरिन्द्रदेवतैः ॥
वामदैव्येन चात्मानमन्यैर्मन्मयसामभिः ।
स्थित्वाऽन्तःसलिले सूक्तं जपेद्वाचाऽघमर्षणं ॥
सव्याहृतीकां सप्रणवां गायत्रीं वा ततो जपेत् ।
आश्वासमोक्षात्प्रणवं जपेद्वा मामनुस्मरन् ॥
उत्प्लुत्य तीर्थमासाद्य धौते शुक्ले च वाससी ॥
शुद्धे चाच्छादयेत्कक्षे न कुर्यात्परिपाशके ॥
पाशेन बद्ध्वा कक्षे यत्कुरुते कर्म वैदिकम् । राक्षसा दानवा दैत्यास्तद्विलुंपन्ति हर्षिताः ।
तस्मत्सर्वप्रयत्नेन कक्ष्यापाशं न धारयेत् ॥
ततः प्रक्षाल्य पादौ च हस्तौ चैव मृदा शनैः ।
आचम्य पुनराचामेत्पुनः सावित्रिया द्विजः ॥
प्राङ्मुखोदङ्मुखो वाऽपि ध्यायन्वेदान्समाहितः । जले जलगतः शुद्धः स्थल एव स्थलस्थितः ।
उभयत्र स्थितस्तस्मादाचामेदात्मशुद्धये ॥
दर्भेषु दर्भपाणिः सन्प्राङ्मुखः सुसमाहितः ।
प्राणायामांस्ततः कुर्यान्मद्गतेनान्तरात्मना ॥
सहस्रकृत्वः सावित्रीं शतकृत्वस्तु वा जपेत् ॥
समाहितो जपेत्तस्मात्सावित्र्या चाभिमन्त्र्य च ।
मन्देहानां विनाशाय रक्षसां विक्षिपेज्जलम् ॥
उद्वर्गोसीत्यथा चान्तःप्रायश्चित्तजलं क्षिपेत् ॥
अथादाय सुपुष्पाणि तोयमञ्जलिना द्विजः प्रक्षिप्य प्रतिसूर्यं च व्योममुद्रां प्रकल्पयेत् ॥
ततो द्वादशकृत्वस्तु सूर्यस्येकाक्षरं जपेत् ।
ततः षडक्षरादीनि षट्कृत्वः परिवर्तयेत् ॥
प्रदक्षिणं परामृश्य मुद्रया स्वमुखान्तरे ।
ऊर्ध्वबाहुस्ततो भूत्वा सूर्यमीक्षेत्समाहितः ॥
तन्मण्डलस्थं मां ध्यायंस्तोजोमूर्तिं चतुर्भुजम् ।
उदुत्यं च जपेन्मन्त्रं चित्रं तच्चक्षुरित्यपि ॥
सावित्रीं च यथाशत्ति जप्त्वा सूक्तं च मामकम् ।
मन्मयानि च सामानि पुरुषव्रतमेव च ॥
ततश्चालोकयेदर्कं हंसः शुचिषदित्यपि ।
प्रदक्षिणं समावृत्य नमस्कृत्य दिवाकरम् ॥
ततस्तु तर्पयेदद्भिर्ब्रह्म्णां मां च शङ्करम् ।
प्रजापतिं च देवांश्च तथा देवमुनीनपि ॥
साङ्गानपि तथा वेदानितिहासान्क्रतूनपि ।
पुराणानि च सर्वाणि कुलान्यप्सरसां तथा ॥
क्रतून्संवत्सरं चैव कलाकाष्ठात्मकं तथा । भूतग्रामांश्च भूतानि सरितः सागरांस्तथा ।
शैलाञ्शैलस्थितान्देवानोषधीः सवनस्पतीः ॥
तर्पयेदुपवीती च प्रत्येकं तृप्यतामिति ।
अन्वारभ्य च सव्येन पाणिना दक्षिणेन तु ॥
निवीती तर्पयेद्विद्वानृषीन्मन्त्रकृतस्तथा ।
मरीच्यादीनृषींश्चैव नारदाद्यान्समाहितः ॥
प्राचीनावीत्यथैतास्तु तर्पयेद्देवताः पितॄत् ।
ततस्तु कव्यवाडग्निं सों वैवस्वतं तथा ॥
ततश्चार्यमणं चापि ह्यग्निष्वात्तांस्तथैव च । सोमपांश्चैव दर्भेषु सतिलैरेव वारिभिः ।
तृप्यतामिति पश्चात्तु स पितॄंस्तर्पयेत्ततः ॥
पितॄन्पितामहांश्चैव तथैव प्रपितामहान् ।
पितामहीस्तता चापि तथैव प्रपितामहीः ॥
मातरं चात्मनश्चैव गुरुमाचार्यमेव च ।
पितृमातृष्वसारौ च तथा मातामहीमपि ॥
उपाध्यायान्सखीन्बन्धूञ्शिष्यर्त्विग्ज्ञातिबांधवान् ।
प्रमीतानानृशंस्यार्थं तर्पयेत्तानमत्सरः ॥
तर्पयित्वा तथाऽऽचम्य स्नानवस्त्रं प्रपीडयेत् ।
वृत्तिं भृत्यजनस्याहुः स्नानं पानं च तद्विदः ॥
अतर्पयित्वा तान्पूर्वं स्नानवस्त्रं न पीडयेत् । पीडयेच्चेत्पुरा मोहाद्देवाः सर्पिगणास्तथा ।
पितरस्तु निराशास्ते शप्त्वा यान्ति यथागतं ॥
प्रक्षाल्य तु मृदा पादावाचम्य प्रयतः पुनः ।
दर्भेषु दर्भपाणिः सन्स्वाध्यायं तु समारभेत् ॥
वेदमादौ समारभ्य ततोपर्युपरि क्रमात् ।
यदधीतेऽन्वहं शक्त्या तत्स्वाध्यायं प्रचक्षते ॥
ऋचो वाऽपि यजुर्वाऽपि सामगायमथापि च ।
इतिहासपुराणानि यथाशक्ति न हापयेत् ॥
उत्थाय तु नमस्कृत्य दिशो दिग्देवता अपि ।
ब्रह्मणं च ततश्चाग्निं पृथिवीमोषधीस्तथा ॥
वाचं वाचस्पतिं चैव मां चैव सरितस्तथा ।
नमस्कृत्य तथाऽद्भिस्तु प्रणवादि च पूर्ववत् ॥
ततो नमोऽद्भ्य इत्युक्त्वा नमस्कुर्यात्तु तज्जलम् ।
घृणिः सूर्यस्तथाऽऽदित्यस्तं प्रणम्य स्वमूर्धनि ॥
ततस्त्वालोकयन्नर्कं प्रणवेन समाहितः ।
ततो मामर्चयेत्पुष्पैर्मत्प्रियैरेव नित्यशः ॥
युधिष्ठिर उवाच ।
त्वत्प्रियाणि प्रसूनानि त्वदधिष्ठानि माधव ।
सर्वाण्याचक्ष्व देवेश त्वद्भक्तस्य ममाच्युत ॥
भगवानुवाच ।
शृणुष्वावहितो राजन्पुष्पाणि प्रियकृन्ति मे ।
कुमुदं करवीरं च चणकं चंपकं तथा ॥
मल्लिकाजातिपुष्पं च नन्द्यावर्तं च नन्दिकम् ।
पलाशपुष्पपत्राणि दूर्वा भृङ्गकमेव च ॥
वनमाला च राजेन्द्र मत्प्रियाणि विशेषतः ।
सर्वेषामपि पुष्पाणां सहस्रगुणमुत्पलम् ॥
तस्मात्पद्मं तथा राजन्पद्मात्तु सतपत्रकम् ।
तस्मात्सहस्रपत्रं तु पुण्डरीकं ततः परम् ॥
पुण्डरीकसहस्रात्तु तुलसी गुणतोऽधिका । बकपुष्पं ततस्तस्मात्सौवर्णं तु ततोऽधिकम् ।
सौवर्णात्तु प्रसूनाच्च मत्प्रियं नास्ति पाण्डव ॥
पुष्पाभावे तुलस्यास्तु पत्रैर्मामर्चयेत्पुनः । पत्रालाभे तु शाखाभिः शाकालाभे शिफालवैः ।
शिफाभावे मृदा तत्र भक्तिमानर्चयेत माम् ॥
वर्जनीयानि पुष्पाणि शृणु राजन्समाहितः ।
किङ्किणी मुनिपुष्पं च धुर्धूरं पाटलं तथा ॥
तथाऽतिमुक्तकं चैव पुन्नागं नक्तमालिकम् ।
यौधिकं क्षीरिकापुष्पं निर्गुण्डी लाङ्गुली जपा ॥
कर्णिकारं तथाऽशोकं शल्मलीपुष्पमेव च ।
ककुभाः कोविदाराश्च वैभीतकमथापि च ॥
कुरण्टकप्रसूनं च कल्पकं कालकं तथा । अङ्केलं गिरिकर्णी च नीलान्येव च सर्वशः ।
एकपर्णानि चान्यानि सर्वाण्येव विवर्जयेत् ॥
अर्कपुष्पाणि वर्ज्यानि अर्कपत्रस्तितानि च ।
व्याघृताः पिचुमन्दानि सर्वाण्येव विवर्जयेत् ॥
अन्यैस्तु शुक्लपत्रैस्तु गन्धवद्भिर्नराधिप ।
अवर्ज्यैस्तैर्यथालाभं मद्भक्तो मां समर्चयेत् ॥
युधिष्ठिर उवाच ।
कथं त्वमर्चनीयोसि मूर्तयः कीदृशास्तु ते ।
वैखानसाः कथं ब्रुयूः कथं वा पाञ्चरात्रिकाः ॥
भगवानुवाच ।
शृणु पाण्डव तत्सर्वमर्चनाक्रममात्मनः ।
स्थण्डिले पद्मकं कृत्वा चाष्टपत्रं सकर्णिकम् ॥
अष्टाक्षरविधानेन ह्यथवा द्वादशाक्षरैः ।
वैदिकैरथ मन्त्रैश्च मम सूक्तेन वा पुनः ॥
स्थापितं मां ततस्तस्मिन्नर्ययित्वा विचक्षणः ।
पुरुषं च ततः सत्यमत्युतं च युधिष्टिर ॥
अनिरुद्धं च मां प्राहुर्वैखानसविदो जनाः । अन्ये त्वेवं विजानन्ति मां राजन्पाञ्चरात्रिकाः ।
वासुदेवं च राजेन्द्र संकर्षणमथापि वा ।
प्रद्युम्नं चानिरुद्धं च चतुर्मूर्तिं प्रचक्षते ॥
एताश्चान्याश्च राजेन्द्र संज्ञाभेदेन मूर्तयः ।
विद्ध्यार्थान्तरा एवं मामेवं चार्चयेद्भुधः ॥
युधिष्ठिर उवाच ।
त्वद्भक्ताः कीदृसा देव कानि तेषं व्रतानि च ।
एतत्कथय देवेश त्वद्भक्तस्य ममाच्युत ॥
भगवानुवाच ।
अनन्यदेवताभक्ता चे मद्भक्तजनप्रियाः ।
मामेव शरणं प्राप्ता मद्भक्तास्ते प्रकीर्तिताः ॥
स्वर्ग्याण्यपि यशस्यानि मत्प्रियाणि विशेषतः ।
मद्भक्तः पाण्डवश्रेष्ठ व्रतानीमानि धारयेत् ॥
नान्यदाच्छादयेद्वस्त्रं मद्भक्तो जलतारणे ।
स्वस्थस्तु न दिवा स्वप्येन्मधुमांसानि वर्जयेत् ॥
प्रदक्षिणं व्रजेद्विप्रान्गामश्वत्थं हुताशनम् ।
न धावेत्पतिते वर्षे नाग्नभिक्षां च लोपयेत् ॥
प्रत्यक्षलवणं नाद्यत्सौभाञ्जनकरञ्जनौ ।
ग्रासमुष्टिं गवपे दद्याद्धान्याम्लं चैव वर्जयेत् ॥
तथा पर्युषितं चापि पक्वं परगृहागतम् ।
अनिवेदितं च यद्द्रव्यं तत्प्रयत्नेन वर्जयेत् ॥
विभितककरञ्जानां छायां दूरे विवर्जयेत् ।
पिप्रदेवपरीवादान्न वदेत्पीडितोपि सन् ॥
सात्विका राजसाश्चापि तामसाश्चापि पाण्डव ।
मामर्चयन्ति मद्भक्तास्तेषामीदृग्विदा गतिः ॥
तामसास्तिमिरं यान्ति राजसा रज एव तत् ।
सात्विकाः सत्वसंपन्नाः सत्वमेव प्रयान्ति ते ॥
ये सिद्धाः सन्ति साङ्ख्येन योगसत्वबलेन च ।
नभस्यादित्यचन्द्राभ्यां पश्यन्ति पदविस्तरम् ॥
एकस्तंभे नवद्वारे त्रिस्थूणे पञ्चसाक्षिके ।
एतस्मिन्देहनगरे राजसस्तु सदा भवेत् ॥
उदिते सवितर्याप्य क्रियायुक्तस्य धीमतः ।
चतुर्वेदविदश्चापि देहे षड्वृषलाः स्मृताः ॥
क्षत्रियाः सप्त विज्ञेया वैश्यास्त्वष्टौ प्रकीर्तिताः ।
नियताः पाण्डवश्रेष्ठ शूद्राणामेकविंशतिः ॥
कामः क्रोधश्च लोभश्च मोहश्च मद एव च ।
महामोहश्च इत्येते देहे षड्वृषलाः स्मृताः ॥
गर्वः स्तंभो ह्यहङ्कार ईर्ष्या च द्रोह एव च ।
पारुष्यं क्रूरता चैव सप्तैत क्षत्रियाः स्मृताः ॥
तीक्ष्णता निकृतिर्माया शाठ्यं डंभो ह्यनार्जवम् ।
पैशुन्यमनृतं चैव वेश्यास्त्वष्टौ प्रकीर्तिताः ॥
तृष्णा बुभुक्षा निद्रा च ह्यालस्यं चाघृणादयः ।
आधिश्चापि विषादश्च प्रमादो हीनसत्वता ॥
भयं विक्लबता जाड्यं पापकं मन्युरेव च ।
आशा चाश्रद्दधानत्वमनवस्थाप्यमन्त्रणम् ॥
आशौचं मलिनत्वं च शूद्रा ह्येते प्रकीर्तिताः ।
यस्मिन्नेते न दृश्यन्ते स वै ब्राह्मण उच्यते ॥
येषुयेषु हि भावेषु यत्कालं वर्तते द्विजः ।
तत्कालं वै स विज्ञेयो ब्राह्मणो ज्ञानदुर्बलः ॥
प्राणानायम्य यत्कालं येन मां चापि चिन्तयेत् ।
तत्कालो वै द्विजो ज्ञेयः शेषकालो ह्यथेतरः ॥
तस्मात्तु सात्विको भूत्वा शुचिः क्रोधविवर्जितः ।
मामर्चयेत्तु सततं मत्प्रियत्वं यदीच्छति ॥
अलोलजिह्वः समुपस्थितो धृतिं निधाय चक्षुर्युगमात्रमेव तत ।
मनश्च वाचं च निगृह्य चञ्चलं भयान्निवृत्तो मम भक्त उच्यते ॥
ईदृशाध्यात्मिनो ये तु ब्राह्मणा नियतेन्द्रियाः ।
तेषां श्राद्धेषु तृप्यन्ति तेन तृप्ताः पितामहाः ॥
धर्मो जयति नाधर्मः सत्यं जयति नानृतम् ।
क्षमा जयति न क्रोधः क्षमावान्ब्राह्मणो भवेत् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधर्मपर्वणि चतुरधिकशततमोऽध्यायः ॥ 104 ॥

श्रीः