अध्यायः 010
अश्वमेधपर्व ॥ 1 ॥
इन्द्रण गन्धर्वमुखात्स्वेन याजनाय बृहस्पतिवरणं चोदितेनापि
मरुत्तेन तदनङ्गीकारे यज्ञविघाताय साटोपं यज्ञवाटं प्रत्यागमनम् ॥ 1 ॥
संवर्तेन मरुत्तप्रार्थनया विद्याबलेनेन्द्रादीनां संस्तम्भनम् ॥ 2 ॥ ततः
संवर्तानुवर्तिनेन्द्रेण सभानिर्मापणादिना यज्ञनिर्वर्तनपूर्वकं देवेः सह
हविर्ग्रहणम् ॥ 3 ॥ व्यासेनैव युधिष्ठिरंप्रति
मरुत्तयज्ञप्रवृत्तिप्रकारकथनपूर्वकं तच्छिष्टद्रव्याहरमएनाश्वमेधकरणविधानम् ॥ 4 ॥
इन्द्र उवाच ।
एवमेतद्ब्रह्मबलं गरीयो
न ब्राह्मणात्किञ्चिदन्यद्ररीयः ।
आविक्षितस्य तु बलं न मृष्ये
वज्रमस्मै प्रहरिष्यामि घोरम् ॥
धृतराष्ट्र गच्छ प्रहितो मरुत्तं
संवर्तेन सङ्गतं तं वदस्व
बृहस्पतिं त्वमुपशिक्षस्व राज-
न्वज्रं वा ते प्रहरिष्यामि घोरम् ॥
व्यास उवाच ।
ततो गत्वा धृतराष्ट्रो नरेन्द्रं
प्रोवाचेदं वचनं वासवस्य ॥
गन्धर्वं मां धृतराष्ट्रं निबोध
त्वामागतं वक्तुकामं नरेन्द्र ।
ऐन्द्रं वाक्यं शृणु मे राजसिंह
यत्प्राह लोकाधिपतिर्महात्मा ॥
बृहस्पतिं याजकं त्वं वृणीष्व
वज्रं वा ते प्रहरिष्यामि घोरम् ।
वचश्चेदेतन्न करिष्यसे मे
प्राहैतदेतावदचिन्त्यकर्मा ॥
मरुत्त उवाच ।
त्वं चैवैतद्वेत्थ पुरन्दरश्च
विश्वेदेवा वसवश्चाश्विनौ च ।
मित्रद्रोहे निष्कृतिर्नास्ति लोके
महत्पापं ब्रह्महत्यासमं तत् ॥
बृहस्पतिर्याजयतां महेन्द्रं
देवश्रेष्ठं वज्रभृतां वरिष्ठम् ।
संवर्तो मां याजयिताऽद्य राज-
न्न ते वाक्यं तस्य वा रोचयामि ॥
गन्धर्व उवाच ।
घोरो नादः श्रूयतां वासवस्य
नभस्तले गर्जतो राजसिंह ।
व्यक्तं वज्रं मोक्ष्यते ते महेन्द्रः
क्षेमं राजंश्चिन्त्यतामेष कालः ॥
व्यास उवाच ।
इत्येवमुक्तो धृतराष्ट्रेण राज-
ञ्श्रुत्वा नादं नदतो वासवस्य ।
तपोनित्यं धर्मविदां वरिष्ठं
संवर्तं तं ज्ञापयामास कार्यम् ॥
मरुत्त उवाच ।
पश्यात्मानं प्लवमानं त्वमारा-
दध्वा दूरं तेन न दृश्यतेऽद्य ।
प्रपद्येऽहं शर्म विप्रेन्द्र त्वत्तः
प्रयच्छ तस्मादभयं विप्रमुख्य ॥
अयमायाति वे वज्री दिशो विद्योतयन्दस ।
अमानुषेण घोरेणि सदस्यास्त्रासिता हि नः ॥
संवर्त उवाच ।
भयं शक्राद्व्येतु ते राजसिंह
प्रणोत्स्येऽहं भयमेतत्सुघोरम् ।
संस्तम्भिन्या विद्यया क्षिप्रमेव
मा भैस्त्वमस्याभिभवात्प्रतीतः ॥
अहं संस्तम्भयिष्यामि मा भैस्त्वं शक्रतो नृप ।
यर्वेषामेव देवानां क्षयितान्यायुधानि मे ॥
दिशो वज्रं व्रजतां वायुरेतु
वर्षं भूत्वा वर्षतां काननेषु ।
आपः प्लवन्त्वन्तरिक्षे वृथा च
सौदामनी दृश्यते माऽपि भैस्त्वम् ॥
वह्निर्देवस्त्रातु वा सर्वतस्ते
कामान्सर्वान्वर्षतु वासवो वा ।
वज्रं तथा स्थापयतां वधाय
महाघोरं पुवमानं जलौघैः ॥
मरुत्त उवाच ।
घोरः शब्दः श्रूयते वै महास्वनो
वज्रस्यैष सहितो मारुतेन ।
आत्मा हि मे प्रव्यथते मुहुर्मुहु-
र्न मे स्वास्थ्यं जायते चाद्य विप्र ॥
संवर्त उवाच ।
वज्रादुग्राद्व्येतु भयं तवाद्य
वातो भूत्वा व्रजतु नरेन्द्र वज्रम् ।
भयं त्वक्त्वा वरमन्यं वृणीष्व
कं ते कामं तपसा साधयामि ॥
मरुत्त उवाच ।
इन्द्रः साक्षात्सहसाऽभ्येतु विप्र
हविर्यज्ञे प्रतिगृह्णातु चैव ।
स्वंस्वं हविश्चैव जुषन्तु देवा
हुतं सोमं प्रतिगृह्णन्तु चैव ॥
संवर्त उवाच ।
अयमिन्द्रो हरिभिरायाति राज-
न्देवैः सर्वैस्त्वरितैः स्तूयमानः ।
मन्त्राहूतो यज्ञमिमं मयाऽद्य
पश्यश्वैनं मन्त्रविस्रस्तकायम् ॥
व्यास उवाच ।
ततो देवैः सहितो देवराजो
रथे युङ्क्त्वा तान्हरीन्वाजिमुख्यान् ।
आयाद्यज्ञमथ राज्ञः पिपासु-
राविक्षितस्याप्रमेयस्य सोमम् ॥
तमायान्तं सहितं देवसङ्घैः
प्रत्युद्ययौ सपुरोधा मरुत्तः ।
चक्रे पूजां देवराजाय चाग्र्यां
यथाशास्त्रं विधिवत्प्रीयमाणः ॥
संवर्त उवाच ।
सुस्वागतं ते पुरुहूतेह विद्व-
न्यज्ञोऽप्ययं सन्निहिते त्वयीन्द्र ।
शोशुभ्यते बलवृत्रघ्न भूयः
पिबस्व सोमं सुतमुद्यतं मया ॥
मरुत्त उवाच ।
शिवेन मां पश्य नमश्च तेऽस्तु
प्राप्तो यज्ञः सफलं जीवितं मे ।
अयं यज्ञं कुरुते मे सुरेन्द्र
बृहस्पतेरवरो जन्मना च ।
इन्द्र उवाच ।
जानामि ते गुरुमेनं तपोधनं
बृहस्पतेरनुजं तिग्मतेजसम्
यस्याह्वानादागतोऽहं नरेन्द्र
प्रीतिर्मेऽद्य त्वयि मन्युः प्रनष्टः ॥
संवर्त उवाच ।
यदि प्रीतस्त्वमसि वै देवराज
तस्मात्स्वयं शाधि यज्ञे विधानम् ।
स्वयं सर्वान्कुरु भागान्सुरेन्द्र
जानात्वयं सर्वलोकश्च देव ॥
व्यास उवाच ।
एवमुक्तस्त्वाङ्गिरसेन शक्रः
समादिदेश स्वयमेव देवान् ।
सभाः क्रियन्तामावसथाश्च मुख्याः
सहस्रशश्चित्रभूताः समृद्धाः ॥
क्लृप्ताः स्थूणाः कुरुतारोहणानि
गन्धर्वाणामप्सरसां च शीघ्रम् ।
यत्र नृत्येरन्नप्सरसः समस्ताः
स्वर्गोपमः क्रियतां यज्ञवाटः ॥
इत्युक्तास्ते चक्रुराशु प्रतीता
दिवौकसः शक्रवाक्यान्नरेन्द्र ।
ततो वाक्यं प्राह राजानमिन्द्रः
प्रीतो राजन्पूज्यमानो मरुत्तम् ॥
एष त्वयाऽहमिह राजन्समेत्य
ये चाप्यन्ते तव पूर्वे नरेन्द्र ।
सर्वाश्चान्या देवताः प्रीयमाणा
हविस्तुभ्यं प्रतिगृह्णन्तु राजन् ॥
आग्नेयं वै लोहितमालभन्तां
वैश्वदेवं बहुरूपं हि राजन् ।
निलं चोक्षाणं मेद्यमप्यालभन्तां
चलच्छिश्नं सम्प्रदिष्टं द्विजाग्र्याः ॥
ततो यज्ञो ववृधे तस्य राज-
न्यत्र देवाः स्वयमन्नानि जह्रुः ।
यस्मिञ्शक्रो ब्राह्मणैः पूज्यमानः
सदस्योऽभूद्धरिमान्देवराजः ॥
ततः संवर्तश्चैत्यगतो माहात्मा
यथा वह्निः प्रज्वलितो द्वितीयः ।
हवींष्युच्चैराह्वयन्देवसङ्घा-
ञ्जुहावाग्नौ मन्त्रवत्सुप्रतीतः ॥
ततः पीत्वा बलभित्सोममग्र्यं
ये चाप्यन्ते सोमपा देवसङ्घाः ।
सर्वेऽनुज्ञाताः प्रययुः पार्थिवेन
यथाजोषं तर्पिताः प्रीतिमन्तः ॥
ततो राजा जातरूपस्य राशी-
न्पदेपदे कारयामास हृष्टः ।
द्विजातिभ्यो विसृजन्भूरि वित्तं
रराज वित्तेश इवारिहन्ता ॥
ततो वित्तं विविधं सन्निधाय
यथोत्साहं कारयित्वा च कोशम् ।
अनुज्ञातो गुरुणां संनिवृत्त्य
शशास गामखिलां सागरान्ताम् ॥
एवंगुणः सम्बभूवेह राजा
यस्य क्रतौ तत्सुवर्णं प्रभूतम् ।
तत्त्वं समादाय नरेन्द्र वित्तं
यजस्व देवांस्तपनीयैर्विधानैः ॥
वैशम्पायन उवाच ।
ततो राजा पाण्डवो हृष्टरूपः
श्रुत्वा वाक्यं सत्यवत्याः सुतस्य ।
मनश्चक्रे तेन वित्तेन यष्टुं
ततोऽमात्यैर्मन्त्रयामास भूयः ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि दशमोऽध्यायः ॥ 10 ॥
7-10-6 मित्रद्रोहे निष्कृतिर्वै यथेह नास्तीति सदैववाद इति
क.ट.थ.पाठः ॥ 7-10-8 क्षमं राजन्निति क.ट.थ.पाठः ॥ 7-10-10 विलोभ्यि च्छित्त्वा
मत्प्रतिष्ठा द्विनेन्द्राः इति क.ट.थ. ॥
श्रीः