अध्यायः 020
अश्वमेधपर्व ॥ 1 ॥
कृष्णेनार्जुनंप्रति मोक्षसाधनादिप्रतिपादकसिद्धकाश्यपसंवादरूपानुगीतोपदेशः ॥ 1 ॥
ब्राह्मण उवाच ।
यः स्यादेकान्त आसीनस्तूष्णीं किञ्चिदचिन्तयन् ।
पूर्वंपूर्वं परित्यज्य स निरारम्भको भवेत् ॥
सर्वमित्रः सर्वसहः शमे रक्तो जितेन्द्रियः ।
व्यपेतभयमन्युश्च कामहा मुच्यते नरः ॥
आत्मवत्सर्वभूतेषु यश्चरेन्नियतः शुचिः ।
`नित्यमेव यथान्यायं यश्चरेन्नियतेन्द्रियः ।'
अमानी निरभीमानः सर्वतो मुक्त एव सः ॥
जीवितं मरणं चोभे सुखदुःखे तथैव च ।
लाभालाभे प्रियद्वेष्ये यः समः स च मुच्यते ॥
न कस्यचित्स्पृहयते नावजानाति किचन ।
निर्द्वन्द्वो वीतरागात्मा सर्वथा मुक्त एव सः ॥
अनमित्रश्च निर्बन्धुरनपत्यश्च यः क्वचित् ।
त्यक्तधर्मार्थकामश्च निराराङ्क्षी च मुच्यते ॥
नैव धर्मी न चाधर्मी पूर्वोपचितहा च यः ।
क्षीणधातुः प्रशान्तात्मा निर्द्वंद्वः स विमुच्यते ॥
अकर्मा चाविकाङ्क्षश्च पश्येज्जगदशाश्वतम् ।
अस्वस्तमवशं नित्यं जन्ममृत्युजरायुतम् ॥
वैराग्यबुद्धिः सततं तावद्दोषव्यपेक्षकः ।
आत्मबन्धविनिर्मोक्षं स करोत्यचिरादिव ॥
अगन्धमरसस्पर्शमशब्दमपरिग्रहम् ।
अरूपमनभिज्ञेयं दृष्ट्वाऽऽत्मानं विमुच्यते ॥
पञ्चभूतगुणैर्हीनममूर्तिमदलेपकम् ।
अगुणं गुणभोक्तारं यः पश्यति स मुच्यते ॥
विहाय सर्वसङ्कल्पान्बुद्ध्या शारीरमानसान् ।
शनैर्निर्वाणमाप्नोति निरिन्धन इवानलः ॥
सर्वसंस्कारनिर्मुक्तो निर्द्वन्द्वो निष्परिग्रहः ।
तपसा इन्द्रियग्रामं यश्चरेन्मुक्त एव सः ॥
विमुक्तः सर्वसंस्कारैस्ततो ब्रह्मि सनातनम् ।
परमाप्नोति संशान्तमचलं नित्यमक्षरम् ॥
अतः परं प्रवक्ष्यामि योगशास्त्रमनुत्तमम् ।
यज्ज्ञात्वा सिद्धमात्मानं लोके पश्यन्ति योगिनः ॥
तस्योपदेशं वक्ष्यामि यथावत्तन्निबोध मे ।
यैर्योगैर्भावयन्नित्यं पश्यत्यात्मानमात्मनि ॥
इन्द्रियाणि तु संहृत्य मन आत्मनि धारयेत् ।
तीव्रं तप्त्वा तपः पूर्वं मोक्षयोगं समाचरेत् ॥
तपस्वी नित्यसङ्कल्पो दम्भाहङ्कारवर्जितः ।
मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि ॥
स चेच्छक्रोत्ययं साधुर्योक्तुमात्मानमात्मनि ।
तत एकान्तशीलः स पश्यत्यात्मानमात्मनि ॥
संयतः सततं युक्त आत्मवान्विजितेन्द्रियः ।
यथा य आत्मनाऽऽत्मानं सम्प्रयुक्तः प्रपश्यति ॥
यथाहि पुरुषः स्वप्ने दृष्ट्वा पश्यत्यसाविति ।
तथारूपमिवात्मानं साधुयुक्तः प्रपश्यति ॥
इषीकां च यथा मुञ्जात्कश्चिन्निष्कृष्य दर्शयेत् ।
योगी निष्कृष्य चात्मानं तथा पश्यति देहतः ॥
मुञ्जं शरीरमित्याहुरिषीकामात्मनि श्रिताम् ।
एतन्निदर्शनं प्रोक्तं योगविद्भिरनुत्तमम् ॥
यदा हि युक्तमात्मानं सम्यक् पश्यति देहभूत् ।
न तस्येहेश्वरः कश्चित्त्रैलोक्यस्यापि यः प्रभुः ॥
अन्यान्याश्चैव तनवो यथेष्टं प्रतिपद्यते ।
विनिर्भिद्य जरां मृत्युं न शोचति न हृष्यति ॥
देवानामपि देवत्वं युक्तः कारयते वशी ।
ब्रह्म चाव्ययमाप्नोति हित्वा देहमशाश्वतम् ॥
विनश्यत्सु च लोकेषु न भयं तस्य जायते ।
क्लिश्यमानेषु भूतेषु न स क्लिश्यति केनचित् ॥
दुःखशोकमलैर्घोरैः सङ्गस्नेहसमुद्भवैः ।
न विचाल्यति युक्तात्मा निस्पृहः शान्तमानसः ॥
नैनं शस्त्राणि विध्यन्ते न मृत्युश्चास्य विद्यते ।
नातः सुखतरं किञ्चिल्लोके क्वचन दृश्यते ॥
सम्यग्युक्त्वा स आत्मानमात्मन्येव प्रतिष्ठिते ।
विनिवृत्तजरादुःखः सुखं स्वपिति चापि सः ॥
देहान्यथेष्टमभ्येति हित्वेमां मानुषीं तनुम् ।
निर्वेदस्तु न कर्तव्यो भुञ्जानेन कथञ्चन ॥
सम्यग्युक्तो यदात्मानमात्मन्येव प्रपश्यति ।
तदैव न स्पृहयते साक्षादपि शतक्रतोः ॥
योगमेकान्तशीलस्तु यथा विन्दति तच्छृणु ।
दृष्टपूर्वां दिशं चिन्त्य यस्मिन्संनिवसेत्परे ॥
पुरस्याभ्यन्तरे तस्य मनः स्थाप्यं न बाह्यतः ।
पुरस्याभ्यन्तरे तिष्ठन्यस्मिन्नावसथे वसेत ।
तस्मिन्नावसथे धार्यं सबाद्याभ्यन्तरं मनः ॥
प्रचिन्त्यावसथे कृत्स्नं यस्मिन्काये स पश्यति ।
तस्मिन्काये मनश्चास्य न च किञ्चन बाह्यतः ॥
सन्नियम्येन्द्रियग्रामं निर्घोषं निर्जने वने ।
कायमभ्यन्तरं कृत्स्नमेकाग्रः परिचिन्तयेत् ॥
इन्तांस्तालु च जिह्वां च गलं ग्रीवां तथैव च ।
हृदयं चिन्तयेच्चापि तथा हृदयबन्धनम् ॥
इत्युक्तः स मया शिष्यो मेधावी मधुसूदन ।
पप्रच्छ पुनरेवेमं मोक्षधर्मं सुदुर्वचम् ॥
भुक्तं भुक्तमिदं कोष्ठे कथमन्नं विपच्यते ।
कथं रसत्वं व्रजति शोणितत्वं कथं पुनः ॥
तथा मांसं च मेदश्च स्नाय्वस्थीनि च पोषयेत् ।
कथमेतानि सर्वाणि शरीराणि शरीरिणाम् ॥
वर्धन्ते वर्धमानस्य वर्धते च कथं बलम् ।
निरासनं निष्कसनं मलानां च पृथक् पृथक् ॥
कुतो वाऽयं प्रश्वसिति उच्छ्वसित्यपि वा पुनः ।
कं च देशमधिष्ठाय तिष्ठत्यात्माऽयमात्मनि ॥
जीवः कथं वहति च चेष्टमानः कलेवरम् ।
किंवर्णं कीदृशं चैव निवेशयति वै मनः ॥
याथातथ्येन भगवन्वक्तुमर्हसि मेऽनघ ।
इति सम्परिपृष्टोऽहं तेन विप्रेणि माधव ॥
प्रत्यब्रवं महाबाहो यथाश्रुतमरिंदम ।
यथा स्वकोष्ठे प्रक्षिप्य भाण्डं भाण्डमना भवेत् ॥
तथा स्वकाये प्रक्षिप्य मनोद्वारैरनिश्चलैः ।
आत्मानं तत्र मार्गेत प्रमादं परिवर्जयेत् ॥
एवं सततमुद्युक्तः प्रीतात्मा नचिरादिव ।
आसादयति तद्ब्रह्म यद्दृष्ट्वा स्यात्प्रधानवित् ॥
न त्वसौ चक्षुषा ग्राह्यो न च सर्वैरपीन्द्रियैः ।
मनसैव प्रदीपेन महानात्मा प्रदृश्यते ॥
सर्वतः पाणिपादान्तः सर्वतोक्षिशिरोमुखः ।
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥
जीवो निष्क्रान्तमात्मानं शरीरात्सम्प्रपश्यति ।
स तमुत्सृज्य देहं स्वं पारयेद्ब्रह्म केवलम् ॥
आत्मानमालोकयति मनसा प्रहसन्निव ।
तदेवमाश्रयं कृत्वा मोक्षं याति ततो मयि ॥
इदं सर्वरहस्यं ते मया प्रोक्तं द्विजोत्तम ।
आपृच्छे साधयिष्यामि गच्छ विप्र यथासुखम् ॥
इत्युक्तः स तदा कृष्ण मया शिष्यो महातपाः ।
अगच्छत यथाकामं ब्राह्मणश्छिन्नसंशयः ॥
वासुदेव उवाच ।
इत्युक्त्वा स तदा वाक्यं मां पार्थ द्विजसत्तमः ।
मोक्षधर्माश्रितं सम्यक् तत्रैवान्तरधीयत ॥
कच्चिदेतत्त्वया पार्थ श्रुत्मेकाग्रचेतसा ।
तदापि हि रथस्थस्त्वं श्रुतवानेतदेव हि ॥
नैतत्पार्थ सुविज्ञेयं व्यामिश्रेणेति मे मतिः ।
नरेणाकृतसङ्गेन विशुद्धेनान्तरात्मना ॥
सुरहस्यमिदं प्रोक्तं देवानां भरतर्षभ ।
कच्चित्त्विदं श्रुतं पार्थ मनुष्येणेह कर्हिचित् ॥
न ह्येतच्छ्रोतुमर्होऽन्यो मनुष्यस्त्वामृतेऽनघ ।
नैतदन्येनि विज्ञेयं व्यामिश्रेणान्तरात्मना ॥
क्रियावद्भिर्हि कौन्तेय देवलोकः समावृतः ।
न चैतदिष्टं देवानां मर्त्यैरुपरि वर्तनम् ॥
परा हि सा गतिः पार्थ यत्तद्ब्रह्म सनातनम् ।
यत्रामृतत्वं प्राप्नोति त्यक्त्वा दुःखं सदा सुखी ॥
इमं धर्मं समास्थाय येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥
किं पुनर्ब्रह्मणाः पार्थ क्षत्रिया वा बहुश्रुताः ।
स्वधर्मरतयो नित्यं ब्रह्मलोकपरायणः ॥
हेतुमच्चैतदुद्दिष्टमुपायाश्चास्य साधने ।
सिद्धिं फलं च मोक्षश्च दुःखस्य च विनिर्णियः ॥
नातः परं सुखं त्वन्यत्किंचित्स्याद्भरतर्षभ ।
श्रुतवाञ्श्रद्दधानश्च पराक्रान्तश्च पाण्डव ॥
यः परित्यज्यते मर्त्यो लोकसारमसरवत् ।
एतैरुपायैः स क्षिप्रं परां गतिमवाप्नुते ॥
एतावदेव वक्तव्यं नान्तो भूयोस्ति किञ्चन ।
षण्मासान्नित्ययुक्तस्य योगः पार्थ प्रवर्तते ॥ ॥
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि विंशोऽध्यायः ॥ 20 ॥
7-20-2 सर्वमित्रोऽद्रोही । सर्वसहः क्षमी ॥ 7-20-6 अनमित्रः शत्रुहीनः ॥ 7-20-11 अमूर्तिमदहेतुकमिति झ.पाठः ॥
श्रीः