अध्यायः 035

अथ पुत्रदर्शनपर्व ॥ 2 ॥

धृतराष्ट्रधिष्ठिरादिभिर्ष्यासप्रसादोज्जीवितैर्हतपूर्वबन्धुभिः सह सँल्लापादिना यावद्रात्रिसुखविहरणम् ॥ 1 ॥

वैशम्पायन उवाच ।

ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम् ।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः ॥
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम् ।
संहृष्टमनसः सर्वे देवलोक इवामराः ॥
पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह ।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः ॥
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च ।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः ॥
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः ।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन् ॥
परस्परं समागम्य योधास्ते भरतर्षभ ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः ॥
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः ।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह ॥
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः ।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः ॥
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा ।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत् ॥
परस्परं समागम्य योधानां भरतर्षभ । समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः ।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन् ॥
`देवलोकं गता ये च ये च ब्रह्मसदो गताः ।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः ॥
तथा वैवस्वतं लोकं ये च यक्षानुपागताः ।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान् ॥
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः । सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः ॥'
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः ।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं ॥
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः ।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन् ॥
अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम् ।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे ॥
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा ।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन् ॥
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः ।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून् ॥
विचित्रगतयः सर्वे यानवाप्यामरैः सह ।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः ॥
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः । धर्मसीलो महातेजाः कुरूणां हितकृतदा ।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः ।
यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः ।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः ॥
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः ।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम् ॥
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह ।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते ॥
एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः ।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम् ॥
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः ।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा ॥
ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः ।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे ॥
यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह ।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः ॥
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः ।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि ॥
`ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः । बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम् ॥'
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः । प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः ।
इष्टबान्धवसंयोगमनायासमनामयम् ॥
यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः ।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम् ॥
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत ।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः ॥
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः । आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः ।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम् ॥
`पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः । पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा ॥' ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः ॥ 35 ॥

श्रीः