अध्यायः 115
अम्बिकायां व्यासाद्धृतराष्ट्रस्योत्पत्तिः ॥ 1 ॥ अम्बालिकायां पाण्डोरुत्पत्तिः ॥ 2 ॥ अम्बिकादास्यां विदुरस्योत्पत्तिः ॥ 3 ॥
वैशंपायन उवाच ।
ततः सत्यवती काले वधूं स्नातामृतौ तदा ।
संवेशयन्ती शयने शनैर्वचनमब्रवीत् ॥
कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वाऽनुप्रवेक्ष्यति ।
अप्रमत्ता प्रतीक्षैनं निशीथे ह्यागमिष्यति ॥
श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे ।
साऽचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ॥
`ततः सुप्तजनप्रायेऽर्धरात्रे भगवानृषिः ।
दीप्यमानेषु दीपेषु शरणं प्रविवेश ह ॥
ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः ।
जगाम तस्याः शयनं विपुले तपसि स्थितः ॥
तं समीक्ष्य तु कौसल्या दुष्प्रेक्षमतथोचिता ।
विरूप इति वित्रस्ता संकुच्यासीन्निमीलिता ॥
विरूपो हि जटी चापि दुर्वर्णः परुषः कृशः ।
सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः ॥'
तस्य कृष्णस्य कपिलां जटां दीप्ते च लोचने ।
बब्रूणि चैव श्मश्रूमि दृष्ट्वा देवी न्यमीलयत् ॥
संभूव तया सार्धं मातुः प्रियचिकीर्षया ।
भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ॥
ततो निष्क्रान्तमागम्य माता पुत्रमुवाच ह ।
अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ॥
निशम्य तद्वचो मातुर्व्यासः सत्यवतीसुतः ।
`प्रोवाचातीन्द्रियज्ञानो विधिना संप्रचोदितः ॥'
नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः ।
महाभागो महावीर्यो महाबुद्धिर्भविष्यति ॥
तस्य चापि शतं पुत्रा भविष्यन्ति महात्मनः ।
किंतु मातुः स वैगुण्यादन्ध एव भविष्यति ॥
तस्य तद्वचनं श्रुत्वा माता पुत्रमथाऽब्रवीत् ।
नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ॥
ज्ञातिवंशस्य गोप्तारं पितॄणां वंशवर्धनम् ।
`अपरस्यामपि पुनर्मम शोकविनाशनम् ॥
तस्मादवरजं पुत्रं जनयान्यं नराधिपम् ।
भ्रातुर्भार्याऽवरा चेयं रूपयौवनशालिनी ॥
अस्यामुत्पादयाऽपत्यं मन्नियोगाद्गुणाधिकम् ।'
द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ॥
स तथेति प्रतिज्ञाय निश्चक्राम महायशाः ।
साऽपि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ॥
पुनरेव तु सा देवी परिभाष्य स्नुषां ततः ।
ऋषिमावाहयत्सत्या यथापूर्वमरिन्दम ॥
`अम्बालिकां समाहूय तस्यां सत्यवती सुतम् ।
भूयो नियोजयामास सन्तानाय कुलस्य वै ॥
विषण्णाम्बालिका साध्वी निषण्णा शयनोत्तमे ।
कोन्वेष्यतीति ध्यायन्ती नियतां संप्रतीक्षते' ॥
ततस्तेनैव विधिना महर्षिस्तामपद्यत ।
अम्बालिकामथाऽभ्यागादृषिं दृष्ट्वा च साऽपि तम् ॥
विवर्णा पाण्डुसंकाशा समपद्यत भारत ।
तां भीतां पाण्डुसंकाशां विषण्णां प्रेक्ष्य भारत ॥
व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ।
यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामिह ॥
तस्मादेष सुतस्ते वै पाण्डुरेव भविष्यति ।
नाम चास्यैतदेवेह भविष्यति शुभानने ॥
इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ।
ततो निष्क्रान्तमालोक्य सत्या पुत्रमथाऽब्रवीत् ॥
`कुमारो ब्रूहि मे पुत्र अप्यत्र भविता शुभः ।'
शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ॥
`भविष्यति सुविक्रान्तः कुमारो दिक्षु विश्रुतः ।
पाण्डुत्वं वर्णतस्तस्य मातृदोषाद्भविष्यति ॥
तस्य पुत्रा महेष्वासा भविष्यन्तीह पञ्च वै ।
इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥'
तं माता पुनरेवान्यमेकं पुत्रमयाचत ।
तथेति च महर्षिस्तां मातरं प्रत्यभाषत ॥
ततः कुमारं सा देवी प्राप्तकालमजीजनत् ।
पाण्डुलक्षणसंपन्नं दीप्यमानमिव श्रिया ॥
यस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ।
`तयोर्जन्मक्रियाः सर्वा यथावदनुपूर्वशः ॥
कारयामास वै भीष्मो ब्राह्मणैर्वेदपारगैः ।
अन्धं दृष्ट्वाऽम्बिकापुत्रं जातं सत्यवती सुतम् ॥
कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ।
अन्धोयमन्यमिच्छामि कौसल्यातनयं शुभम् ॥
एवमुक्तो महर्षिस्तां मातरं प्रत्यभाषत ।
नियता यदि कौसल्या भविष्यति पुनःशुभा ॥
भविष्यति कुमारोऽस्या धर्मशास्त्रार्थतत्ववित् ।
तां समाधाय वै भूयः स्नुषां सत्यवती पुनः ॥'
ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् ।
सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तं ॥
नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ।
ततःस्वैर्भूषणैर्दासीं भूषयित्वाऽप्सरोपमाम् ॥
प्रेषयामास कृष्णाय ततः काशिपतेः सुता ।
सा तं त्वृषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च ॥
संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ।
`वाग्भावोपप्रदानेन गात्रसंस्पर्शनेन च ॥'
कामोपभोगेन रहस्तस्यां तुष्टिमगादृषिः ।
तया सहोषितो राजन्महर्षिः संशितव्रतः ॥
उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि ।
अयं च ते शुभे गर्भः श्रेयानुदरमागतः ।
धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ॥
स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः ।
धृतराष्ट्रस्य वै भ्राता पाण्डोश्चैव महात्मनः ॥
धर्मो विदुररूपेण शापात्तस्य महात्मनः ।
माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ॥
कृष्णद्वैपायनोऽप्येतत्सत्यवत्यै न्यवेदयत् ।
प्रलम्भमात्मनश्चैव शूद्रायाः पुत्रजन्म च ॥
स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च ।
तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ॥
एते विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि ।
जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥
1-115-42 अभुजिष्या अदासी ॥ 1-115-45 प्रलम्भमात्मस्थोने दासीनियोजनम् ॥ पञ्चादशाधिकशततमोऽध्यायः ॥ 115 ॥