अध्यायः 138
पुनर्भीमाय विषमिश्रभक्ष्यदानम् ॥ 1 ॥ शूलकीलितायां शमाणकोट्यां
पुनर्भीमसेनस्य पातनम् ॥ 2 ॥ पाताललोकं प्राप्तस्य भीमस्य वासुकिदत्तरसपानम् ॥ 3 ॥
ततस्ते मन्त्रयामासुर्दुर्योधनपुरोगमाः ।
प्राणवान्विक्रमी चापि शौर्ये च महति स्थितः ॥
स्पर्धते चापि सततमस्मानेव वृकोदरः ।
तं तु सुप्तं पुरोद्याने जले शूले क्षिपामहे ॥
ततो जलविहारार्थं कारयामास भारत ।
प्रमाणकोट्यामुद्देशे स्थलं किंचिदुपेत्य ह ॥'
भक्ष्यं भोज्यं च पेयं च चोष्यं लेह्यमथापि च ।
उपपादितं नरैस्तत्र कुशलैः सूदकर्मणि ॥
न्यवेदयंस्तत्पुरुषा धार्तराष्ट्राय वै तदा ।
ततो दुर्योधनस्तत्र पाण्डवानाह दुर्मतिः ॥
गङ्गां चैवानुयास्याम उद्यानवनशोभिताम् ।
सहिता भ्रातरः सर्वे जलक्रीडामवाप्नुमः ॥
एवमस्त्विति तं चापि प्रत्युवाच युधिष्ठिरः ।
ते रथैर्नगराकारैर्देशजैश्च गजोत्तमैः ॥
निर्ययुर्नगराच्छूराः कौरवाः पाण्डवैः सह ।
उद्यानवनमासाद्य विसृज्य च महाजनम् ॥
विशन्ति स्म तदा वीराः सिंहा इव गिरेर्गुहाम् ।
उद्यानमभिपश्यन्तो भ्रातरः सर्व एव ते ॥
उपस्थानगृहैः शुभ्रैर्वलभीभिश्च शोभितम् ।
गवाक्षकैस्तथा जालैर्यन्त्रैः सांचारिकैरपि ॥
संमार्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ।
दीर्घिकाभिश्च पूर्णाभिस्तथा पुष्करिणीषु च ॥
जलं तच्छुशुभे च्छन्नं फुल्लैर्जलरुहैस्तथा ।
उपच्छन्ना वसुमती तथा पुष्पैर्यथर्तुकैः ॥
तत्रोपविष्टास्ते सर्वे पाण्डवाः कौरवाश्च ह ।
उपच्छन्नान्बहून्कामांस्ते भुञ्जन्ति ततस्ततः ॥
अथोद्यानवरे तस्मिंस्तथा क्रीडागताश्चते ।
परस्परस्य वक्त्रेषु ददुर्भक्ष्यांस्ततस्ततः ॥
ततो दुर्योधनः पापस्तद्भक्ष्ये कालकूटकम् ।
विषं प्रक्षेपयामास भीमसेनजिघांसया ॥
स्वयमुत्थाय चैवाथ हृदयेन क्षुरोपमः ।
स वाचाऽमृतकल्पश्च भ्रातृवच्च सुहृद्यथा ॥
स्वयं प्रक्षिपते भक्ष्यं बहु भीमस्य पाकृत् ।
प्रभक्षितं च भीमेन तं वै दोषमजानता ॥
ततो दुर्योधनस्तत्र हृदयेन हसन्निव ।
कृतकृत्यमीवात्मानं मन्यते पुरुषाधमः ॥
ततस्ते सहिताः सर्वे जलक्रीडामकुर्वत ।
पाण्डवा धार्तराष्ट्राश्च तदा मुदितमानसाः ॥
विहारावसथेष्वेव वीरा वासमरोचयन् ।
भीमस्तु बलवान्भुक्त्वा व्यायामाभ्यधिकं जले ॥
वाहयित्वा कुमारांस्ताञ्जलक्रीडागतांस्तदा ।
प्रमाणकोट्यां वासार्थी सुष्वापावाप्य तत्स्थलम् ॥
शीतं वातं समासाद्य श्रान्तो मदविमोहितः ।
विषेण च परीताङ्गो निश्चेष्टः पाण्डुनन्दनः ॥
ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः स्वयम् ।
`शूलान्यप्सु निखायाशु प्रादेशाभ्यन्तराणि च ॥
लतापाशैर्दृढं बद्धं स्थलाज्जलमपातयत् ।
सशेषत्वान्न संप्राप्तो जले शूलिनि पाण्डवः ॥
पपात यत्र तत्रास्य शूलं नासीद्यदृच्छया ।'
स निःसंज्ञो जलस्यान्तमवाग्वै पाण्डवोऽविशत् ।
आक्रामन्नागभवने तदा नागकुमारकान् ॥
ततः समेत्य बहुभिस्तदा नागैर्महाविषैः ।
अदश्यत भृशं भीमो महादंष्ट्रैर्विपोल्बणैः ॥
ततोऽस्य दश्यमानस्य तद्विषं कालकूटकम् ।
हतं सर्पविषेणैव स्थावरं जङ्गमेन तु ॥
दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः ।
त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ॥
ततः प्रबुद्धः कौन्तेयः सर्वं संछिद्य बन्धनम् ।
पोथयामास तान्सर्पान्केचिद्भीताः प्रदुद्रुवुः ॥
हतावशेषा भीमेन सर्वे वासुकिमभ्ययुः ।
ऊचुश्च सर्पराजानं वासुकिं वासवोपमम् ॥
अयं नरो वै नागरेन्द्र ह्यप्सु बद्ध्वा प्रवेशितः ।
यथा च नो मतिर्व्रीर विषपीतो भविष्यति ॥
निश्चेष्टोऽस्माननुप्राप्तः स च दष्टोऽन्वबुध्यत ।
ससंज्ञश्चापि संवृत्तश्छित्त्वा बन्धनमाशु नः ॥
पोथयन्तं महाबाहुं त्वं वै तं ज्ञातुमर्हसि ।
ततो वासुकिरभ्येत्य नागैरनुगतस्तदा ॥
पश्यति स्म महाबाहुं भीमं भीमपराक्रमम् ।
आर्यकेण च दृष्टः स पृथाया आर्यकेम च ॥
तदा दौहित्रदौहित्रः परिष्वक्तः सुपीडितम् ।
सुप्रीतश्चाभवत्तस्य वासुकिः स महायशाः ॥
अब्रवीत्तं च नागेन्द्रः किमस्य क्रियतां प्रियम् ।
धनौघो रत्ननिचयो वसु चास्य प्रदीयताम् ॥
एवमुक्तस्तदा नागो वासुकिं प्रत्यभाषत ।
यदि नागेन्द्र तुष्टोऽसि किमस्य धनसंचयैः ॥
रसं पिबेत्कुमारोऽयं त्वयि प्रीते महाबलः ।
बलं नागसहस्रस्य यस्मिन्कुण्डे प्रतिष्ठितम् ॥
यावत्पिबति बालोऽयं तावदस्मै प्रदीयताम् ।
एवमस्त्विति तं नागं वासुकिः प्रत्यभाषत ॥
ततो भीमस्तदा नागैः कृतस्वस्त्ययनः शुचिः ।
प्राङ्मुखश्चोपविष्टश्च रसं पिबति पाण्डवः ॥
एकोच्छ्वासात्ततः कुण्डं पिबति स्म महाबलः ।
एवमष्टौ स कुण्डानि ह्यपिबत्पाण्डुनन्दनः ॥
ततस्तु शयने दिव्ये नागदत्ते महाभुजः ।
अशेत भीमसेनस्तु यथासुखमरिंदमः ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥
1-138-10 उपस्थानगृहैः यत्र राजानं कार्यिणः
शूराश्चोपतिष्ठन्ति तैर्गृहैः । वलभीभिरुभयतो नमत्पक्षाभिः स्तम्भशालाभिः ।
यन्त्रैर्जलयन्त्रैः शतधारादिभिः । यतो युगपच्छतं धारा उच्छलन्त्यो नीहारीभूय
भवनोदरं व्याप्नुवन्ति । सांचारिकैः संचारयोग्यैः ॥ 1-138-11 दीर्घिकाभिः
कुल्याभिः ॥ 1-138-13 उपच्छन्नानुपागतान् ॥ 1-138-31 विषपीतः पीतविषः ॥ 1-138-34 आर्यकेण नागराजेन । पृथाया आयकेण मातामहेन । कुन्तिभोजद्वारायं संबन्ध
इति गम्यते ॥ 1-138-35 दौहित्रदौहित्र इति त्वार्यकनागस्य दौहित्रः
शूरस्तद्दौहित्रो भीम इत्यविरुद्धमेतत् । अन्ये तु शूरमातामह एवोपचारात
कुन्तीमातामहोऽपीत्याहुः ॥ 1-138-38 रसं साधितपारदम् ॥
अष्टत्रिंशदधिकशततमोऽध्यायः ॥ 138 ॥