अध्यायः 150
द्रुपदोत्पत्तिः ॥ 1 ॥
जनमेजय उवाच ।
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम् ।
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान् ॥'
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम ।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः ॥
वैशंपायन उवाच ।
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात् ।
वनं गतो महाराजस्तपस्तेपे सुदारुणम् ॥
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान् ।
तस्य संतप्यमानस्य वने मृगगणायुते ॥
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात् ।
स तु राजा महातेजास्तपस्तीव्रं समाददे ॥
कंचित्कालं वायुभक्षो निराहारस्तथैव च ।
तथैव तु महाबाहोर्वर्तमानस्य भारत ॥
कालस्तस्य महाराज यातो वै नृपसत्तम ।
ततो नातिचिरात्काले वसन्ते कामदीपने ॥
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे ।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः ॥
नियमस्थश्च राजासीत्तदा भरतसत्तम ।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर ॥
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता ।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत् ॥
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम् ।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि ॥
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम् ।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत् ॥
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः ।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु ॥
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः ।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत ॥
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत ।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम ॥
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः ।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः ॥
स कुमारस्ततो राजन्द्रोणेन सहितो वने ।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत ॥
परया स मुदा युक्तो विचचार वने सुखम् ।
तस्यैवं वर्तमानस्य वने वनचरैः सह ॥
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान् ।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः ॥
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः ।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम् ॥
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम् ।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चाशदधिकशततमोऽध्यायः ॥ 150 ॥