अध्यायः 012
जनमेजयसर्पसन्नप्रस्तावः ॥ 1 ॥
रुरुरुवाच ।
कथं हिंसितवान्सर्पान्स राजा जनमेजयः ।
सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम ॥
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता ।
आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः ॥
ऋषिरुवाच ।
श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् ।
ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम् ॥
सौतिरुवाच ।
`इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ ।
संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम् ॥'
बलं परममास्थाय पर्यधावत्समन्ततः ।
तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि ॥
स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत् ।
तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः ॥
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा ।
`पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत् ॥
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा ।
आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम् ॥
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः ।'
पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ॥ ॥
इति श्रीमन्महाभारते आदिपर्वणि पौलोमपर्वणि द्वादशोऽध्यायः ॥ 12 ॥
॥ समाप्तं पौलोमपर्व ॥
1-12-5 नष्टं अन्तर्हितं ॥ द्वादशोऽध्यायः ॥ 12 ॥